सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 137, कुल 723 में से
संदर्भ में पढ़ेंच्छरीराधेयभूम्यादिस्थिरत्वोपधाने नियामकत्वात् । अन्यथादाहृतस्थले सकललोकप्रतीत्यु- च्छेदापत्तेः । अत एवास्मन्मते भूभारभिन्ननागेन्द्रशीर्षविश्रामसंभवः । भूकम्प इत्यादिकश्य- पादिवचनैर्भूभारखिन्ननागेन्द्रफणाप्रकम्पनादेव भूकम्पोपपत्तिः । आधारचलनेनाऽऽधेयगतेर्ब- हुशः प्रसिद्धत्वात् । न चैवं शेषाद्याधाराणामतिस्थूलशरीरत्वेन भचक्रभ्रमणप्रतिबन्धत्व- संभवेन तद्भ्रमणाऽनुपपत्तिरिति वाच्यम् । तेषां सप्तमपूरपातालावस्थितत्वेनाभ्यन्तर्गतत्वान्मे- र्वपेक्षयाऽधोभागस्थितत्वेन ग्रहाणां च तं प्रदक्षिणीकृत्य गच्छतां तत्प्रतियोगितिर्यगवस्था [ना] देव ग्रहचारप्रतिबन्धाशक्तत्वात् । अथैवमन्तर्गतत्वेन भूमेरपृथक्त्वेऽपि पुराणप्रामाण्य- स्यान्यथासिद्धत्वावगमे च तत्स्वीकरणं कुलधर्ममात्रप्रयुक्तमिवाऽऽभातीति चेन्न । भूमेर- चेतनतया ब्रह्माण्डमध्याकाशावस्थानासंभवेन परमेश्वरः कूर्माद्यवताररूपेण भूगोलमाविष्टभ्य ब्रह्माण्डमध्याकाशे स्थित इत्याधारस्यावश्यतयाऽङ्गीकारात् । ननु तर्ह्यभिधानादिषु भूमौ स्थिरा चलेति कथं शब्दप्रयोग इति चेत्तस्य स्वाधारकूर्मगतस्य भूमावुपचरितत्वादभ्र (प) तनशीलत्वस्य चोभयत्र समस्योपचारे बीजत्वात् । तथा च तद्वाक्यम्—मूर्ते कुधर्तरि भवेदनवस्थिकाऽतः स्वाभाविकः खलु गुणः स्थिरता स्थिरायाम् । औष्ण्यं यथानलगुणो द्रवतोदकस्येत्युक्तं हि भास्करकृतौ तदतोऽनुयुक्तम् । गोत्राभ्या (भा) रधराः पुराणपठितः शेषादयः सन्तु ते को दोषः खचरोऽपुञ्जरगतो वेदोदितास्ते यतः । भूमौ चेदचलत्वलक्षण- गुणः किं नो तदंशे पुनस्तोयांशे द्रवता यथाऽनललवे दाहत्वमित्यादिवत् । धृतवक्त्रसरी- सृपोऽपि गृध्रः प्रहरं तिष्ठति खेऽय (ल्प) वीर्य एवम् । गगने न कथं स कूर्मरूपः प्रतिकल्पं धृतभूरचिन्त्यशक्तिः । स्वभावाभ्यामभ्युपगतं स्थिरत्वं खण्डयति—तन्न । समनन्तरमेवाऽऽ- चार्यैराकृष्टिशक्तिश्च मही वयेत्यादिना तन्निवारणस्योक्तत्वात् । अन्यथा —आकृष्ट- शक्तिरित्यादिपद्यस्य पूर्वश्लोकेन सह संगत्यनुपपत्त्या भ्रान्तप्रलपितत्वापत्तेः । न चाऽऽकृष्ट- शक्तिरित्यादिपद्यं शिरोमणौ नास्त्येवेति वाच्यम् । भवद्भिरेव स्वग्रन्थ आकृष्टिशक्तिश्च महीति न स्यादित्यनेन तत्पद्यार्थस्य निराकरणोक्त्या तत्सद्भावसमर्थनात् । तस्माद्दिनां दूषणोट्टङ्कनं ग्रन्थे तदुत्तरसत्त्वे तद्दूषणोपस्थित्या ग्रन्थदूषणजल्पनं स्वाज्ञानसूचकमति- मदनादरयोग्यं सिद्धान्तकतॄणां भवादृशामनुचितमेवेति किं बहूक्त्या ॥५॥ ननु दृष्टान्तस्वभावस्य तदवयवेऽपि सत्त्वाद्दृष्टान्ते भूमावचलस्वभावस्य तस्यावयवेऽ- सत्त्वाद्दृष्टान्तबलेन कथं भूमेरचलस्वभावो वक्तुमुचितोऽन्यथा निराधारोपस्थापितस्य लोष्टादेः पार्थिवावयवस्याचलत्वेनान्तरिक्षावस्थानतयाऽपतनापत्तेरिति पाखण्डकाभिमता- शङ्काया उत्तरमुपजातिकायाऽऽह—आकृष्टिशक्तिरिति । मही पृथ्वी । आकृष्टिशक्तिः । आकृष्टिराकर्षणं तत्संपादिका शक्तिर्विद्यते यस्याः सा । चः समुच्चये । तेन भूमेरचलाकर्षणत्वेत्युभयश्शक्त्योरधिकरणत्वमित्यर्थः । नन्वेतावता प्रकृते किं सिद्धमित्यत आह—तयेति । तया भूम्या । स्वशक्त्या । आकर्षणशक्त्या । खस्थमाका- शस्थं यदाधारशून्यं गुरु । गुरुत्वाधिकरणीभूतम् । जलपृथिव्यवयवसाधारणं वस्तु । स्वाभि- मुखं तद्वस्त्वभिमुखो यः पृथिवीप्रदेशस्तदभिमुखाकाशमार्गेणाऽऽकृष्यते । प्रतिबन्धाभावे