भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 155, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 155

भुवनकोशः ५३ अथ तदेव दृढीकुर्वन्नाह— निरक्षदेशात्क्षितिषोडशांशे भवेदवन्ती गणितेन यस्मात् । तदन्तरं षोडशसंगुणं स्याद्भूमानमस्माद्बहु किं तदुक्तम् ॥१५॥ भृङ्गोन्नतिग्रहयुतिग्रहोदयास्तच्छायादिकं परिधिना घटतेऽमुना हि । नान्येन तेन जगुरुक्तमहीप्रमाणप्रामाण्यमन्वययुजा व्यतिरेककेण॥१६॥ वा० भा०—स्पष्टम् ॥१५॥१६॥ मरीचिः—ननु मेरुमध्यात्स्वादूदक्तत्समुद्रावधि भूविस्तृतियोजनान्यमृताहतपञ्चाग्नितत्त्व- मितानि २५३५००० । ततो मेरुमानसोत्तरयुता भूमिविस्तृतियोजनमिताऽपरपर्वतोत्तरहत- पञ्चादितिथितुल्या । १५७५००० । अग्रेऽपि समन्ताद्भूविस्तृतिः । ततोऽग्रेऽपि समन्ता- त्काञ्चनी भूर्लक्षाहततर्काग्निनागविस्तृता ८३६०००० लोकालोकपर्वतावधि । एवं मेरो- र्लोकालोकावधि भूविस्तृतियोजनानि सार्धद्वादश कोटयः १२५०००००। मेरोर्मध्यमस्थ- त्वेनेतरभागेऽपि सार्धद्वादश कोटय इति लोकालोकपर्वतावधि मण्डलाकारभूमेर्विस्तारः पञ्च- विंशतिकोटयः २५००००००० । व्यासोभयतो वृत्तार्धत्वाद्विगुणो व्यासो लोकालोकपर्वता- वधि सकलभूमण्डलपरिधिमानं पञ्चाशतकोटयः । पञ्चाशतकोटिविस्तीर्णेत्युक्तेश्च । केचि- द्व्यासपुल्यपरिध्यर्धस्यासत्त्वेन पूर्वोक्तमयुक्तम् । यत्त्वालोकालोकपर्वतात्समन्तात्सार्धद्वादश- कोटिविस्तृतोच्छ्रायो भूमावेवेति लोकालोकपर्वतान्तावधिसकलभूमण्डलपरिधिव्यासः पञ्चा- शतकोट्योऽत एव विस्तीर्णेत्युक्तं पुराणे । केचन, कोटिद्वयं त्रिपञ्चाशल्लक्षाणि(क्षाणि) च ततः परम् । ततस्तु बीज(स्तुका) काञ्चनीः भूमिर्दशकोट्यो वरानने । इति जम्बूद्वीपा- नन्तरमुक्तेरुक्ता काञ्चनभूमिरुभयत्र । तेनैकत्र पञ्चकोटिविस्तृता सुवर्णभूमिस्ततोऽपि लोका- लोकस्ततः पर इति शैवतन्त्रोक्तेरेकत्र लोकपर्वतान्तोऽयुताहतपञ्चरसवेदैर्योजनैरतो भूमध्यो- द्व्यासार्धं भूमेरष्टकोटय इति षोडशशतविस्तारे पञ्चाशच्छतपरिधेः सूर्यसिद्धान्तोक्तत्वात्षो- डशकोटिविस्तारे पञ्चाशतकोटिमितं भूवलयमित्यङ्गीकुर्वन्ति । तत्कथं तदुवतं भूरिमाणं युक्तियुक्तमपि संगतमित्थतः पूर्वोक्तयुक्त्यन्तरप्रतिपादनपुरःसरमुपजातिकथा पुराणोक्तं निराकरोति--निरक्षेति । यस्मात्कारणादवन्ती । उज्जयिनी । निरक्षदेशात् । ध्रुवोन्नति- रूपाक्षाभाववद्देशात्स्वदक्षिणोत्तरसूत्रस्थादासन्नादित्यर्थः । यद्वा निरसमरसारीत्या(?) विंशतिः । अक्षाणि यस्यासौ दशमुखत्वात् । रावणस्तस्य देशात् । लङ्काप्रदेशात् । क्षितिषो- डशांशे भूगोलपरिधिषोडशभागे । गणितेन पूर्वोक्तरीत्यवगतगणितविचारेण । भवेत् । तथा च पूर्वोक्तानुपाताथं दक्षिणोत्तरपुरयोरक्षांशदर्शनेन क्वचित्स्वदक्षिणसूत्रस्थदेशेष्वपचयवशादक्षां- शाभावोऽस्तीत्यनुमितम् । अथ च भूगोलवृत्तस्थसंपूर्णांशैः षष्ट्यधिकशतत्रयरूपैर्भूंपरिधेः पूर्वोक्तयुक्त्या संभवादुज्जयिनीस्थसार्धद्वाविंशत्यक्षांशोन्नतेश्चक्रां[श]-षोडशभागपुल्यत्वाद- वन्तीभूपरिधिषोडशभागे लङ्कादेशादन्यनिरक्षदेशानां तद्दक्षिणसूत्रस्थत्वाभावाच्च तेभ्यः परि- धिषोडशांशे तदनवस्थ[तौ] तात्पर्यम् । अस्मात्कारणात् । तदन्तरम् । तयोर्लङ्कोज्जयि