भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 158, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 158

५६ गोलाध्याये (२) दो ग्रहों की परस्पर की युति साधन में (३) सूर्य चन्द्रमा के ग्रहणों के गणित के साधन में (४) ग्रहों के उदय और अस्तकाल साधन गणित में (५) ग्रहों की छायादि से नतांशादि साधन गणित में” उपयोग करने से उक्त गणित सही उतरते हैं अतएव मेरी बुद्धि से साधित उक्त भूपरिधि मान सही होता है—इत्यादि कहा है ॥१५॥१६॥ इदानीं भूगोले परिनिवेशमाह— लङ्का कुमध्ये यमकोटिरस्याः प्राक् पश्चिमे रोमकपत्तनं च । अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये वडवानलश्च ॥१७॥ कुवृत्तपादान्तरितानि तानि स्थानानि षड्गोलविदो वदन्ति । वसन्ति मेरौ सुरसिद्धसंघा और्वे च सर्वे नरकाः सदैत्याः ॥१८॥ यो यत्र तिष्ठत्यवनीं तलस्थामात्मानमस्या उपरि स्थितं च । स मन्यतेऽतः कुचतुर्थसंस्था ,मिथश्च ये तिर्यगिवामनन्ति ॥१९॥ अधःशिरस्काः कुदलान्तरस्थाइछायाममुष्या इव नीरतीरे । अनाकुलास्तिर्यगधः स्थिताश्च तिष्ठन्ति ते तत्र वयं यथात्र ॥२०॥ वा० भा०—सुगमम् ॥१७॥१८॥१९॥२०॥ मरीचिः—स्यादेतत् । निरक्षदेशादित्यनेन लङ्कादेशः कथमवगतस्तन्नांशांशानुपत्तौ कारणाभावादित्यतो वस्तुमात्रस्य मध्यपूर्वापरार्ध पार्श्वद्वयेति षड्भागसद्भावनियमाद्भूगो- लस्य षड् भागाः क इत्याशङ्कोत्तरभूतषट्स्थानसंनिवेशकथनच्छलेनोत्तरमुपजातिकयाऽऽह— लङ्केति । कुमध्ये भूगोलमध्यभागे लङ्का । यद्यपि गोलपृष्ठे मध्यस्य यत्र तत्रापि संभवाल्लङ्का कुमध्य इत्ययुक्तं तथाऽपि व्यवहारार्थमेकस्य प्रदेशस्य मध्यस्य कल्पनाश्यकतया स्वतन्त्रस्य नियोगानर्हत्वाच्च ब्रह्मणा लङ्कौव भूपृष्ठे मध्यत्वेन कल्पितेति ध्येयम् । अस्या लङ्कायाः सकाशात्पूर्वदिग्भागे यमकोटिनामंक नगरम् । चकाराल्लङ्काप्रदेशादेवेत्यर्थः । पश्चिमदिग्भागे रोमकाख्यं नगरम् । ततो लङ्कादेशादधःप्रदेशे लङ्कास्थानस्य मध्यत्व- कल्पनयोर्ध्वत्वकल्पनाङ्गीकारात् । अन्यथोर्ध्वाधःप्रदेशयोर्गोलेऽनुपपत्तेः । सिद्धपुरम् । अथानन्तरम् । सौम्य उक्तनगरेभ्य उत्तरदिग्भागे सुमेरुर्हेमाद्रिः । चकारादुक्तपूर्वापर- सूत्रस्थनगरचतुष्टयाद्याम्ये दक्षिणदिग्भागे वडवाख्योऽग्निस्तत्स्थानमित्यर्थः । तथा चाग्रे ध्रुवोन्नत्याऽक्षांशस्वरूपप्रतिपादनाल्लङ्कादिपूर्वापरसूत्रस्थदेशेषु तदुन्नत्यभावदर्शनप्रति- पादनाच्चोज्जयिनीदक्षिणसूत्रस्थनिरक्षदेशे लङ्कैवेति भावः ॥१७॥