श्री भक्तमाल (नाभादास जी कृत - प्रियादास जी टीका सहित)
Shri Bhaktamal of Nabhadas with Priyadas Commentary
गोस्वामी नाभादास जी / प्रियादास जी द्वारा
पृष्ठ 16, कुल 195 में से
संदर्भ में पढ़ें(७ (श्री भक्तमाल भक्त चतुष्टय लक्षण भक्त भक्ति भगवन्त गुरु चतुर नाम वपु एक। इनके पद वन्दन किये नाशहिं विघ्न अनेक॥ -भक्त- तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम्। अजातशत्रवः शान्ताः साधवः साधुभूषणाः॥ १॥ मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्। मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः॥ २॥ मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च। तपन्ति विविधास्तापा नैतान्मद्गतचेतसः ॥ ३॥ -भक्ति- अन्याभिलाषिता शून्यं ज्ञान कर्माद्यनावृतम्। आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा॥ ४॥ द्रुतस्य भगवद् धर्माद्धारा वाहिकतां गता। सर्वेशे मनसो वृत्तिर्भक्तिरित्यभि धीयते॥ ५॥ अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी। जरयत्याशु या कोशं निगीर्णमनलो यथा॥ ६॥ -भगवन्त- ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। ज्ञान वैराग्ययोश्चैव षण्णां भग इतीरणा॥ ७॥ उत्पत्तिं प्रलयञ्चैव भूतानामागतिं गतिम्। वेत्तिविद्यामविद्यांच स वाच्यो भगवानिति॥ ८॥ पोषणं भरणाधारं शरणं सर्वव्यापकम्। कारुण्यं षड्भिः पूर्णो रामस्तु भगवान् स्वयम्॥ ६॥ -गुरु- आचार्य मां विजानीयात् नावमन्येत् कर्हिचित्। न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरूः॥१०॥ गु शब्दस्त्वन्धकारोऽस्ति रु शब्दस्तन्निरोधकः। अन्धकार निरोधित्वात् गुरुरित्यभिधीयते॥११॥ तस्माद् गुरुं प्रपद्येत जिज्ञासु श्रेय उत्तमम्। शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम्॥१२॥