सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 135, कुल 723 में से
संदर्भ में पढ़ेंअथवा यह भूमि अर्थात् भूगोल अष्टमूर्ति शिव की मूर्ति की तरह, अर्थात् पृथिवी, जल, अग्नि, वायु, आकाश, सूर्य, चन्द्र और यजमानात्मक भगवान् सर्वशक्तिमान् शिव की मूर्ति की तरह एक शिव मूर्ति है जो सर्वशक्ति केन्द्र है उसे किसी आधार की आवश्यकता नहीं है वही स्वयं ब्रह्माण्ड का आधार है यह भाव स्पष्ट हुआ है ॥४॥ इदानीं कथमियं भूमेः स्वशक्तिरित्याशङ्कां परिहरन्नाह— यथोष्णतार्कनलयोश्च शीतता विधौ द्रुतिः के कठिनत्वमश्मनि । मरुच्चलो भूरचला स्वभावतो यतो विचित्रा बत वस्तुशक्तयः ॥५॥ आकृष्यते तत्पततीव भाति समे समन्तात्क्व पतत्वियं खे ॥६॥ वा० भा०—पूर्वश्लोकः सुगमः । आकृष्टिशक्तिश्च महीत्यनेन भूमेरधःपतनं तत्तिर्यग्धःस्थितानां चाधःपतनशङ्का निरस्ता ॥५॥६॥ मरीचिः—ननु महेशाष्टमूर्त्यन्तर्गतत्वेन भूमेरन्तरिक्षावस्थानशक्तिकल्पने जलादी- नामप्यन्तरिक्षावस्थानशक्तिः कल्प्यतामित्यतो वंशस्थेनाऽऽह—यथेति । यथा सूर्याग्न्योरुष्णता, उष्णस्पर्शाधिकरणत्वम् । चो वार्थे । यथा वा दृष्टान्तान्तरम् । चन्द्रे शीतस्पर्शाधिकरणत्वम् । के जले द्रवत्वाधिकरणत्वम् । अश्मनि पाषाणे कठिनत्वम् । वायुश्चञ्चलः । तथा स्वभावतः स्वरूपेणैव भूर्भूमिरचला स्थिरा । ननु स्वरूपेणैवैषां तथात्वं कुत इत्यत आह—यत इति । यतः कारणाद्वस्तुशक्तयः पदार्थानां स्वकार्यजनन- सामर्थ्यस्वरूपाः शक्तयः । बत इति खेदे । विचित्रा नानाविधाः सन्ति । एतेन वाय्वा- दावचलत्वमग्नौ शीतस्पर्शाधिकरणत्वमित्यादि स्वरूपेण तत्राऽऽस्तामिति निरस्तम् । कल्पनाया दृष्टान्तानुरुद्धत्वात् । तथा च वाय्वादीनां प्रत्यक्षचलत्वादिशक्त्या भूमेरचलत्व- शक्तिरनुमीयत इति भावः । एतद्वस्तु भवदङ्गीकृताधःप्रदेशाभ्युपगमे शक्तिः स्वभावो वा कल्प्यते । वस्तुतोऽस्मन्मते भूमेरधःप्रदेशाभावात्पतनासंभव इत्यग्रे समर्थनादिति ध्येयम् । अत्र पौराणिकानुयायिनो ज्योतिर्विदस्तु भुवः स्थैर्यं यदुक्तं तत्किमतिरिक्ता शक्तिः स्वभावो वा । तत्राऽऽद्येऽपि सा सहजा किमागन्तुका वा । नाऽऽद्यः । कार्यद्रव्यात्मके वस्तुनि सहज- शक्तेः कारणगतरूपादिजन्यकार्यगतरूपादिवत्स्वसमवायिकारणीभूतावयवनिष्ठशक्तिपूर्वकत्व- नियमात् । यथा वह्नौ स्फोटकारणतावच्छेदिका दाहकता तत्कारणावयवनिष्ठशक्तिजनितैव- मियमपि चेत्तथा तर्हि पृथुतरमृत्पिण्डादावपि तत्प्रसङ्गस्य दुर्वारत्वात् । शक्तिवादिमते च तथाविधशक्तेस्तथात्वनियमस्वीकारात् । नान्त्यः । तस्याश्चाऽऽगन्तुकत्वे व्रीहीन् प्रोक्षति व्रीहीनवहन्तीत्यादौ व्रीहिषु प्रोक्षणावघातजन्यशक्तिवदन्यप्रयुक्ताभ्युपगमेऽस्मन्मतानुप्रविष्ट- त्वापत्तेः । स्वभाववादाभ्युपगमे द्वितीयपक्षे तु स्वस्य भावः स्वभाव इति व्युत्पत्तिबलेन स्थैर्यमस्येति । न तावत्तथा स्वरूपमेव भूमेस्तस्यास्तदेकदेशरोत्त्वे भूकम्पादावपि तच्चलनं न स्यात् । कदाऽपि स्वरूपस्यानपायात् । ननु न केवलमस्माभिश्चलनाभावरूपकार्यं प्रति ३