भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 141, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 141

मरीचिः—अथ बौद्धमतं विप्रतिपन्नं निराकतं प्रथमं तन्मतमुपजातिकयोपपादयति- भेति । नक्षत्राधिष्ठितगोलस्य ग्रहाणां च भूमेरभितो भ्रमणदर्शनाद्भूमिराधाररहितेति, एव- मस्माकं प्रतीतिरनुभवो जातः । अन्यथोदयस्तसिद्धभ्रमणमाधारसत्त्वेऽनुपपन्नं स्यात् । गुरु गुरुत्वाधिकरणीभूतं वस्तु । आकाशस्थमचेतनं किमपि न दृष्टम् । चकारादिदमप्यनुभव- सिद्धम् । अतोऽनुभवद्वयात् । खे ब्रह्माण्डमध्यावकाशे स्थापिताऽपि क्ष्मा भूमिराकाश एवाधो गच्छति प्रतिक्षणं भूस्थजनो न जानाति । यथा नौस्थो गच्छति तावन्न जानातीति । एवं बौद्धा वेदानङ्गीकारकाः पापा वदन्ति । अङ्गी कुर्वन्ति ननु भुव आधारकल्पने भपञ्जर भ्रमणानुपपत्तिं । तद्भ्रमणस्य मेरुपर्वतप्रदक्षिणत्वेन पुराणादिषु भूमेरूर्ध्वं प्रसिद्धत्वात् । न हि भपञ्जरभ्रमणं भूम्यधोऽङ्गीकृतम् । येन निराधारा भूः कल्प्येत्यतो भूसमन्ताद्भ्रमणं तन्मतेनोपपादयंस्तन्निराकरणमुपजातिकया संगतार्थं प्रतिजानीते—द्वाविति ॥७॥ द्वौ द्वौ रवीन्दू । द्वौ सूर्यौ द्वौ चन्द्रौ । भगणौ । अश्विन्‍यादिनक्षत्राणि भौमादयश्च तद्वत् । प्रत्येकं द्वेधा । चः समुच्चये । तौ द्विधात्मकौ । एकान्तरौ । एकमहोरात्रमन्तरं ययोस्तौ । उदयं दर्शनयोग्यतां व्रजेतां प्राप्नुतः । यस्मिन्दिने यः सूर्यादिक उदितस्तद्- द्वितीयदिनेऽन्यः सूर्यादिक उदेति । तृतीयदिने प्रथमश्चतुर्थदिने द्वितीयः । एवं पुनः पुनरित्यर्थः । एवमुक्तप्रकारेण । अनम्बराद्याः । न विद्यते अम्बरमावरणं येषां ते दिगम्बरा । बौद्धेषु दिगम्बरभेदस्य मुख्यत्वात्तदाद्या बौद्धाः । स्वग्रन्थे यत्-दो चंदा दो सुज्जा इत्यादि- वाक्येन गोलस्वरूपमब्रुवन्—अङ्गी कुर्युः । अयं भावः—मेरुपर्वताभितस्तत्तटे भपञ्जरस्य भ्रमणं प्रत्यक्षविरुद्धम् । दक्षिणदिगवस्थितनक्षत्रादस्तसंबन्धस्यासत्त्वात् । अतो भपञ्जर- भ्रमणं भूसमन्तादेवेत्याधारराहित्यं भूमेरधोगमनं च सम्यगुक्तम् । परंतु वस्तुन ऊर्ध्वाधः- पृष्ठाग्रपार्श्वद्वयभागानां प्रत्यक्षदर्शनाद्भूमेस्ते भागाः प्रत्यक्षसमत्वोपलब्ध्या समचतुरस्राः समकर्णा अभितः सन्तीति कल्पिताः । तत्रोध्वांधःपृष्ठाग्रचतुर्भागोपरि समन्ताद्भूचक्र- भ्रमणम् । स्वभागोपरि सूर्यभ्रमणे तद्दर्शनाद्दिनमन्यभागत्रयसंबन्धेन तद्भ्रमणे तददर्शना- द्रात्रिरिति त्रिगुणितदिनमानस्य रात्रित्वमनुभवविरोधीति तत्संरक्षणार्थं भचक्रं महच्चतुः- पञ्चाशन्नक्षत्रात्मकत्वेन चतुर्विंशतिराश्यात्मकं कल्पितम् । तत्रार्धपरिधौ क्रमेण सप्त- विंशतिर्नक्षत्राणि द्वादश राशय इति संपूर्णपरिधौ दस्रादिनक्षत्राणां वारद्वयं समावेशः । तत्राप्येकसंज्ञयोर्नक्षत्रयोर्भचक्रार्धान्तरमिति भचक्रार्धे ग्रहसंचारवदपरभचक्रार्धे ग्रहसंचारार्थं सूर्यादयोऽपि द्विधा भचक्रार्धान्तरत्वेनैकनक्षत्रस्थाः सन्तीति कल्पितास्ततः सूर्यास्तानन्तरं दिनमानासन्नरात्रिमाने गत एवापरसूर्योदयो भवतीति पूर्वसूर्यदर्शनेऽप्यपरसूर्यदर्शनेन दिनत्वव्यवहारोऽत्रानुभवविरोध इति तन्मतविचारक्षोदसिद्ध इति । यत्तु भूमेरुपर्य्येव मेरुसमन्तातटे भपञ्जरभ्रमणमङ्गीकृत्य मेरोश्चतुरस्राकारत्वं तन्मतेऽङ्गीकृत्य चोक्तदिन- रात्र्यनुभवानुपपत्तिशङ्कावारणाय सूर्यादीनां द्वैगुण्यं युक्ततरमिति तेषामाशयः । अधः पतन्त्याः स्थितिरस्ति नोर्व्या नभस्यनन्तेऽत्र वदन्ति जैनाः । द्वौ द्वौ रवीन्दू द्विगुणां भसंस्थां चतुर्भुजस्तम्भनिभं च मेरुमिति श्रीपत्युक्त्या वर्णयन्ति । तन्न । पूर्वबौद्धमतप्रतिपादने