भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 159, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 159

भुवनकोशः ५७ ननु लङ्कादेशात्पूर्वापरसूत्रस्य सिद्धपुरपर्यन्तं सत्त्वात्तत्र यमकोटिरोमकनगरयोः कियताऽन्तरेण लङ्कादेशादवस्थानमेवं लङ्कास्थानाद्दक्षिणोत्तरसूत्रस्यापि तदवधित्वात्तच्च लङ्कास्थानात्कियताऽन्तरेण मेरुवडवानलयोरवस्थानमित्यतस्तदुत्तरं तत्प्रसङ्गात्पूर्वापर- सूत्रस्थलङ्कादिपुरचतुष्के मनुष्यगाम्यत्वेन दशशिरःपुरीत्यादिमध्याधिकारोक्तेन राक्षस- निवाससूचनाच्चावशिष्टमेरुवडवानलयोर्मनुष्यगोचरत्वाभावात्तयोः केषामस्थानमित्या- शङ्कोत्तरं चोपजातिकयाऽऽह—कुवृत्तेति । भूगोलस्वरूपतत्वज्ञाः पूर्वाचार्याः । तानि पूर्वोक्तानि षट्संख्याकानि स्थानानि लङ्कायमकोटिसिद्धपुररोमकमेरुवडवानलात्मकानि परस्परमुक्तान्यतमान्यवहितानि । कुवृ- त्तपादान्तरितानि । भूगोलवृत्तपरिधिचतुर्थांशान्तरं संजातं तेषां तानीत्यर्थः । पूर्वापरसूत्रे दक्षिणोत्तरसूत्रे च पूर्वोक्त्या नगरचतुष्टयस्य सिद्धत्वात्तेषां च गोलपरिधिस्थत्वेन विशेष- तोऽनुक्तेश्च समं स्यादश्रुतत्वादिति न्यायाच्च परिधिचतुर्थांशान्तराण्येव सिद्धानीति च वदन्ति । भूवृत्तपादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः । ताभ्यश्चोत्तरगो मेरुस्ताचा(वा)नेव सुराश्रय इति सूर्यसिद्धान्तोक्त्या कथयन्ति । तथा च लङ्कायाः पूर्वपश्चिमदक्षिणोत्तरभागेषु यमकोटिरोमकवडवानलमेरुस्थानानि क्रमेण परिधिचतुर्थांशान्तरेण सन्तीति भावः । एतेन प्रतिस्पर्धिनगरयोरुक्त्सान्यतमव्यवहितयोः परस्परमन्तरं तु परिध्यर्धमिति । यथा मेरुवडवा- नलयोर्लङ्कासिद्धपुरयोर्यमकोटिरोमकयोर्वेति सूचितम् । मेरौ सुरा इन्द्रादयो देवाः सिद्धा योगाभ्यासरता महर्षयः । अनयोः संघाः समुदायाः । अत्र बहुवचनमनन्तसंख्याद्योतकम् । वसन्त्यधितिष्ठन्ति । और्वे वडवानलस्थाने । नरकाः सर्वे । पापानन्तभेदान्नरकाः । अथाष्टाविंशतिसंख्याकास्तामिश्रा(स्रा)दधः(यः) पुराणप्रसिद्धाः पापपुरुषदाहकाः सदैवत्या दैत्यसहिताः । दैत्या अपीत्यर्थः । चकाराद्वसन्तीत्यर्थः वडवानलस्यातिदाहकत्वेन यातनार्थं नरकाणां सर्वेषां तत्रावस्थानं युक्तम् । तत्संसर्गात्तेषामप्यतिदाहकत्वसंभवात् । अत एवा- नास्या(स्वा)दितपरमेश्वरपदारविन्दमकरन्दानां दैत्यानां तत्रैवावस्थानं युक्तमिति भावः । तथा च सूर्यसिद्धान्ते-अनेकरत्ननिचयैः जाम्बूनदमयो गिरिः । भूगोलमध्यगो मेरुरुभयत्र विनिर्गतः । उपरिष्टात्स्थितास्तस्य सेन्द्रा देवा महर्षयः । अधस्तादसुरास्तद्वद्विषन्तोऽन्योन्य- माश्रिता इति ॥