भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 160, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 160

५८ गोलाध्याये

वयमिति प्रतीतेर्भूगोलस्य सर्वावयवावच्छेदेनाधस्त्वं तदभितश्चोर्ध्वत्वमिति पूर्वमनेकधा निर्णीतत्वादधःस्थितानामधःप्रदेशाभावात्पतनाभावः ॥१९॥ ननु लङ्कादेशात्सन्नगराणां तिरश्चीनतया तदधिष्ठितलोकास्तिरश्चीनाः प्रत्यक्षसिद्धाः पतनीया एवेत्यत आह—अध इति । भूमिगोलस्य निरपेक्षं सर्वावयवावच्छेदेनाधस्तिर्य- ग्भागाप्रसिद्धेरित्यर्थः । ते । लङ्कादिदेशस्थाः कुचतुर्थसंस्थाः । भूपरिधिचतुर्थांशान्तरेण स्थिताः । मिथः परस्परम् । तिर्यक् तिरश्चीनाः । चकारात्परस्परम् । इवेत्यनेन वस्तुत- स्तदभाव आमनन्ति । तथा च यथा लङ्कादेशादितरदेशानां तिरश्चीनतया तदधिष्ठित- मनुष्यपातशङ्का तथान्यदेशाल्लङ्कादेशस्यापि तिरश्चीनतया दर्शनात्तत्स्थलोकपतनमप्य- निवारितमिति सर्वलोकपतनानुपपत्त्या तदपतनमेवेति भावः । न