सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 156, कुल 723 में से
संदर्भ में पढ़ेंन्योरन्तरम् । मध्ययोजनसंख्यामानं लोकसिद्धम् । अन्तरदेशगणनया सिद्धं वा । षोडश- गुणितं भूपरिमानं स्यात् । तदन्तरस्य परिधिषोडशांशरूपत्वात् । एतेन यद्देशे येऽक्षांशाद्भ- क्ताश्चक्रांशाः, यत्फलं तत्कृतपरिधिभागे तद्दक्षिणस्थनिरक्षदेशात्तद्देश इति तदन्तरज्ञात- योजनसंख्यामानं तत्फलगुणितं भूपरिधिः स्यादित्युक्तम् । एतद्रीत्याऽस्मदुक्त एव परिधिः सिध्यतीत्यस्मादित्यस्य पुनरावृत्तेरस्मदभिमतभूपरिधेः । तदुक्तं पुराणोक्तं भूपरिधिमानं बहु । पञ्चाशत्कोटिरूपम् । किम् । कथमुपपन्नम् । अयुक्तमित्यर्थस्तथा चास्मदभिमतपरि- घेरागमयुक्तिसिद्धत्वात्केवलगमप्रमाणभूतं पुराणोक्तं भूमानमुपेक्षणीयमिति भावः । एते- नानन्तयोजना भूमिरित्यपास्तम् । अमिता यदि भूरियोजना क्षितिरह्ना परिवर्त्यते कथं भैः । परिघेः खलु षोडश