सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 204, कुल 723 में से
संदर्भ में पढ़ेंफलं तत्र योज्यम् । परं तु सम्पूर्णभूमिज्ञानेऽपि भूमिखण्डयोगाज्ञानाज्जात्यत्र्यस्रद्वयक्षेत्रफला- सिद्धिरतो मुखोनभूमेस्तन्मितत्वान्मुखोनभूमिर्लम्बगुणा तदर्धं जात्यत्र्यस्रद्वयक्षेत्रफलम् । अत्र खण्डद्वयेन भूमिगुणमुखगुणलम्बार्धोनमिदं लम्बमुखघातयुतं तेन मुखगुणलम्बार्धयुतं भूमि- गुणलम्बार्धसिद्धलम्बार्धमत्रापि गुणितयोर्योगेयोगे वा गुणिते समानत्वाल्लाघवाच्च मुख- भूम्यैक्यार्धं लम्बगुणक्षेत्रफलं युक्तमित्यलं प्रसङ्गागतविचारेण । तथा च सर्वज्यैक्ये त्रि- भज्यार्धहीने चतुर्गुणज्यामितितुल्यपरिध्यवगतसूक्ष्मव्यासगुणितत्रिज्यार्धं भवति । यथा प्रकृते ज्योत्पत्तिविध्यवगतसूक्ष्मावयवचतुर्विंशतिजीवानां योगो जीवावयवयुताष्टत्रिंशदवयवयुत- श्चन्द्रतत्त्वाब्धिशरमितः ५४२५१ । ३८ । २४ । त्रिज्या ३४३८ र्धो-१७१९ नः ५२५३२। ३८ । २४ । अयं च चक्रकलातुल्यपरिधौ द्विगुणवृहत्त्रिज्या ६८७२ न्यासस्तदा(वप्र) चतुर्गुणज्यामितितुल्यषण्णवतिपरिधौ क इत्यनुपातावतसूक्ष्मसावयवव्यासः ३० । ३३ । ३६ । त्रिज्यार्धघाततुल्यः । यद्वा पठितव[प्र]चतुर्विंशतिजीवानां योगः सुरयमवेदशरमितः ५४२३३ । त्रिज्यार्घोनः ६२५१४ । अयं स्थूलव्यासः ३० । ३२ । ४४ । त्रिज्यार्धघात- समप्रायः कथमेतदिति चेच्छृणु । यद्यप्यत्र बह्व्यो ज्यास्तत्र सर्वज्यैक्ये त्रिभज्यार्धहीने व्यासत्रिगुणितत्रिज्यार्धस्वरूपं न दृश्यते युक्तिभिस्तथाऽपि ज्यात्र[य]प्रकल्पने सर्वज्यैक्ये त्रिज्यार्धहीने तद्व्यासगुणितत्रिज्यार्धस्वरूपस्य युक्तिभिरुपपन्नत्वादन्यत्रापि तत्कल्पनस्यानु- कूलतर्कसहकृतानुमानसिद्धत्वात् । तथा हि । त्रिंशदंशानां ज्यात्रिज्यार्धम् । एतद्वर्गोनत्रिज्या- वर्गान्मूलम् । त्रयोदशगुणितत्रिज्यापञ्चदशांशासन्नषष्ट्यंशानां ज्या । त्रिज्यानवत्यंशानां ज्या । आसां योगे त्रिज्यार्धहीने द्वितीयतृतीयज्ययोर्योगो भवति । तत्र द्वितीयज्यायास्त्रयो- दशगुणितत्रिज्यातत्पञ्चदशांशरूपत्वात्त्रिज्यासमच्छेदविधिना सा जात्येन द्वितीयज्यायां योज्या । तत्स्वरूपं चाष्टाविंशतिगुणितत्रिज्यापञ्चदशांशरूपमतस्त्रिज्यार्धं षट्पञ्चाशद्- गुणितं पञ्चदशभक्तम् । तत्स्वरूपं सिद्धम् । अत्रैव तद्गुण-५६ हरौ १५ चतुर्घ्नज्यामिति- रूपद्वादशपरिधेर्द्वाविंशतिघ्ने विहृतेऽथ शैलैरित्यस्य व्यस्तविधिना सिद्धं व्यासस्य चतुरशीति- भाज्यद्वाविंशतिहरात्मकस्य सार्धैकापवर्तनेन हरस्थानेर्द्वा(र्धा)भ्यधिकावयवस्थोर्ध्वाऽङ्क एका- धिकग्रहणेन च भाज्य ५६ हरात्मक १५ व्यासे पर्यवसन्नादिति । अतस्त्रिज्या