भारतकोश
शुक्र नीति (महर्षि शुक्राचार्य - हिन्दी टीका सहित)

शुक्र नीति (महर्षि शुक्राचार्य - हिन्दी टीका सहित)

Shukra Niti of Shukracharya Hindi

महर्षि शुक्राचार्य द्वारा

स्रोत: Shukra Niti with Vidyodini Sanskrit-Hindi Commentary (उद्गम)

DevanagariHindipublished526 पृष्ठ

पृष्ठ 12, कुल 526 में से

संदर्भ में पढ़ें
पृष्ठ 12

( १० )

२—१३६५-६६ ¹ईसवी के युद्ध में राजा भामिनी ने १३०० तोपें राजा विजयनगरम् महाराज से प्राप्त कीं । इति । *

पूर्वकालादारभ्य विवादरत्नाकरादौ चण्डेश्वरादिभिः शिष्टैः प्रमाणत्वेन परिगृहीते बृहत्तरशुक्रनीतिसंग्रहेऽस्मिन् शिष्टपरिगृहीते ग्रन्थे मध्ये-मध्ये तत्तत्समये कैश्चित् महाशयैरुपयुक्तदृष्ट्या ते ते विषयाः सन्निवेशिता इति कल्पनापि दृढतरप्रमाणाभावात्तर्कविचारचातुरीदक्षाणां मीमांसकानां नाभिमता ।

अतोऽप्रत्याक्षेपाणां निर्मूलत्वात् अस्य ग्रन्थस्य अप्रामाण्यादिकल्पनायां प्रमाणं न पश्यामः । सोऽयं ग्रन्थः ब्रह्मनिर्मितमहत्तरनीतिग्रन्थस्य संक्षेपरूपः दुर्लभतां गत आसीत् । तस्य प्रकाशनं महता परिश्रमेण कृत्वा वाराणसीस्थ 'चौखम्बा संस्कृत सीरीज'—सञ्चालकमहोदयैर्लोकानां पुरतः सोऽयं ग्रन्थः सुलभतां नीतः । अतस्तेषां सर्वविधं मङ्गलं भवत्विति परमेश्वरं प्रार्थये । इति शम् ।

वाराणसी<br>श्रीगणेशचतुर्थी<br>वि० सं० २०२४श्रीराजेश्वरशास्त्री द्राविडः<br>( तेषामाज्ञया—रा० शा० होसमने )

  1. "......in this battle which was fought in 1365-1366 A. D., the Bahmani king secured as war-booty 1300 cannons from the "Vijayanagar Maharaj." ( THE DELHI SULTANATE by R. C. Majumdar, Page 460. History and Culture of the Indian People Bhartiya Vidya Bhavan, Bombay ).