भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 136, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 136

३४ गोलाध्याये भूमिस্বরূপमात्रं हेतुरित्युच्यतेऽपि तु सहकारिसमवहितमेवेति प्रतिबन्धकाभावविशिष्टं तत्तथेति । प्रकृते च तदन्यथाभावदर्शनात्तत्र तदा किञ्चित्प्रतिबन्धकं कल्पनीयमिति चेन्न । किं तद्योग्यमयोग्यं वा । नाऽऽद्यः । उपलम्भाभावात् । त्वयाऽपि विविच्याकथनाच्च । नान्त्यः । तस्यासिद्धतया प्रतिबन्धकत्वानुपपत्तेः । कारणीभूतभावप्रतियोगित्वेन प्रतिबन्ध- कानुसंधानात् । अथाऽऽस्तामनुमितियोग्येश्वरेच्छैव भूकम्पसंपादकत्वेन स्थैर्यप्रतिबन्धिकेति चेन्न । तस्याः सनातनत्वेन नित्यतया स्थिरताप्रतिबन्धे सार्वकालमपि भूचलनमेव स्यात् । तस्या नित्यत्वेनाभावप्रतियोगित्वासंभवेन प्रतिबन्धकत्वासंभवाच्च । अथ मा भूदीश्वरेच्छा तथा, तथाऽपि तत्कालविद्यमानप्राण्यसमीचीनादृष्टं तु प्रतिबन्धकं स्यादेवेति चेत्तर्हि सिद्धमेव भूमेरधोऽधो गमनम् । तेन गणितोच्छेदापत्तेः । तथा हि । एकद्वित्रिदिनावधिक- भूकम्पकालपर्यन्तमदृष्टेन स्थैर्यप्रतिबन्धप्रतिबन्धकाभावरूपसहकार्यसत्त्वेनान्तरिक्षावस्थानरू- पकार्यानुत्पादे भुवोऽतिगुरुत्वेनाधोगमनस्यैवावसीयमानत्वात् । तावत्कालपर्यन्तं च प्रत्येकं बहुशो जायमानभूकम्पेषु भुवो गुरुत्वेनातिवेगाद्दिव योजनसहस्राणि यावदधोगमनाद्भूसा- पेक्षग्रहगणितसाधनास्याप्युच्छिन्न [त्व] संकथनत्वादिति । किञ्चादृष्टस्यासाधारणकारणताया दृढदण्डनुन्नमपि चक्रं न भ्राम्येतेत्यादिप्रतिकूलतर्कादिभिर्मणिप्रभायां निराकरणात् । सति दृष्टकारणसंभवे चादृष्टकल्पनाया अन्याय्यत्वात् । अपि च वस्त्वन्तरेऽपि ध्रुवादौ स्थिर- त्वोपलम्भो न स्यात् । स्वभावत्वेनैकविशिष्टत्वात् । तथाविधस्वभावस्य द्वैविध्यमिति चेन्न । किमयमसाधारणः साधारणो वा । नाऽऽद्यः । तस्यासाधारणत्वेन तत्तद्वस्तुमात्रगत- त्वेनाग्नबीजादेरिव स्वस्वाङ्कुरजनकत्ववदन्यवृत्तित्वासंभवेन प्रकृतस्थिरताया ध्रुवाद्यावृत्त- ताप्रसङ्गः । नान्त्यः । कार्यद्रव्यसाधारणत्वभावस्य दाहकतादेः साक्षात्समधर्मवस्त्वन्तर- वृत्तिसंभवेऽपि स्वावयववृत्तितानियमेन मृत्पिण्डादेरपि तथात्वापत्तेः । यद्धर्मावच्छिन्ने स्वाभावत्वनिर्वाहस्तत्समधर्मवस्तुवृत्तित्वनियमात् । यथा वह्नित्वानवच्छिन्ने दाहकतेति सा वह्निव्यक्तिमात्रवर्तिनी । नतु घटादावपि । तद्वदत्रापीति विजातीयतया ध्रुवे सा न स्यादिति स्थैर्यस्य भूमिस्वभावत्वमसङ्गतम् । वस्तुतस्तु चलनाभाव एवास्थिरत्वम् । तदभाववत्येव स्थिर इति प्रत्ययात् । सति चैवमभावात्मनः स्थैर्यस्य सर्वथाभावरूपत्वसंभावनात् । नन्व- भावाभावस्य भावात्मकत्वं दृष्टमेवेति चेन्न । तदास्ताम् । प्रकृते तु चलनस्य कर्मात्मकत्वेन भावरूपत्वात्तदभावस्य तु तत्त्वासंभवात् । स च क्वचिदाधारेण । क्वचिदुत्कृष्टवस्त्वन्तर- सामर्थ्यात् । क्वचिच्च चेतने स्वप्रयत्नात् । तस्माच्छेषाद्याधारेणैव प्रकृते चलनाभाव एव स्थिरत्वमापद्यते । चलनप्रतिबन्धेनाजातक्रिये वस्तुनि तेनाऽऽधारादिना क्वचित्प्रागभाव- परिपालनमेव । जातक्रिये वस्तुनि तद्ध्वंस एवेति तत्त्वम् । ननु शेषादावपि शरीरत्वेन मूर्तत्वात्तद्द्वयं वयमपि विकल्पयाम इति चेन्न । तेषामीश्वरावतारतयाऽतिसमर्थत्वेन तत्रान्तरिक्षावस्थानजननसामर्थ्यप्रयत्नवत्त्वं चलनाभावरूपस्थिरत्वापादकमेकमनेकप्रकार- परिक्लृप्तमुपेयते । वियद्द्रिगाहमानविहगादावप्य [वि] वाम्यस्तसमस्तयोगविद्याविशारद- नटपुरुषादाविव कतिपयभारस्वशरीरान्तरिक्षावस्थानक्षमत्ववत्तादृशप्रयत्नाधिकरणत्वस्यैत-