भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 201, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 201

भुवनकोशः ९९ अर्थात् लल्लाचार्य से की गई इस गणित साधनिका में असोढव्य त्रुटि हुई है ॥५४। ५५।५६।५७॥ अथान्यथा प्रतिपाद्यते— गोलस्य परिधिः कल्प्यो वेदघ्नज्यामितैर्मितः । मुखबुध्नगरेखाभिर्यद्वदामलके स्थिताः ॥५८॥ दृश्यन्ते वप्रकास्तद्वत्प्रागुक्तपरिधेर्मितान् । ऊर्ध्वाधःकृतरेखाभिर्गोले वप्रान् प्रकल्पयेत् ॥५९॥ तत्रैकवप्रकक्षेत्रफलं खण्डैः प्रसाध्यते । सर्वज्यैक्यं त्रिज्यार्धहीनं त्रिज्यार्धभाजितम् ॥६०॥ एवं वप्रफलं तत्स्याद्गोलव्याससमं यतः । परिधिव्यासघातोऽतो गोलपृष्ठफलं स्मृतम् ॥६१॥ वा० भा०—अत्राभीष्टे कस्मिंश्चिद्ग्रन्थे यावन्ति ज्यार्धानि तत्संख्या चतु- र्गुणा । तन्मितः किल गोले परिधिः कल्प्यः । यथाऽऽमलकगोलपृष्ठे मुखबुध्नगरे- खाभिः सहजाभिर्विभक्ता वप्रका दृश्यन्ते तथाऽभीष्टे गोलपृष्ठे मस्तकात्तलंगरे- खाभिः कल्पितपरिधिसंख्यान् वप्रकान् प्रकल्प्यैकस्मिन् वप्रे क्षेत्रफलं साध्यम् । तद्यथा । इह किल धीवृद्धिदे चतुर्विंशतिर्ज्यार्धानि । अतः षण्णवतिहस्तमितो गोले परिधिः कल्पितः । प्रतिहस्तमूर्ध्वाधोरेखाभिस्तावन्तो वप्रकाश्च कृताः । तत्रैकस्य वप्रकस्यार्धे हस्तान्तरे हस्तान्तरे तिर्यग्रेखाः कृत्वा ज्यासंख्यानि चतुर्विंशतिः खण्डानि कल्पितानि । तत्र जीवाः पृथक्-पृथक् त्रिज्याभक्तास्तिर्यग्रेखाप्रमाणानि भवन्ति । तत्राधस्तनो रेखा हस्तमात्रा । उपरितन्यस्तु ज्यावशेन किंचित् किंचि- न्न्यूनाः । सर्वत्र हस्तमित एव लम्बः । लम्बगुणं कुमुखयोगार्धमिति खण्डफलान्या- नीयैकीकृतानि । तद्वप्रकार्धे फलम् । तद्द्विगुणमेकस्मिन् वप्रके फलं भवति । तत्साधनार्थमिह सूत्रमिदम् । सर्वज्यैक्यं त्रिज्यार्धहीनमित्यादि । अत्र सर्वज्यानां शरनेत्रबाहव इत्यादिनामैक्यं सुरयमकृतबाणतुल्यम् ५४२३३ । एतत् त्रिज्यार्धे- नोनं जातं मनुतत्त्वपञ्चमितम् ५२५१४ । एतत् त्रिज्यार्धभक्तं जातमेकवप्रके क्षेत्रफलं व्याससमम् ३०।३३ । यत एतावानेव षण्णवतिपरिधेर्गोलस्य व्यासः स्यात् ३०।३३ । परिधितुल्यकाश्च वप्रका इति परिधिव्यासघातो गोलपृष्ठफल- मित्यपपन्नम् । तथा चोक्तमस्मत्पाटीगणिते— वृत्तक्षेत्रे परिधिगुणितव्यासपादः फलं त- त्क्षुण्णं वेदेरुपरि परितः कन्दुकस्येव जालम् ।