सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 203, कुल 723 में से
संदर्भ में पढ़ेंयोरैक्यान्मुखाभावः । भूमिस्तु प्रथमवलयाकारवृत्तान्तर्गतपरिध्यैकदेशो वप्रस्थाद्वितीयवलया- कारवृत्तस्य प्रान्तःस्थितदेशो भूमिः । पूर्वक्षेत्रभूमिर्मुखम् । एवमुत्तरोत्तरम् । वप्रकार्धे वल- याकारवृत्तपरिध्यैकदेश एकसंख्यामितः । तद्वृत्तस्य त्रिज्याव्यासार्धोत्पन्नत्वात् । अतस्त्रि- ज्याव्यासार्ध एकमापकमिता भूमिस्तदा स्वस्वज्याव्यासार्धवृत्ते केति भूमिरकमापकान्न्यूनैव । तथा च त्रिज्याभक्ताः प्रथमादिज्याः क्षेत्रेषु भूमयः सिद्धाः । अथ लम्बगुणं भूम्यर्धं स्पष्टं त्रिभुजे फलं भवतीत्युक्त्या प्रथमखण्डक्षेत्रे प्रथमज्यार्धं त्रिज्याभक्तं क्षेत्रफलम् । द्वितीयक्षेत्रे लम्बेन निघ्नं कुमुखैक्यखण्डमित्युक्त्या प्रथमद्वितीयज्ययोरैकस्यार्धं त्रिज्याभक्तं क्षेत्रफलम् । ऐक्यार्धैक्ययोस्तुल्यत्वात्प्रथमद्वितीयज्यार्धयोरैक्यं त्रिज्याभक्तं द्वितीयक्षेत्रे क्षेत्रफलं परिण- तम् । प्रथमद्वितीयक्षेत्रफलयोर्योगः खण्डक्षेत्रद्वयस्य फलम् ।