भारतकोश
संग्रह पर लौटें

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

१८ श्रीमद्यमुनाष्टकम् । विशुद्धमथुरातटे सकलगोपगोपीवृते एव प्रभुप्राकट्यात्तथा । विशुद्धा मथुरा तटे यस्याः । सा निकटे वा यस्य । निरवधिकृपायुक्तो हरिरस्तस्मिन् । अन्या नदी लौकिकं जलधिं सङ्गता श्रीहरिरायप्रणीतं टिप्पणम् । विशुद्धमथुरातटे इति । अत्राऽयमर्थः । मथुरा हि विशुद्धा, सर्वदोष- राहित्यात् । न हि तत्र भूम्यादिदोषाः सम्भवन्ति । तत्त्वान्युत्पाद्य "तत् सृष्ट्वा तदेवाऽनुप्राविशदि"ति श्रुतेः कारणतया तेषु प्रविष्टस्य भगवतो भूमितत्त्वैक- देशरूपमथुराया नित्यस्थितिस्थानत्वात् । अत एव जीवानां "काश्यादिपुर्यो यदि सन्ती"ति वाक्यात्सा सर्वैः प्रकारैर्मोक्षदात्री । तादृश्या अपि श्रीमद्यमुनातटे सत्त्वेन लीलास्थानतया यत्र भगवाँस्तल्लीलाविशिष्टः प्रकटस्तत्र सेत्येवं निरन्तरप्रभुसा- न्निध्येन भक्तिदायकत्वात् "ज्ञानोत्कर्षस्तदैव स्यात्स्वभावविजयो यदी"त्यत्रोक्तं ज्ञानं निरूपितम् । सकलगोपगोपीवृत इति । परोक्षेऽपि भक्तानां भग- वत्सम्बन्धमाकाङ्क्षमाणानां तत्रैव भगवत्सम्बन्धोऽनुभूत इति तदाशया सततं तामावृत्य स्थितिरिति तत्सङ्गः सर्वदा । सं च निरुपधिभगवत्सम्बन्धिभावेनैव भवतीति सर्वदा भगवत्प्रीत्या भगवतोऽपि भक्तसम्बन्धसम्पादकतया व्रजभक्तानां च मानादिदोषनि- वारकतया तापहारकत्वेन च "हरेश्चरणयोः प्रीतिः स्वसर्वस्वनिवेदनात् । उक्त- श्रीपुरुषोत्तमप्रणीता विवृतिः । शयेनोक्तं विशुद्धेत्यादि । अत्र पद्मनाभादिपद इव गङ्गादित्वात्समासः । प्रभु- पक्षे तटपदं लाक्षणिकमित्याशयेनाऽऽहुर्निकटे वा यस्येति । नैकट्यं च 'मथुरा भगवान् यत्र नित्यं सन्निहितो हरिरि'तिवाक्योक्तनित्यसन्निधानात् । निरवधीति, जलधिपदविवरणम् । 'न वै कामस्याऽन्तोऽस्ति न समुद्रस्ये'ति श्रुतेः । अनया फक्किकया प्रभुपक्षे कृपाजलधिरिव कृपाजलधि तेन संश्रितस्तस्मिन्नित्युपमित- समासोत्तरं 'कर्त्तृकरणे कृता बहुलमि'ति गतिपूर्वकसमासो बोधितः । तत्प्रियापक्षे समासबोधनपूर्वकमस्य तात्पर्य्यमाहुरन्येत्यादि । इदमपि 'विश्रुत्योधेन सा- ऽऽदित्यमि'ति पूर्ववाक्य एव सिद्धम् । इति भावः सृचिन इति । एतेन पूर्व- श्लोकोक्तं भुवनपावनीत्वमेतावत्पर्यन्तं न तु पापनिवृत्तिमात्रेण चरितार्थमिति बोधि- तम् । एवं च हे षड्विशेषणविशिष्टे घनाघननिभे तादृशे सदा घनाघननिभे मम मनस्सुखं भावय उत्पादयेति मूलान्वयः । 'धुन्व्नुस्तस्याऽभवत्सुत' इत्यादौ भूव उत्प- त्त्यर्थस्य प्रसिद्धत्वात् । यद्वा । सुखं यथा स्यात्तथा मम मनो भावय प्रापयेत्यर्थः । १ स च निरुपधिभावेनैवेति क. घ. अ. सर्वाननूपमभावेनेवेत्यादि ङ.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । १९ कृपाजलधिसंश्रिते मम मनस्सुखं भावय ॥ ४ ॥ भवति । इयं तु तादृशं श्रीव्रजशं संश्रिता । एतेन त्वत्सङ्गतो भगवत्सङ्गतो भवतीति भावः सूचितः ॥ ४ ॥ श्रीहरिरायप्रणीतं टिप्पणम् । र्धश्चाऽपि वैराग्ये हरेरपि हरिर्यदी'त्यत्रोक्तं वैराग्यं निरूपितमित्यर्थः । एवं षड्भिर्विशेषणैः षड् धर्मान्निरूप्य धर्मिस्वरूपं निरूपयन्ति कृपाजलधिसंश्रित इति । प्रभुविशेषणपक्षे निरवधिकृपायुक्तत्वेन स्वरूपमेवाऽभिहितं न धर्मः । करुणा- र्यास्तु नित्याविर्भूतधर्मत्वेन स्वरूपमध्यपातात् । अन्ये धर्मा नित्या अपि लीलोप- योगिनस्तत्तल्लीलायां प्रकटीक्रियन्ते नाऽन्यदा । करुणा तु सर्वदाऽऽविर्भूतैव स्वरूप इति सदा तद्युक्तत्वात्स्वरूपमेव सेति भावः । श्रीमद्यमुनापक्षे कृपाजलधिरपारकरुणो भगवांस्तं सम्यगविच्छेदेन श्रितेति मुख्यस्वामिनीवर्द्धनारीनरवद्वा तत्स्वरूपमेवो- क्तमिति भावः । मम मनस्सुखं भावयेति । पूर्वोक्तधर्मवति हरौ मम मनस्सुखं भावेनाऽनुभूयमानानन्दस्तं भावय विचारय, कथं स भविष्यतीति । तद्विषयिणीं चिन्तां कुर्वित्यर्थः । अनेन त्वच्चिन्तयैवाऽयमानन्दः प्राप्यो नाऽन्यसाधनैरिति भावो निरूपितः । सम्बुद्धिपक्षे मम मनसि भगवत्स्वरूपानुभवजन्यं यत्सुखं तत् त्वं भावय स्वमनस्यानयेत्यर्थः । अनेन त्वच्चेतसि समागतावेव तत्सुखं सर्वदाऽनुभवविषयो श्रीपुरुषोत्तमप्रणीता विवृतिः । 'भू व्याप्तौ' । क्रियाफलस्य कर्तृगामित्वाभावान्नाऽऽत्मनेपदम् । मनसः सुखं स्वामी- ष्टरीतिकं भगवत्प्राप्त्येति तथा तां संपाद्य तदुत्पादयेति । आदित आप्राप्ति यथा सुखं भवति तथा अनायासेन मनः प्रापयेति वा प्रार्थना । अत्राऽऽद्येन विशेषणेन गुणेषु सङ्ख्याकालापरिच्छेदबोधनादतिसामर्थ्यरूपमैश्वर्यं बोधितम् । द्वितीयेन "सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगा" इत्याद्युक्तदेवजेतृत्वरूपं वीर्यम् । तृतीयं तु विशेष्यमेव । तुरीयेण दातृत्वाद्यशः । पञ्चमेन ज्ञानम् । स्वसन्निधाना- देव ज्ञानकार्यस्य विशुद्धत्वस्य मथुरायामाविर्भावात् । षष्ठेन श्रीः । 'चकास गोपी- परिषद्गतोऽचितस्त्रैलोक्यलक्ष्म्यैकपदं वपुर्दधदि'ति तदावरणेनैव तत्प्रकाशात् । सकल- पदेनाऽनीर्ष्याद्योतनाद्विवक्षितमपि गुणातीतत्वं स्फोरितम् । सप्तमेन वैराग्यम् । विरक्त एव हि कृपालुर्भवति, न तु रक्तः, रागस्य गर्द्धात्मकत्वात् । 'नाऽहमा- १ करुणायाः स्वनित्याविर्भूतधर्मत्वेनेत्यादिः ङ.

२० श्रीयमुनाष्टकम् ।

यया चरणपद्मजा मुररिपोः प्रियम्भावुका

अथ भगवदीयानामप्युत्कर्षाधायिका या तदुत्कर्षं को वक्तुं शक्त इति भावेनाऽऽहुर्ययेति । चरणपद्मजा गङ्गा । तेन भक्तिमार्गीया ।

श्रीहरिरायप्रणीतं टिप्पणम् ।

भवति । भगवताऽष्टविधैश्वर्यस्य त्वयि निक्षिप्तत्वात् स्वयं त्वदधीनः सर्वदाऽनीश्वर इवेति त्वद्विचारेणैव तद्भवतीत्यभिप्रायः सूचितः । एतेनेत्यादिना तव सर्वदा तद्द्रवी- भूतरसात्मकत्वेन लीलाविशिष्टप्रभुसङ्गतत्वाद्येन केनाऽपि सम्बन्धेन त्वत्सङ्गतौ तादृ- क्प्रभुसङ्गतिरेव जातेत्याशयोऽत्र बोध्यः ॥ ४ ॥ अथेत्यार्थान्तरोपक्रमे । पूर्वं चतुर्भिः श्लोकैरूत्कर्षवर्णनेन स्तुतिः कृता । अतः परमुत्कर्षवर्णनस्याऽशक्यत्वनिरूपणेन सा निरूप्यत इत्यर्थः । भगवदीयानाम- पीति, भगवता भगवदीयत्वरूपपरमोत्कर्षं प्रापितानामपीत्यर्थः । चरणपद्मजेति, चरणजेत्येतावर्तव चारितार्थ्येऽपि पद्मपदोपादानस्याऽयमाशयः । यथा पद्मजो ब्रह्मा भगवतः पपञ्चे क्रीडार्थं भगवदाज्ञां च प्राप्य प्रपञ्चं सृष्टवान् स्वयं निरपेक्षस्तथेय- मपि स्वगतभगवच्चरणरेणुभिः सेवौपयिकदेहसम्पादनेन भगवतो भक्तिमार्गप्रकटने- च्छामवगत्य स्वयमनपेक्षैव भगवत्क्रीडार्थं भगवदीयजनान् सृष्टवतीति । अत्र ब्रह्म- वदाज्ञाऽभावोऽस्या भगवति साक्षात्सम्बन्धत्वेन हार्दवित्त्या । न हि हार्दविदो लोकेऽप्याज्ञाप्यन्ते, अतिचतुरत्वादिति भावः । तेनेति, चरणपद्मजातत्वेनेत्यर्थः । चरणं हि निर्दोषपूर्णगुणं भक्तिरूपं च तज्जातत्वेना श्यामपि तद्गुणसङ्क्रमः । तथौ- चाऽन्येषामपि सेविनां तथा करणमुचितम् । 'कारणगुणा हि कार्यगुणानामारम्भका'

श्रीपुरुषोत्तमप्रणीता विवृतिः ।

त्मानमाशासे मद्भक्तैः साधुभिर्विने'ति भक्तान् विना स्वस्मिन्नपि वैराग्यबोध- नाच्च । तत्संश्रितत्वेन श्रीयमुनाया अपि तथात्वाच्च । अत्र भगवत्समानधर्मवत्त्वा- ज्जीवस्याऽनायासेन भगवत्सम्बन्धसम्पादकत्वं तुरीयमैश्वर्यं स्फुटमेव । एवं चतुर्भिः श्लोकैः स्वरूपं गुणाश्चोक्ताः ॥ ४ ॥ अतः परं पूर्वोक्तस्य सर्वस्याऽसत्समारेपणत्ववारणाय गुणानामानन्त्या- द्विशेषो वाग्विषय इति तत्सत्ता दिङ्मात्रेणोच्यत इति बोधयितुमग्रिमः श्लोक इत्याशयेन तमवतारयन्त्यथेत्यादि । अत एव प्रक्रमान्तरबोधकपदोक्तिः । १ सम्बन्धत्वेनेति क-ख-ग-घ-च. २ तथाऽन्येषामिति ख.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २१ समागमनतो भवतसकलसिद्धिदा सेवताम् । निर्दोषपूर्णगुणाऽपि यया त्वया सह समागमनतो मिलनतो हरेस्तथाऽभवत् । श्रीहरिरायप्रणीतं टिप्पणम् । इति न्यायादिति भावः । यया त्वयेति, त्वया पुष्टिमार्गीयया सर्वाङ्गसम्बन्धिन्या मिलनतो मुररिपोर्भक्तप्रतिबन्धनिवर्त्तकस्याऽत एव तद्दुःखहर्त्तुः प्रियम्भावुका । यथा श्रीयमुना साक्षात्सेवोपयोगिदेहसम्पादनेन सेवकसृष्टिककरणात्तत्कृतसेवया प्रियम्भा- वुका, तथा गङ्गा श्रीयमुनासङ्गानन्तरं तद्गतसरश्रमजलाणुसम्बन्धे साक्षात्सेवो- श्रीपुरुषोत्तमप्रणीता विवृतिः । मिलनत इति । सञ्ज्ञापूर्वकस्य विधेरनित्यत्वादुणाभावः । तथाऽभवदिति । प्रियम्भावुका अभवत् । 'भुवः खिष्णुच् खुकञावि'त्यनेनाऽऽख्यादिभ्यः परस्य भूधातोरिच्छ्यर्थे खुकञि प्रियम्भावुकशब्दसिद्धिः । तथाचाऽप्रिया प्रिया सम्पन्ने- त्यर्थः । अप्रियत्वं चरणक्षालनजलत्वाद्भौतिकत्वाभ्यां च । तेनेत्याद्युक्तगुणवत्त्वं तु चरणस्यैव माहात्म्यमतो न चोद्यावसरः। सेवतामित्यनुदात्तेत्त्वलक्षणस्याऽऽत्मने- पदस्याऽनित्यत्वेन शतृप्रत्ययः । अत एव 'त्वां सेवतां सुरकृता बहवोऽन्तराया' इत्याद्यार्षप्रयोगः । यद्वा । क्विबन्तो नामधातुप्रयोगः । सेवेवाऽऽचरताम् । सेवा यथा प्रसादिका तथा स्तोत्रपाठादिना प्रसादयतामित्यर्थः । ननु पूर्वार्द्धोक्तेऽर्थे किं मानमित्याकाङ्क्षायां तद्वदन्त एवोत्तरार्द्धं विवृण्वन्ति पूर्वमित्यादि । अन्य- सङ्गतिजनितमिति । कुटिलाजलावरणजलशिवजटादिसङ्गतिजनितम्। वामनपुराणे उमातो ज्येष्ठा हिमवत्सुता ब्रह्मशापेन नदी भूत्वा सत्यलोके प्रवहन्ती आर्षे रामायणे गङ्गापदेन निर्दिष्टा । पञ्चमस्कन्धे “साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपदाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणाऽन्तः प्रविष्टाया बाह्यजलधारे”त्यादि- नैका गङ्गोक्ता । पुराणान्तरे गोदामाहात्म्ये विवाहसप्तपदीसामयिकपार्वतीदर्शन- जातेरेतःपातलज्जया बहिर्निर्गतस्य ब्रह्मणः पापापनुत्तये शिवेन पृथिवीसारतः कमण्डलुं निर्माय तत्र सकलजलसारमादाय तस्मै दत्तं तन्त्रिविक्रमचरणक्षालनेन गङ्गात्वमापन्नं भगीरथगौतमाभ्यां शिवजटाजूटद्वाराभेदेनाऽऽनीतम् । एतदेव “या वै लसच्छ्रीतुलसीविमिश्रपादाब्जरेण्वभ्यधिकाम्बुनेत्री”ति प्रथमस्कन्ध उक्तम् । तिसृ- १ सेवकसृष्टिकर्तृत्वतादिति ग-घ. २ तत्कृतेसेवायांमिति च, अ.

२२ श्रीयमुनाष्टकम् । तया सदृशतामियात्कमलजा सपत्नीव यद्धरि- सेवतां च तथा । पूर्वं गङ्गाया अन्यसङ्गतिजनितमुत्कर्षमुक्त्वा भगव- त्सङ्गतिजनित उत्कर्षः पठितः " सा राजन् दर्शनादेव ब्रह्महत्यापहा- रिणी " त्यादिरूपः । एतादृश्या त्वया सह सदृशतां किं काऽपीयादिति श्रीहरिरायप्रणीतं टिप्पणम् । पयोगिदेहादिसम्पादनपूर्वकं सेवकसृष्टिकरणात्तथा जाता । सेवतां भवन्मिलितगङ्गा- सेवकानां च पूर्वोक्तसकलसिद्धिदा जातेत्यर्थः । अयमुत्कर्षः स्वानुभवेनोक्तः । परं नाऽत्र चित्रं किञ्चित् । यो हि यदाविष्टः स तदा तत्कार्यं करोति । भगवदाविष्टभक्त इव । अत एव " कस्याश्चित्पूतनायन्त्या " इत्यादिवाक्यानीति नाऽनुपपत्तिः । पूर्वमिति, यद्यपि पूर्वमाचार्यवर्यप्राकट्यात्पूर्वं पुराणादिष्वपि सरस्वतीसङ्गतिजनित- मुत्कर्षमभिधाय भवतीसङ्गतिज उत्कर्षः पठितः । परन्तु "सा राजन् दर्शनादेव ब्रह्महत्यापहारिणी"त्यादिरूपो न तु पूर्वोक्तरूपः । श्रीयमुनाया निजाचार्यप्राकट्या- त्पूर्वमेवंविधस्वरूपज्ञानात्तदन्निरूपणात् । अतोऽयमेवोत्कर्ष एतत्सङ्गत्त्यनन्तरं भावी मन्तव्य इति भावः । एतादृश्येति, स्वसम्बन्धेन स्वसमानगुणसम्पादिकयेत्यर्थः । श्रीपुरुषोत्तमप्रणीता विवृतिः । णामेकीभावेन पातेऽपि "विष्णोः पादाच्छिशुमाराद्ध्रुवाच्च सोमात्सूर्यान्मेरुरूपाच्च विष्णोः । समागता शिवमूर्ध्नो हिमाद्रिमि"ति महाभारतेऽवतरणक्रम उक्तः । एवमग्रे तत्तत्क्षेत्रसम्बन्धे तत्तत्पुराणेषु तत्तत्कृत उत्कर्षश्चेति तथा । आदिपदेन "सितासिते सरिते यत्र सङ्गते तत्राऽऽप्लुतासो दिवमुत्पतन्ति । ये वै तन्वां विसृजन्ति धीरास्ते जनासो अमृतत्वं भजन्त" इति श्रुतिरन्यच्च सङ्गृहीतम् । तेन श्रीयमुनासङ्गमात्सेवकसकलसिद्धिदातृत्वं स्पष्टमेवेति बोधितम् । भगव- त्प्रियम्भावुकत्वं तु समागम एव माहात्म्याधिक्यबोधनाद्भगवत्प्रियत्व एव च तथाभावात् । अन्यथा चर्मण्वत्यादिनद्यन्तरस्याऽपि तथात्वापत्तेः । अतस्तदेतैरेव वाक्यैः सिद्धयतीति तत्र विशेषतः प्रमाणान्तरं नोपन्यस्तम् । यद्वा । "आकेस्तच्छी- लतद्धर्मतत्साधुकारिष्व"त्यधिकारस्थितेन "लषपते"ति सूत्रेण भुञ् उक्तम् । तथा च १ भवतीसङ्गति० पाठ. २ पूर्वकसेवाकारणादिति ग-घ. पूर्वकसेवाकरणादिति क. पूर्वकं सेवाकरणादिति ङ. पूर्वकं तत्सेवाकरणादिति ख-च. पूर्वकं सेवाकारणादिति मुद्रितग्रन्थे स्वीकृतः । अ ग्रन्थे उपरि निर्दिष्टोन्वर्थः पाठः वर्तते सोऽस्माभिः स्वीकृतः ३ भवत्सङ्गतिज इति च, भगवत्सङ्गतिज इति ग.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २३ प्रियकलिन्दया मनसि मे सदा स्थीयताम् ॥ ५ ॥ काकूक्तिः । यदीयात् कमलजेयात् । तत्र हेतुमाहुर्यद्यस्मात्सा भगवत्पत्नी- त्वात्सपत्नी भवति । तत्रा१पि भवती प्रियेति—इवेति । भक्तानुगुणत्वमाहु- र्हरिप्रियाणां कलिं (दोषं) यति खण्डयति ॥ ५ ॥ श्रीहरिरायप्रणीतं टिप्पणम् । भगवत्पत्नीत्वादिति, पत्नीत्वादेव सपत्नीत्वं न तु पुष्टिमार्गीयलीलासम्बन्धित्व- भक्तानुगुणत्वादिगुणैरित्यर्थः । तत्राऽपीति, पत्नीत्वेऽपीत्यर्थः । भक्तानुगुणत्व- मिति, दोषनिवर्त्तकत्वेनेत्यर्थः । गुणस्तु हरिप्रियपदेनैव सिद्ध इति भावः । मनसि मे सदा स्थीयतामिति मूले। मनसो भावाधिष्ठानत्वेन तत्र पूर्वोक्तधर्मवत्याः सतत- स्थितौ भावस्याऽपि निर्दोषपूर्णगुणत्वं सेत्स्यतीति भावः ॥ ५ ॥ श्रीपुरुषोत्तमप्रणीता विवृतिः । मुररिपोः प्रियं यथा स्यात्तथा भावुका भवनसाधुकारिणी। भगवत्सेवायोग्यशरीरोत्प- त्तिसाधिकेत्यर्थः । कमलजेति । लक्ष्म्याः कमलजत्वं विष्णुपुराणे "पुनश्च पद्मादुद्भूता आदित्योऽभूद्यदा हरिरि"ति लक्ष्म्यवतारकथने । "नमस्ते सर्वभूतानां जननीमब्जसम्भवामि"तीन्द्रस्तुतौ च स्फुटम् । अतिप्रियत्वे प्रमाणं कार्यलिङ्ग- कानुमानमेवेति मूलाशयमुद्घाटयन्ति भक्तेत्यादि, कलिं यतीति । अत्र "तत्पुरुषे कृति बहुलमि"ति बहुलग्रहणाद्वितीयाया अलुक् । एतेन लक्ष्म्यंशास्तदाविष्टाश्च सापत्न्येनेर्ष्यावत्यो भवन्ति, भवती तु तासां तदपाकरोतीति गुणातीतत्वं प्रियत्वबीजभूतं कार्यद्वारा निश्चायितम् । कलिन्देयेति भावप्रधानो निर्देशः । तथाचाऽनेन रूपेण मे मनसि सदा स्थीयतामिति तदावेशेन स्वस्य भगवत्प्रि- यत्वफलिका द्वितीया प्रार्थना । पूर्वश्लोकोक्तसम्बुद्धिभिश्चारितार्थ्यान्न पुनस्तदुक्तिः । अत्र भगवत्प्रियकलिनिवारकत्वरूपं पञ्चममैश्वर्यं स्फुटमेव ॥ ५ ॥ १ तत्रापि प्रियेति वेतीति ख. तत्रापि भगवती प्रियातीवेतीति ग. दृष्टस्त्वेवम्.

२४ श्रीयमुनाष्टकम् । नमोऽस्तु यमुने सदा तव चरित्रमत्यद्भुतं न जातु यमयातना भवति ते पयःपानतः । एतादृश्यां त्वयि नमनातिरिक्तं न वक्तुं शक्यमित्याशयेनाऽऽहु- र्नमोऽस्त्विति । त्वयि नमनमपि दुर्लभमतः प्रार्थ्यते अस्त्विति । अद्भुत- त्वमेवाऽग्रे उपपादितम् ॥ ६ ॥ श्रीहरिरायप्रणीतं टिप्पणम् । एतादृश्यामिति । भक्तोत्कर्षाधायिकायां भक्तानुगुणायां चेत्यर्थः । एते- नैतादृगुपकर्त्र्या प्रत्युपकृत्यसम्भवेन यथाकथञ्चिन्नमनमेव माहात्म्यज्ञानात्सम्भवति नाऽन्यदित्युक्तं भवति । नमनमपीति । भगवति नमनं सम्भवत्यपि । भगवन्माहा- त्म्यस्य शास्त्रसिद्धत्वात् । भवत्यां तु लीलासृष्टिप्रवेशे तादृग्भावसम्पत्तौ तत एव तथा- विधभावावगतौ तद्भवतीति दुर्लभमेवेत्यर्थः । अद्भुतत्वमेवेति । मूले अति- १शब्दादद्भुतत्वमपि तथाविधं वाच्यम् । तत्राऽयं भावः । भगवानद्भुतकर्मा, “कृष्णा- श्रीपुरुषोत्तमप्रणीता विवृतिः । एवं निरस्तसाम्यत्वबोधनेनाऽधिकवर्णनाशक्तिं समर्थयित्वा ‘नमामी’त्यादौ नमनस्याऽग्रे ‘नमते’त्युपदेशे कैमुतिकेन हेतुतोक्त्याऽपि चारितार्थाद्यन्न पूर्वोक्त आचार्या- शय इति शङ्कां वारयितुं भगवत्कृपाङ्कुरं विना श्रीयमुनानमनमपि कोऽपि कर्तुं न शक्तः कुतस्तरां नमनातिरिक्तमित्याशयमग्रेिमे स्वयमेव प्रकाशयन्तीति नाऽस्मदुक्तं विरुद्धमित्याशयेनाऽग्रिममवतारयन्त्येतादृश्यामित्यादि । एतादृश्यामिति वैषयिका- धिकरणसप्तमी । दुर्लभमिति । भगवत्कृपाङ्कुरं विना तत्र तादृक्श्रद्धाया एवाऽनुदयात्त- थेत्यर्थः । ननु प्रार्थनाव्यतिरिक्ताथ्र्थान्तरेऽपि तथा प्रयोगान्नेदं गमकमित्यत आहुरद्भुतत्वमेवेत्यादि । अन्यथा चरित्रस्याऽद्भुतत्वं नोपपादयेयुः । इदमपि तत्रैवोक्तम् । “गण्डूषमात्रमप्यम्बु पीत्वा भवति सोमपाः । सप्तकृत्वश्च सप्तैव सोमसंस्थाः समाप्नुयादि”ति । “विनिग्राहास्त्वया आतर्ये नराः पापकारिणः । तानहं तारयिष्यामि प्राप्स्यामि च सुरालयमि”ति । तथा च यस्या ईदृशं चरित्रं तस्या उत्कर्षज्ञानं न भगवत्कृपाङ्कुरं विना, तदभावे तदभावान्न नमनमपी- त्यतिदुर्लभत्वात्तदर्थमपि कृपाऽपेक्षेतेति प्रार्थनैऽवार्थ इति भावः । मूले पयःपाने १ अत्युपसर्गादिति ख-ग-घ. २ अद्भुततमपीति क-ग-घ.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। २५ यमोऽपि भगिनीसुतान्कथमु हन्ति दुष्टानपि प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥ ६ ॥ श्रीहरिरायप्रणीतं टिप्पणम् । याऽद्भुतकर्मण" इत्याचार्यैर्निरूपितत्वात् । तच्च "असाधनं साधनं करोति" इत्यादि- रूपम् । यथाऽसाधनं कामादि प्रमेयबलप्राकट्येन साधनं भगवद्भावनाहेतुत्वेन । तत्र विषयत्वेन स्वप्रवेशात् । अत एव 'गोप्यः कामादि'त्यादिवाक्यानि । उक्तं चाऽऽचार्यवर्यैः 'कामान्ता च कृतिः स्फुटा । कामोद्भूते तथा प्रीतिरि'ति । एवं सति भगवानसाधन- मपि स्वरूपबलेन साधनं करोति । तथाविधस्वरूपप्रदर्शनेन तादृग्भावजननात् । अत्र तु भावनाभावेऽपि असाधनं पयःपानं पिपासाहेतुकं तथा फलसाधकं साधनीकरणा- भावेऽपीत्यत्यद्भुतत्वमेतच्चरित्रस्येति भावः । न हि पिपासया पानीयपाने काऽपि तद्भावना सम्भवति । अतस्तदसाधनमेव । ननु यमयातनाभावस्तु भगवन्नाम्नाऽपि भवतीति को विशेष एतच्चरित्र इति चेत्तत्राऽऽहुर्जातु इति मूले । कदाचिन्नामाप- राधेपु सत्सु गुरुवैमुख्यदुःसङ्गवर्जनरूपाङ्गद्वयाभावे न फलत्यपि नाम, न तथा प्रकृते । न हि पिपासया पाने नामग्रहण इव किञ्चिदङ्गमपेक्ष्यम् । अतो महानेव विशेष इति भावः । नन्वत्र कोपपत्तिः पयःपानेन यमयातनाभावे । लौकिकेन तेनाऽदृष्टाजननात् । नाऽपि दृष्टद्वारा, असम्भवात् । न हि पिपासाहेतुकपयःपानस्य श्रीपुरुषोत्तमप्रणीता विवृतिः । युष्मदनुरोधेन यातनाभावेऽपि स्वस्याऽधिकृतत्वादल्पदण्डं तु दास्यत्येवेत्यत आहुर्यमोऽपीत्यादि । उस्तर्के । इदमपि तत्रैव, "यमुने कृपया पापानवशं तार- यिष्यसि । मयि त्वया दया कार्या निर्दये निगृहीतरी'ति यमेनोक्तम् । "एवमस्तु मदम्भोभिः स्नात्वा त्वामादरान्नराः । दशभिश्च चतुर्भिश्च तर्पयिष्यन्ति नामाभिः । तेन हिंसापरोऽपि त्वं धृतकल्पो भविष्यसि । निरातङ्का भविष्यन्ति भवतो येऽपि पापिन" इति यमुनावाक्यैरेव सिद्धम् । उपपत्तिमात्रं परं तर्क्यत इत्यर्थः । यथा गोपिका इति । १ तच्चरित्रिति च. २ दर्शनेनेति क-ख-ग-घ. प्रदर्शने इति च. ३ पयःपानेन यमयातनाभावहेतुत्वं क्विदपि लोके सिद्धमित्याशङ्कयाऽऽहुः - यमोऽपीति ख. पयःपानेन यमयातनाभावः । लौकिके पयःपाने कृते अदृष्टे अलौकिको यमयातनाभावः । तस्याऽनुत्पत्तिः । नापि दृष्टद्वारा । असम्भवादित्यादिः च. ४

२६ श्रीयमुनाष्टकम्। श्रीहरिरायप्रणीतं टिप्पणम्। यमयातनाभावहेतुत्वं क्वचिदपि लोके सिद्धमित्याशङ्कयाऽऽहुर्यमोऽपीति मूले। श्रीयमुना हि यमभगिनी, सूर्यापत्यत्वात्। तत्राऽपि कनिष्ठा, यमोत्पत्त्यनन्तरं तद्दो- षपरिहाराय रविणा पश्चादुत्पादितत्वात्। अतो यमसन्माननीया। तस्याः पयःपाने तत्सुतत्वम्। पयःशब्दस्य श्लिष्टार्थकत्वात्। वस्तुतोऽपि पयःपानेन तत् सुत- त्वम्। पञ्च महाभूता तदपेक्षया जलस्यैव मुख्यत्वं, पयसैव देहोत्पत्तेः। भूतान्तरापेक्षया पयस एव विशेषतो देहोत्पादकत्वात्। "पञ्च- म्यामाहुतावापः पुरुषवचसो भवन्ती"ति श्रुतेः। तादृशेषु दोषसत्त्वेऽपि भागिनेय- त्वेनाऽतिमान्यत्वात्स्वत एव कथं यमस्ताँस्तथा करोतीत्यर्थः। एवं दोषनिवारक- मद्भुतचरित्रमुक्त्वा फलसम्पादकमद्भुतचरित्रमाहुः प्रियो भवतीति मूले। भग- वदङ्गीकृतानां भगवदुक्तसाधनैर्भगवति प्रीतिसिद्धिर्भगवच्छास्त्रसिद्धा, न तु भगवतो जीवेषु प्रीतिः, तेषामविद्यादिदोषग्रस्तत्वात्। न हि निर्दोषः सदोषेषु रमते प्रीणाति च। तव पुष्टिमार्गीयायाः सेवनात्सर्वभावेन चेतसस्त्वदधीनत्वकरणात्त्वदीयत्वे सम्पन्ने स्वसम्बन्धिसम्बन्धाद्धरेः सर्वदुःखहर्तुस्तादृक्स्वभावस्य स सेवकस्तदीयः प्रियो भव- तीत्यर्थः। इदमपि तवाऽद्भुतचरित्रम्, शास्त्रासिद्धत्वात्, लोकेऽपीतरतोषहेतुकृते- रितरतोषासाधकत्वाच्च। ननु किं प्रमाणमत्र कुत्राऽप्येवं फलस्याऽदृष्टत्वादित्याशङ्क्य दृष्टान्तमाहुर्यथा गोपिका इति मूले। यथा व्रतप्रसङ्गे फलप्रकरणीयगुणगानप्रसङ्गे च तव सेवनाद् गोपिका हरेस्तथा जाताः। तथाऽन्योऽपि भगवत्सेवकस्तथा भव- तीति भावः। अथवा। यथा गोपिका इति दृष्टान्तेन न प्रीतिमात्रं किन्तु यथा ताः सर्वभावेन प्रीतिविषया भगवतस्तथाऽयमपि भवतीति भावः॥ ६॥

श्रीपुरुषोत्तमप्रणीता विवृतिः। प्रियत्वे उदाहरणम्। अन्यथा बहुषु भक्तेषु सत्स्वप्येकादशे तास्वेवैतानत्वेन प्रियत्वं न वदेदतस्तथेत्यर्थः। प्रियभवने दृष्टान्तश्चाऽयम्। सेवनस्य हेतोस्तुल्यत्वात्। तेन ब्रह्मत्वेन सेवने "रसो यः परमाधार"इति तथा सेवकस्य प्रियत्वं युक्तमेव। अतः प्रतिबन्धकनिवृत्तिरर्थादेव सिद्ध्यतीति भावः। एतावदन्तं व्याख्यानं प्रभूणाम्। अग्रे तदाज्ञप्तश्रीगोकुलनाथानाम्। अत्राऽपि स्वसेवनाद्गोपिकावद्भगवत्प्रियत्वसम्पाद- कत्वरूपं षष्ठमैश्वर्यं स्पष्टम्॥ ६॥


१ स्वसेवकस्तदीय इति च. २ प्रतीतिमात्रमिति च.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २७ ममाऽस्तु तव सन्निधौ तनुनवत्वमेतावता न दुर्लभतमा रतिर्मुररिपौ मुकुन्दप्रिये । श्रीगोकुलनाथचरणानाम् विवृतिः । आवश्यकदैहिकधर्मेऽपि त्वत्सम्बन्धे मुक्त्यधिकभक्तिप्राप्तिर्यत्र, तत्र का शङ्का यमयातनाभाव इत्याहुर्ममाऽस्त्विति । तव सन्निधौ तनोर्नवत्वं लीलोपयोगिनूतनदेहसम्पत्तिरस्तु । एतेन पूर्वदेहनिवृत्तिः सूचिता । इद- मपि त्वत्कृतमेव भवति न त्वन्यथेति ज्ञापनार्थं प्रार्थनमस्त्विति । एतावता श्रीहरिरायप्रणीतं टिप्पणम् । आवश्यक्येति । देहस्य देहान्तरारम्भकत्वमावश्यको दैहिको धर्मः “प्रज्ञया शरीरं समारुह्ये”१त्यादिश्रुतेः । किं बहुना । मुक्तावपि भगवच्छास्त्रे सेवोपयोगि वैकुण्ठादिषु देहान्तरम् । अत एवोक्तमाचार्यैः सेवाफलग्रन्थे—“सेवोपयोगिदेहो वैकुण्ठादिष्वि”ति । तस्मिन्नपि त्वत्सम्बन्धे सान्निध्यसम्पादिते दै२शिकेऽपि सम्ब- न्धे यत्र तथाविधभक्तिसिद्धिस्तत्र तत्र जातानां यमयातनाभावे का शङ्केति कैमुतिक- न्यायो निरूप्यत इत्यर्थः । तव सन्निधाविति । एतेन दुष्टसन्निधानकृतत्वच्चिरो- भावाभावस्थल एव तथात्वमित्याशयो ज्ञेय इति बोधितम् । पूर्वदेहनिवृत्तिरिति । घटस्य पाकेन३ मृत्त्वनिवृत्तिवन्निवृत्तिरत्र वाच्या । अन्यथा पूर्वतनोर्नवत्वमिति न व्याख्यातं स्यादिति भावः । श्रीपुरुषोत्तमप्रणीता विवृतिः । तत्र च, एवमनेन स्वरूपसामर्थ्यं निश्चाययित्वा प्रियत्वोपयोगि यदभिप्रेतं तत्रार्थयितुमग्रिमः श्लोक इत्याशयेन तमवतारयन्त्यावश्यकेत्यादि, आवश्यक- दैहिकधर्मपदेन तीरवासात्मकं सेवनं पानं चेत्युभयमपि सङ्गृह्यते । पूर्वत्र सेवनपानयोः फलस्योपपादितत्वेऽपि व्याख्यानाभावादत्राऽनुवादः । तथाच तीरवासात्मकत्वत्सेवन- त्वज्जलपानरूपावश्यकदैहिकधर्मेऽपि त्वत्सम्बन्धे यत्र मुक्त्यधिकभक्तिप्राप्तिस्तत्र का आशङ्का यमयातनाभाव इत्याशयेन पूर्वं प्रार्थनमाहुरित्यर्थः । तद्व्याकुर्वन्ति तवेत्यादि । तवे आधिदैविक्याः सन्निधौ भौतिकीमध्ये सन्निधाने तनोर्नवत्वं सिद्धिरूपलीलोपयो- गिनूतनदेहसम्पत्तिरस्तु । अत्र तनुनवत्वं नैतच्छरीरेऽतिशयाधानमात्रपर्यवसायि, किन्तु, पूर्वशरीरनिवृत्तिपूर्वकाभीष्टदेहान्तरप्राप्तिपर्यन्तमित्याशयं स्फुटीकुर्वन्ति एतेने- त्यादि । एतेन नवत्वस्य नूतनदेहसम्पत्तिपर्यन्तत्वकथनेन पूर्वशरीरनिवृत्तिः सूचिता, १ शरीरमारुह्येति ख. २ दैहिकेऽपीति ग. युक्तन्तु यथानिवेशमिति न प्रस्मार्थ्यम् । ३ परिपाके नामरूप- निवृत्तिवद् इति पाठः अ.

२८ श्रीयमुनाष्टकम् । अतोऽस्तु तव लालना सुरधुनी परं सङ्गमात् तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥ ७ ॥ शरीरपरिवर्त्तमात्रेणैव मुररिपौ रतिर्दुर्लभतमा न भवतीत्यर्थः । किन्तु तनु- नवत्वेन सुलभव । कदाचित्प्रतिबन्धके विद्यमानेऽपि यथा जलदोषरूपमुरस्य निवारकस्तथा त्वत्सम्बन्धात्सर्वदोषनिवारकत्वं मुररिपुपदेनोक्तम् । अतः कारणाद्यावदाधुनिकशरीरनिवृत्तिस्तावत्तव लालना स्तुतिरूपा अस्तु । साऽपि श्रीहरिरायप्रणीतं टिप्पणम् । दुर्लभतमा नेति । त्वत्सम्बन्धस्यैव दुर्लभत्वेन सा भगवति दुर्लभा तु भवत्येवेति तमप्प्रत्ययाशयो बोध्यः । प्रतिबन्धक इति । भक्त्युत्पत्तावित्यर्थः । त्वत्सम्बन्धादिति । यथा नरकासुरनिरुद्धकन्याऽनुग्रहाय तत्सम्बन्धाज्जलदोष- रूपमुरस्य निवारकस्तथा त्वत्सम्बन्धात्तदीयसर्वसेवकदोषनिवारक इति भावः । एतेन त्वत्सम्बन्धिनां भगवद्रतिप्रतिबन्धनिरसनायाऽपि यत्नो न विधेय इत्युक्तम् । मुकुन्दप्रिय इति मूले । पदतात्पर्यं तु-भगवान् मुकुन्दो मोक्षदाता गृह एव चतुर्विधपुरुषार्थं भावेन स्वयमाविर्भूयाऽनुभावयन् तादृशसमाजसत्यसम्पादनेन स्वतन्त्रभक्त्या भगवदीयत्वसम्पादकस्तादृशस्य प्रियात्वेन तद्धर्मवत्त्वात् भगवदीयत्व- सम्पादकत्वमस्या इति स्वतन्त्रभक्तिदायिकात्वेन परमोत्कर्षो निरूपितो भवतीति तथा सम्बोधनमिति । अतः कारणादिति । यतो यथाकथञ्चित्त्वत्सम्बन्धे प्रतिबन्ध- निवृत्तिपूर्वकभक्तिप्राप्तिसौलभ्यमतः कारणादित्यर्थः । यावदाधुनिकेति । नवीने श्रीपुरुषोत्तमप्रणीता विवृत्तिः । अर्थबलादेव बोधितेत्यर्थः । इदमिति । पूर्वोक्तमुभयम् । ननु किमिति द्वयं प्रार्थ्यते एतस्य शरीरस्यैव कुतो नवत्वं न प्रार्थ्यत इत्यत आहुरेतावतेत्यादि । शरीरस्य यः परिवर्त्तः पूर्वधर्मनिवृत्तिपूर्विका धर्मान्तरवत्ता, तन्मात्रेणैव मुररिपौ दोषनिवर्त्तके भगवति रतिर्दुर्लभतमा न भवति, तथापि लीला तु दुर्लभतमा भवत्येव । अतो न प्रार्थ्यत इत्यर्थः । तदेतत्स्फुटीकुर्वन्ति कदाचिदित्यादि उक्तमित्यन्तम् । श्रीहरि- रायास्तु लीलोपयोगिदेहप्राप्तिं परमभक्तिप्राप्तिमात्रसाध्यां मन्वानाः पूर्वदेहनिवृत्तिं मृद्धटपाकदृष्टान्तेनैतद्देहेऽतिशयाधानमात्रपर्यवसितामङ्गीकुर्वन्ति । तदपि पूर्वपक्षावि- श्रान्तमिति न विरोधः । मुकुन्दप्रिय इति तु न व्याख्यातम् । मोक्षदातृत्वस्य १ दुर्लभा न भवत्येवेति ग, २ चतुर्विधपुरुषार्थभावेनेति ख, ३ स्वतन्त्रभक्तदायकत्वेनेति ख च,

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २९ त्वत्कृपयैव नाऽन्यथेति प्रार्थ्यतेऽस्त्विति । गङ्गाया अपि फलसाधकत्वं त्वत्सम्बन्धादेवेत्यत आहुः, सुरधुनी तव सङ्गमात् परं अत्यर्थं भुवि की- र्तिता स्तुतेत्यर्थः, न तु कदापि त्वद्रहिताऽपीत्यर्थः । ननु क्वचित्पुराणादौ केवलाया अपि स्तुतिर्दृश्यत इति स्तुतौ विशेषमाहुः पुष्टिस्थितैरिति । मर्यादा- मार्गीयैः केवलाऽपि स्तूयते त्वत्स्वरूपाज्ञानात् । पुष्टिमार्गीयास्तु त्वत्स्वरूपं जानन्तीति त्वत्सम्बन्धादेव स्तुवन्तीत्याहुः पुष्टिस्थितैरिति ॥ ७ ॥ श्रीहरिरायप्रणीतं टिप्पणम् । अलौकिके तु शरीरान्तरे सम्पन्ने लीलारसानुभव एव त्वत्तीरे भवेदिति भावः । लालना स्तुतिरूपेति । यथा जननी लालनसमये प्रेम्णा बालकं स्तौति । सा स्तुतिरपि लालनैव न तु गुणकीर्त्तनम् । लालनमध्यपातित्वात् । तथैषाऽपि स्तुति- र्लालनैवेति स्तुतिरूपेत्युक्तमित्यर्थः । फलसाधकत्वमिति, पुष्टिमार्गीयफलसाधकत्व- मित्यर्थः । पुष्टिमार्गीयं फलं तु साक्षात्पुरुषोत्तमलीलासम्बन्धोऽलौकिकदेहसिद्ध्या, तत्सम्पादकत्वं तु गङ्गायास्त्वत्सम्बन्धादेव । अन्यथा "स्रोतसामस्मि जाह्नवी"ति वाक्येन तस्या विभूतिरूपत्वेन निरूपणादेतत्फलसाधकत्वमुच्यमानं बाधितं स्यात् । श्रीपुरुषोत्तमप्रणीता विवृतिः । स्वाभाविकत्वेऽपि भवदनुरोधेनाऽलौकिकं देहं दास्यतीत्याशयस्य प्रियापदादेव स्फुटं स्फुरणात् । प्रियत्वं तु तत्रैव "विष्णुदयिते"ति नाम्नोक्तम् । अतःकारणादिति । यतो भवती प्रिया । तथाच तदवधि लालनारूपं तदनुकूलमिदं द्वितीयं प्रार्थितं देय- मिति भावः। ननु तनुभवत्वरूपं फलमन्यथा सिद्धं गङ्गायाऽपि सम्भवादतस्तदर्थं तत्स्तु- तिरेव कार्येत्याशङ्कायां तन्निरासाय श्लोकशेष इत्याशयेन तमवतारयन्ति गङ्गाया इत्यादि । इदमपि "सितासिते"इति मन्त्रोत्तराद्धू एव सिद्धम् । अस्याऽपि मन्त्रस्य- कृत्वेन "गोप्यो गावः ऋचस्तस्ये"ति श्रुत्यन्तरे तासां गोपीत्वेन पुष्टिस्थितत्वात्केव- लगङ्गाया एव माहात्म्यस्य तत्राऽस्फुटत्वाच्च । अत्र पुष्टिस्थितपदेन तदुक्तिराधिदैविक- सङ्ग्रहाय । व्रजस्थकृतस्य केवलगङ्गाकीर्त्तनस्य श्रीभागवते अदर्शनादिति । आहु- रिति । स्वपूर्वोक्तेऽर्थेऽभियुक्तसंमतिमाहुरित्यर्थः । व्याख्यानं तूत्तानार्थम् । इदं चाऽ- र्थादेव सिद्धम् । पुष्टिमार्गीयाणां भजनानन्दाभिलाषुकत्वेन तदुपयोगिन एव स्तुत्य- त्वात् । लोकादपि तथा निश्चयात् । योजना तु—सुरधुनी भुवि कीर्तिता, परं तवैव १ तत्तीरे इति क-ग-घ-ङ-च.

३० श्रीयमुनाष्टकम् । स्तुतिं तव करोति कः कमलजासपत्नि प्रिये यत्र त्वत्सम्बन्धात्सर्ववन्द्यगङ्गास्तुतिस्तत्र त्वत्स्तुतौ को वा समर्थ इत्याहुः स्तुतिं तवेति । अशक्यस्तुतित्वे हेतुमाहुः कमलजासपत्नीति । श्रीहरिरायप्रणीतं टिप्पणम् । अत एव पुष्टिस्थितैरित्युक्तम्, अन्येषामेतन्माहात्म्यानवगतेः । पद्यपदलापनिका तु, पुष्टिस्थितैः निःसाधनानुग्रहमार्गनिष्ठैः सुरधुनी लोकान्तरनदी भुवि तु पुनर्न कदाऽपि कीर्त्तिता तादृक्पुष्टिमार्गीयफलसाधकत्वेनेति । परं किन्तु सर्वदैव तवैव सङ्गमात् सा तथा कीर्त्तिता। अतः सर्वदा तव लालना पूर्वोक्तरूपाऽस्त्विति सम्बन्धो ज्ञेयः ॥७॥ अशक्यस्तुतित्व इति। वाग्गोचरमाहात्म्यसत्त्वाद्यथा रसस्वरूपानन्देऽशक्य- स्तुतित्वम् । “यतो वाच” इति श्रुतेः । तथाऽत्राऽपीति भावः । कमलजासपत्नीति हेतुनिरूपणम् । सपत्नीत्वेन लक्ष्मीविरुद्धस्वभावत्वादित्यर्थः । अयमभिप्रायः । लक्ष्मीर्हि प्रमाणसिद्धब्रह्मानन्दस्वरूपा । अतः प्रमाणभूतैर्वेदादिवाक्यैर्लक्ष्मीमाहात्म्य- निरूपणमुपपद्येताऽपि । त्वं तु पुष्टिलीलास्थत्वेन तदतीताप्रमेयानन्दरूपेति 'यतो वाच' श्रीपुरुषोत्तमप्रणीता विवृतिः । सङ्गमात् । तत्र गमकं, पुष्टिस्थितैस्तु कदापि नेति । केवला न कीर्त्तितेत्यर्थ इति समीची भाति। तथाच सेवोपयोगिदेहसम्पादकत्वं गङ्गाया अस्ति, परं नाऽभीष्टसेवो- पयोगिदेहसम्पादकत्वम् । तेन नाऽन्यथा सिद्धिः । यदि तया सा स्यादभियुक्तैः साऽपि स्तूयेत । तदभावा'द्यया चरणपङ्कजे'त्यर्द्धेनोक्तोऽर्थ उपपन्नतर इति भावः । अत्राऽपि तनुभवत्वरूपं सप्तमैश्वर्यं स्पष्टमेव ॥ ७ ॥ नन्वस्तु गङ्गापेक्षया स्तुत्यत्वम् । सम्बन्धाधिक्यात्, न तु लक्ष्म्यपेक्षयाऽपि । तथा सति तनुभवत्वार्थं सैव स्तोतव्या । यत्पुनस्तया सदृशतामित्यर्द्धेनोक्तमतिप्रियत्वं तत्तु भक्तमानापनोदकेषु गुणातीतभक्तान्तरेष्वपि । कलिनिवारकत्वधर्मस्य साधारणत्वान्न तेनाऽनुमातुं शक्यमिति मानाभावान्नोपपन्नमित्याशङ्कायां, लक्ष्म्यपेक्षया जीवोप- कारकत्वं गङ्गायां सुप्रसिद्धमिति । तत आधिक्ये लक्ष्म्यपेक्षयोपकाराधिक्यं कैमुतिकादेव सिद्ध्यतीति न लक्ष्म्यास्तदर्थं स्तोतव्यत्वमित्याशयेनाऽष्टमश्लोकमव- तारयन्ति यत्रेत्यादि । उक्तार्थसूचनायाऽत्र सर्ववन्द्यपदम् । अतः परं कार्येणाऽतिप्रियत्व- साधकोऽग्रिमग्रन्थ उक्तेऽर्थे हेतुत्वमपि भजत इत्याशयेन तमवतारयन्त्यशक्यैत्यादि । १ सा पूर्वोक्तरूपेति ग-घ. २ रसरूपेति ख. ३ ब्रह्मानन्दरूपेति च.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ३१ हरेर्यदनुसेवया भवति सौख्यमामोक्षतः । सर्वत्र स्तुत्यत्वं भगवत्सम्बन्धात् । स सर्वत्र लक्ष्म्यपेक्षया न्यून एव । त्वं तु तस्या अपि सपत्नी तत्समानसौभाग्यवती । ननु लक्ष्मीस्तुतिस्तु लोके दृश्यते । तर्हि तत्साम्यं चेत्कथं स्तुतिरशक्येत्याहुः प्रिये इति । साम्यमात्रे कर्त्तुं शक्यत एव । अत्र तु ततोऽप्यधिकं प्रियत्वमस्तीति स्तुतिकरणमशक्यम्। ननु कथं ज्ञायते लक्ष्म्यपेक्षयाऽऽधिक्यमस्तीति, तत्र हेतुमाहुर्हरेर्यदनुसेवयेति । श्रीहरिरायप्रणीतं टिप्पणम् । इति श्रुतेरशक्यस्तवेति विरुद्धस्वभावत्वात्सपत्नीति । लक्ष्म्याः स्तुत्यत्वमुपपादय- न्ति सर्वत्रेति । लोके वेदे च स्तुत्यत्वं भगवत्सम्बन्धात् । तदभावे निन्द्यत्वमेव । “ मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिमि”ति वचनात् । सम्बन्धतारतम्येन स्तुत्यत्वतारतम्यम् । तथाच सम्बन्धस्तु लक्ष्म्या निरतिशय एव, उरसि सर्वदा निवासात् । अतः स्तुत्यत्वं तत्रोपपन्नमिति भावः । तत्समानसौभाग्यवतीति । अन्यासां भगवत्पत्नीनां लक्ष्म्यंशत्वेन तदधीनत्वम् । तव तु तत्समानसौभाग्यवत्त्वेन लक्ष्मीवत्स्वातन्त्र्यमिति भावः । ननु लक्ष्मीस्तुतिस्त्विति । स्वातन्त्र्येऽपि साम्य- सत्वे लक्ष्मीस्तुतिरिव कथमेतत्स्तुतिरशक्येत्याक्षेपार्थ इत्यर्थः । प्रिय इति सम्बोध- नम् । स्वातन्त्र्येण साम्येऽपि प्रियत्वेन ततोऽप्याधिक्यसत्वान्न लक्ष्मीदृष्टान्तेन शक्य- स्तुतित्वमस्या उपपद्येतेति भावः । अत एव “ श्रियं चाऽऽत्यन्तिकीं ब्रह्मन् येषां गतिरहं परे”ति दुर्वाससं प्रति प्रभुरेवैतादृशानां ततोऽपि प्रियत्वमाहेत्याधिक्यं प्रमाणसिद्धमेव । फलतोऽप्याधिक्यं वक्तुमाहुर्हरेर्यदनुसेवयेति । हरेः सम्बन्धिनी या यदनुसेवा हरिसाहित्येन तत्रापि अनु पश्चाद्भगवत्सेवां विधाय गौणभावेन यस्याः सेवा तया मोक्षं पुरुषोत्तमसायुज्यं मर्यादीकृत्य सालोक्यादिसुखं भवति । पुरुषोत्तम- सायुज्यस्य भक्तिमार्गेण केवलभगवत्सेवासाध्यत्वात् । अत एवोक्तमाचार्यवर्यैः— “ आदिमूर्त्तिः कृष्ण एव सेव्यः सायुज्यकाम्यये”ति निबन्धे । तत्रापि कृष्णपदेन भक्तिप्राप्यः प्रभुरेवकारेण इतरनिरासश्चोक्तः । मोक्षप्राप्तिर्भवतीति । सालोक्या- दिमोक्षप्राप्तिर्भवतीत्यर्थः । अत एव वैकुण्ठे लक्ष्मीसखीनां सालोक्यादिसुखं, न १ तत्स्वातन्त्र्येऽपीति ख. २ प्रमाणप्रसिद्धमेवेति क. ग. घ. ङ. च. ३ केवलमिति ख.

३२ श्रीयमुनाष्टकम् । इयं तव कथाऽधिका सकलगोपिकासङ्गम- स्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमः ॥ ८ ॥ हरेरनु पश्चाच्चर्याः सेवया मोक्षं मर्यादीकृत्य सुखं भवति । मोक्षप्राप्तिर्भवती- त्यर्थः । न तु ततोऽप्यधिकं भजनानन्दाख्यं सुखं भवति । तदपि भगव- त्सहिततद्भजनेन न तु केवलायाः, केवलाया मोक्षविघातकत्वात् । अनुशब्दा- न्मुख्यतया भगवद्भजनम् । तदनुगुणत्वेन लक्ष्म्याः । कालिन्द्युत्कर्षमाहुरियं तव कथेति । इयमग्रत उच्यमाना तव कथाऽपि सर्वमुक्त्यपेक्षयाऽधिका । अत एवैतत्कथारसिकानां न मोक्षेच्छागन्धोऽपि । तदेवोक्तं पञ्चमस्कन्धे— “अथ ह वा व तव महिमामृतसमुद्रविप्रुषा सकृल्लीढया विस्मारितदृष्टश्रुत- श्रीहरिरायप्रणीतं टिप्पणम् । लक्ष्मीवत्पुरुषोत्तमनित्यसंयोगरूपसायुज्यम्, तस्य लक्ष्मीमात्रभोग्यत्वात् । न हि स्वभोग्यमन्येभ्यः कोऽपि दातुमीष्टे । अत एवोक्तं बालबोधे—“लोकेऽपि यत्प्रभु- भुंङ्क्ते तन्न यच्छति कर्हिचिदि”ति । न तु ततोऽपीति । सायुज्यादप्यधिकमित्यर्थः । हरेरि- त्यस्य पञ्चम्यन्तपदस्य सम्बन्धिवोधकस्य तात्पर्यमाहुस्तदपीति मोक्षसुखमपीत्यर्थः।केव- लाया मोक्षविघातकत्वादिति। केवला भगवतः पुरुषोत्तमाद्भेदेन स्थिता विभूतिरूपा भजनेन धनादिसम्पत्प्रदा तस्या विषयासक्तिहेतुत्वेन वैराग्यंविघातद्वारा मोक्षविघातक- त्वमित्यर्थः । कालिन्द्युत्कर्षमिति, भजनानन्दरूपफलसाधकत्वेन लक्ष्मीत उत्कर्ष- मित्यर्थः । सर्वमुक्त्यपेक्षयेति, लक्ष्मीतत्सेवकफलरूपसायुज्यसालोक्यादिमुक्त्यपे- क्षयेत्यर्थः । अत एवेति, यतो मुक्त्यपेक्षयैतत्कथाया आधिक्यमित्यर्थः । एत- त्कथारसिकानामिति । मोक्षे हि न भेदेन स्थितिरिति सर्वात्मभावलभ्यरसकथा- श्रीपुरुषोत्तमप्रणीता विवृत्तिः । अनुशब्दोक्तस्य पश्चात्त्वस्य सापेक्षत्वादवधिं बोधयितुं हरेर्यदन्वित्येवं प्रतीकं तद्व्या- ख्यानं चेति ज्ञेयम् । तेन न दोषः । शेषं स्फुटम् । एवं लक्ष्म्यपेक्षया गङ्गापेक्षया चा- ऽऽधिक्यं साधयित्वा तत्र हेतुमुत्तरार्द्धेन वदन्तीत्याशयेन तमवतारयन्ति व्याकुर्वन्ति च कालिन्द्यामित्यादि, इयमित्यादि च । सकलेत्यादि, इदमपि यमुनामाहात्म्ये “केलि- १ सर्वत्र मुक्त्यपेक्षयेति ख. २ वैराग्यविघ्नद्वारेति च.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ३३ सुखलेशाभासाः परमभागवता एकान्तिन" इति। सा केत्याकाङ्क्षायामाहुः सकलगोपिकेति । सकलगोपिकासङ्गमेन स्मरसम्बन्धी यः श्रमस्तेन जनिता ये स्वेदजलाणवः सकलगात्रजास्तैः सङ्गमो यस्याः । एते जलाणवो न श्रम- स्वेदरूपाः किन्तु विविधसङ्गरसस्य सर्वावयवपूर्णस्याऽन्युच्छलनेन बहि- रागतस्यैव बिन्दवो न तु केवलजलमात्रस्य । अत एवोक्तं सकलगात्रजै- रिति। एभिर्विशेषणैः परमकाष्ठापन्नपुष्टिपुष्टिमार्गान्तरङ्गभक्तत्वं सर्वदैतद्रस- पूर्णत्वमन्तरङ्गभक्तानुगुणत्वमेतल्लीलामध्यपातित्वादिकं सूचितम् । स्वस्यै- तद्रसपूर्णत्वेन केवलैतद्भजनकर्तुरप्येतद्रसं ददातीति स्पष्टमेव वैल- क्षण्यम् ॥८॥

श्रीहरिरायप्रणीतं टिप्पणम्। रसिकानां तत्र तदभावान्न तदिच्छागन्धोऽपीत्यर्थः । "अथ ह वावे"त्यादिना प्रमाणोपन्यासः । सा केति । कथेत्यर्थः । यस्या इति पञ्चमी षष्ठी च व्याख्येया । पञ्चमीपक्षे—यस्याः सकाशादन्येषामेतत्सम्बन्धिनामपि तत्सङ्गमः । षष्ठीपक्षे— श्रीयमुनायास्तत्सङ्गमः। तदाऽपि कृपया तद्रसदातृत्वमित्यर्थः । एभिर्विशेषणै- रिति । एतत्कथायां सकलगोपिकास्तत्सङ्गमः, सोऽपि रसावेशजनितो येन श्रमः तेनोद्गतं स्वेदजलं तदीया अणवोऽतिसूक्ष्मबिन्दवस्तैः सङ्गमः, एतावन्ति कथा- विशेषणानि तैरित्यर्थः । एतादृशी एतत्कथेत्यस्यामपि परमकाष्ठेत्याद्युक्तसकलधर्म- वत्त्वं सूचितमित्यभिहितमिति भावः । केवलैतद्भजनकर्तुरपीति । अनन्यभजन- कर्तुरित्यर्थः ॥ ८ ॥

श्रीपुरुषोत्तमप्रणीता विवृतिः । सलिले"ति नाम्नि प्रसिद्धम् । केलिः सलिले यस्या इति तदर्थात् । किञ्च । "ब्रह्म- विद्यासुधावहा" इति नाम्न्यपि भगवतस्तरणलीलायां प्रवाहे गण्डूषपाताद्ब्रह्मविद्यारूप- भगवन्मुखसुधां वहतीत्यपि स्फुटति । यद्यपि श्रमजलगण्डूषजलसम्बन्धो लीलासमय एव, तथापि श्रीयमुनायाः सप्तसागरान् भित्त्वा सूर्यमण्डलाद् रङ्गवत्पुनःपुनरत्रागम- नेन इदानीमपि सोऽस्तीति न किञ्चिदनुपपन्नम् । अत्रापि लीलाससायिकप्रभुश्रम- जलकणसम्बन्धसम्पादकत्वरूपमष्टममैश्वर्यं स्पष्टमेव ॥ ८ ॥

१ पराकाष्ठापनेति क-ख. ५

३४ श्रीयमुनाष्टकम् ।

तवाष्टकमिदं मुदा पठति सूरसूते सदा* समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः।

एवं कालिन्दीं स्तुत्वैतत्स्तोत्रपाठफलमाहुस्तवाष्टकमिति । यद्य- प्यन्यकृतान्यपि स्तोत्राणि सन्ति तथापि वक्ष्यमाणं फलमेतत्स्तोत्रपाठेनैव भवति, नाऽन्येथेति ज्ञापनायेदमित्युक्तम् । अन्यकृतस्तोत्रेष्वेवंविधस्वरूप- निरूपणाभावात् । इदं तवाष्टकं यः पठति तस्य पूर्वं समस्तदुरितक्षयो भवति । तदनन्तरं मोक्षदातार्यपि स्नेहो भवति । अत एवोक्तं, "नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायत" इति । मुकुन्दपदाद्यद्यपि मोक्षमेव साधारण्येन सर्वेभ्यो ददाति तथापि त्वत्स्तुतिपाठात्प्रसन्नो भक्तिमेव ददाति न तु मोक्षमपीति भगवत्स्वभावपरावर्त्तकत्वमुक्तम् । ततः किमिति तत्राऽऽहुः। तया सकलसिद्धयः पूर्वोक्ताः सर्वात्मभावादयो भवन्तीति शेषः । ननु प्रति-

श्रीहरिरायप्रणीतं टिप्पणम् । वक्ष्यमाणमिति । अनुपद्मेवाऽत्र पद्ये वक्ष्यमाणमित्यर्थः । समस्तेति ब्रह्मसम्बन्धवदेकहेलया अखिलपापक्षय एतत्स्तोत्रपाठेन बोधितः। तदनन्तरमिति। भक्तिप्रतिबन्धकसमस्तदुरितक्षयानन्तरमित्यर्थः । अन्यथा दुरितानामनन्तत्वेनैकदा तन्निवृत्तौ रत्युत्पत्तेरनवसरपराहतिः स्यात् । अत एवेत्यादिना प्रमाणोपन्यासपुर- स्सरं समस्तपापाभावस्य भगवद्भक्त्युत्पत्तौ हेतुता निरूपिता । यद्यपि "ज्ञानाग्निः सर्वकर्माणी"ति वाक्याज्ज्ञानेनाऽपि सर्वकर्मनिवृत्तिः । परन्तु तत्र ज्ञानसाधने क्लेशभूयस्त्वमत्र तु पाठमात्रेणैतत्स्तोत्रस्य सा भवतीत्यनायासेन तत्साधकत्वं पाठ- स्येति तदुत्कर्षो ज्ञेयः । प्रसन्न इति । यथा लीला सृष्टिस्थेभ्यस्त्वत्साक्षात्कारात् त्वत्सम्बन्धेन प्रसन्नस्तथा आधुनिकेभ्यः परोक्षे त्वत्स्तुतिपाठादेव प्रसन्नो भवती- त्यर्थः । भक्तिमेवेति निश्चयवाचकं "वा" इत्यव्ययपदप्रयोगतात्पर्यं ज्ञेयम् । भगव- त्स्वभावपरावर्त्तकत्वमिति । एतत्स्तोत्रपाठस्येत्यर्थः । अत्राऽयं भावः । भगवत्स्व- भावः स्वामिनीभ्यो देयं फलमन्येभ्यो न प्रयच्छति । अन्यथानु कम्पापात्रमुद्धवं व्रजे न प्रेषयेत् । स्वयमेव तादृग्भावं दद्यात् । एतत्स्तोत्रपाठे तु तत्कर्त्तरि श्रीयमुनासम्बन्धावगमेन स्वामिनीभ्य इव स्वयमेव तादृग्भावं प्रयच्छतीति तथेति भावः । ततः किमिति । ततो भगवद्भावाद्ग्रे किं भवतीत्यर्थः ।

  • अत्र श्रीपुरुषोत्तमचरणानां व्याख्यानं किञ्चिदस्ति तत् श्लोकान्ते निवेशितम् ।

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । ३५

तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति स्वभावविजयो भवेद्वदति वल्लभः श्रीहरेः ॥ ९ ॥ श्रीयमुनाष्टकस्तोत्रं सम्पूर्णम् ।

बन्धके विद्यमाने सति कथमेतत्स्तोत्रमात्रादेतावद्भवतीति चेत्तत्राऽऽहुर्मुररि- पुश्च सन्तुष्यतीति । यथा दोषरूपं तन्निरुद्धकन्यासुखप्राप्तिप्रतिबन्धकं निरा- कृत्य ता अङ्गीकृतवानेवमेतत्पाठनाऽपि प्रतिबन्धं निवार्य तमप्यङ्गीकरोती- त्यपि ज्ञापनाय मुररिपुपदम् । फलान्तरमाहुः स्वभावविजयो भवेदिति । स्वभावस्य विजयः परावृत्तिर्भवति । सवासनेति व्युपसर्गार्थः । दुष्टस्वभा- वोऽप्युत्तमस्वभावो भवतीत्यर्थः । नन्विदमनकेतपःसाध्यं कथमेतत्पाठमात्रा- दिति चेत्तत्राऽऽहुर्वदति वल्लभ इति । तेनाऽऽप्तवाक्यत्वेन प्रामाण्यमुक्तम् । नन्वितः पूर्वं केनाऽप्यनुक्तत्वाद्वद्भवदुक्तिमात्रेण कथं प्रामाण्यमिति चेत्तत्रा- ऽऽहुः श्रीहरेरिति । साक्षाच्छ्रीपुरुषोत्तमसम्बन्धी यतः, अहमतो वदामीत्यर्थः ।

श्रीहरिरायप्रणीतं टिप्पणम् ।

सन्तुष्यतीति । भगवत्प्रियात्वाद्यमुनायास्तत्स्तुतौ भगवत्तोषस्तत्रापि सम्यक्तोषो यथा गोपिकासु । अत एव "प्रियो भवति सेवनात्तव हरेरि"ति पूर्वमुक्तम् । चकारेण स्वामि- न्योऽपि तुष्यन्तीत्यर्थः । लोकेऽपि स्वस्तवनापेक्षया स्वप्रियस्तवनस्याऽतितोषहेतुत्वा- दिति भावः। फलान्तरमिति । प्रथममेकं फलं समस्तदुरितक्षयपूर्वकसकलसिद्धिसहित- भगवद्भावप्राप्तिरूपं निरूपितमित्यर्थः । स्वभावविजय इति । "काममयोऽयं पुरुष" इति श्रुतेः स्वभावस्य कामभावरूपजीवस्वभावस्य परावृत्तिः सर्वात्मभावसिद्ध्या भवतीत्यर्थः । यद्वा । स्वभावस्य सात्त्विकादिस्वभावस्य विजयः स्वाधीनीकरणं लीलामात्रोपयोगितया प्रवर्त्तनरूपं स्वरूपतो गुणातीतत्वसिद्ध्या भवतीत्यर्थः । अथवा । स्वभावस्य भगवद्धर्मप्रवेशजन्यमानादिस्वभावस्य दैन्यभावसिद्ध्या परावृत्ति- र्भवतीत्यर्थः । दुष्टस्वभाव इति । शुद्धपुष्टिमार्गविचारेण पूर्वोक्तरूपस्वभावस्य दुष्ट- त्वमित्यर्थः । आप्तवाक्यत्वेनेति । यथार्थार्थवादित्वेनाऽऽप्तत्वम् । तच्चाऽऽचार्यचरणे- ष्वेव सम्भवति । लीलास्सृष्टिसम्बन्धित्वेन लीलास्थभक्तजनफलजननदर्शनात् । अत एतदाप्तत्वमेतेष्वेवेत्येतद्विषये स्वोक्तमेव प्रमाणमिति बोधनाय स्वनामोक्तिरिति भावः । नन्वित्यादिना आप्तत्वसंशयमादाय पूर्वपक्षो ज्ञेयः । साक्षादित्यादिनिरूप- णस्याऽयमभिप्रायः । हरिपदेन निःसाधनगजराजोद्धृतये तद्देन्येन प्रादुर्भूतः पुरुषो- त्तम उच्यते । स च पुष्टिमार्गीयप्रभुरेव । सर्वसाधनराहित्ये केवलदैन्येन प्रादुर्भूत-

१ पूर्वकमिति क. ग. घ. ङ.

३६ श्रीयमुनाष्टकम् । अत्राऽयमाशयः । साक्षात्स्वरूपसम्बन्धिनां स्वरूपं साक्षात्तत्सम्बन्धिन एव जानन्ति न त्वन्ये । श्रीकालिन्द्याः साक्षात्तत्सम्बन्धित्वं पूर्वं प्रकटमेवोपपा- दितम् । स्वातिरिक्तानां साक्षाच्छ्रीगोकुलेशसम्बन्धाभावात्साक्षात्तत्सम्ब- न्धिन्याः स्वरूपाज्ञानात्तदकथनम् । स्वस्य तु साक्षात्तादृशत्वात्तत्स्वरूपज्ञाना- त्तत्कथनमिति नाऽनुपपत्तिः काचित् । इति श्रीविट्ठलेश्वरविरचिता श्रीयमुनाष्टकविवृतिः सम्पूर्णा । श्रीहरिरायप्रणीतं टिप्पणम् । त्वात् । अत एवाऽग्रे साक्षादित्युक्तम् । पुष्टिमार्गीयातिरिक्तेषु साक्षात्सम्बन्धाभावेन साक्षात्स्वरूपप्रादुर्भावाभावात् । तत्र तु पुरुषोत्तमस्य विशुद्धसत्त्वव्यूहादिव्यवधानमेव । अत एव श्रीपदम् । सौन्दर्यादिरसानुभावकधर्मप्राकट्यस्य पुष्टिमार्ग एव सम्भवात् । तादृशस्य वल्लभत्वेन सम्बन्धीति मदुक्तौ नाऽस्त्वसंशयः पुष्टिपथानुगृहीतैरस्म- दीयैर्विधेय इति दिक् । इति श्रीमन्निजाचार्यकृपया परया युतः । हरिदासश्चकारेदं टिप्पणं विवृतौ प्रभोः ॥ १ ॥ प्रसीदन्तु निजाचार्याः स्वदासे निजवंशगे । प्रयच्छन्तु स्वतो भावं यमुनासहिते हरौ ॥ २ ॥ इति श्रीमद्वल्लभाचार्यचरणतामरसपरागभिलाषिहरिदासप्रणीतं श्रीयमुनाष्टकविवृतिटिप्पणं सम्पूर्णम् । श्रीपुरुषोत्तमप्रणीता विवृत्तिः । नवमश्लोकतद्विवरणं चोक्तानार्थम् । तत्राऽपि मुदा सदेति पदाभ्यां स्वस्या- स्तवोक्त्या चाऽऽनन्दस्य प्रत्यहमविच्छेदस्य स्वस्मिन्विश्वासस्य च पाठाङ्गत्वं श्रीम- दाचार्यैर्दर्शितमिति बोध्यम् ॥ ९ ॥ श्रीयमुनाष्टकविवृतिः प्रभुचरणकृपाबलेन विवृतेयम् । यदि ह्रस्वमतिजदोषादसदुक्तं तत् क्षमन्तां मे ॥ १ ॥ इति श्रीमत्प्रभुचरणकृपाभिलाषुकतत्तद्दासपुरुषोत्तमविरचिता श्रीयमुनाष्टकविवृतेर्विवृत्तिः समाप्ता ।

श्रीकृष्णाय नमः । श्रीत्रिभङ्गीरायो जयति । श्रीगोपीजनवल्लभाय नमः । श्रीमद्भगवद्वदनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतं श्रीयमुनाष्टकम् । श्रीमत्प्रभुचरणविनिर्मितया टीकया गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन च समलङ्कृतम् । मूलम्—नमामि यमुनामहं सकलसिद्धिहेतुं मुदा गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् । नत्वा श्रीवल्लभाचार्यान्करुणारसपूरितान् । श्रीविठ्ठलेशांश्च विभून्निजेभ्यो बुद्धिदायकान् ॥ १ ॥ श्रीमदाचार्यचरणाः स्वीयानां भक्तिसिद्धये । अकार्षुः षोडशग्रन्थान्स्वसिद्धान्तार्थबोधकान् ॥ २ ॥ तद्व्याख्यानं कृतं पूर्वैः प्रभुभिश्च पृथक्कचित् । यमुनाष्टकमारभ्य सेवाफलमुदाहृताः ॥ ३ ॥ स्वगुरूनन्मथुरानाथान् गङ्गां च स्वीयमातरम् । हेतुः षोडशग्रन्थानां टीकानां च मयोच्यते ॥ ४ ॥ तत्र गोस्वामिप्रभूणां कृतीनां गणना— यमुनाष्टकसिद्धान्तमुक्तावल्योस्तथा पुनः । नवरत्ने प्रकाशश्च त्रयं स्वैः प्रभुभिः कृतम् ॥ १ ॥ तट्टिप्पणं तु बहुभिर्वंशीयैर्बालकैः कृतम् । तत्कृपाबलमाश्रित्य तद्ग्रन्थान्विवृणोम्यहम् ॥ २ ॥ ५॥