सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 282, कुल 723 में से
संदर्भ में पढ़ें१८० गोलाध्याये क्यपदमिति प्रसिद्धम्। अत्रापि प्राग्वत्कक्षावृत्ते कर्णसूत्रसक्ते स्फुटो ग्रहः। स्फुटमध्ययोरन्तरं फलमित्यादि ॥२८॥२९॥ इति नीचोच्चवृत्तभङ्गिः। मरीचिः—ननु गणितसिद्धयोर्भुजकोटिज्ययोस्त्रिज्याप्रमाणव्यासार्धवृत्ते सिद्धत्वादन्त्य- फलज्याव्यासार्धवृत्ते तयोरवस्थानमसङ्गतमित्यतस्तदुत्तरं फलवासनं चेन्द्रवज्रोपजातिका- भ्यामाह—ये केन्द्रेति। केन्द्रभुजकोटिफले ये स्पष्टाधिकारे कृते स्वेनाहते परिधिनेत्यादिनोक्ते ते नीचोच्चवृत्ते भुजकोटिज्ये दोर्ज्योच्चरेखावधीत्यादिपूर्वंप्रतिपादिते स्तः। तथा च तद्वृत्ते त्रिज्याप्रमाण- सिद्धभुजकोटिज्ययोः स्वाल्पतद्वृत्तपरिणतयोस्तत्त्वतोऽवस्थानं युक्तमिति भावः। एतेनैव भुजकोटिफलानयनोपपत्तिः स्पष्टेति ध्येयम्। अथ कर्णस्वरूपज्ञानार्थं कोटिस्वरूपमुपपादयति- त्रिज्योर्ध्वत इति। मृगादौ मकरादिषड्भान्तर्गतकेन्द्रे ग्रहचिह्नं नीचोच्चवृत्ते स्वतिर्यग्रेखा ऊर्ध्वा भवतीति कक्षावृत्ततिर्यग्रेखातो नीचोच्चवृत्ततिर्यग्रेखायास्त्रिज्या तुल्यान्तरेण सत्त्वात्त्रि- ज्योर्ध्वतस्त्रिज्या तुल्यऋजुरेखोर्ध्वाग्रादूर्ध्वं कोटिफलं कर्कादिषड्भान्तर्गतकेन्द्रे नीचोच्चवृत्ते स्वतिर्यग्रेखातो ग्रहचिह्नमधो भवतीति तदधस्त्रिज्या तुल्यऋजुरेखोर्ध्वाग्रादधः कोटिफलम्। यतः यत्कारणात्तस्यादतः कारणात्क्रमेण तयोस्त्रिज्याकोटिफलयोर्योगान्तरम्। अत्र भूगर्भे। कक्षावृत्ततिर्यग्रेखैकदेशनीचोच्चवृत्तस्थग्रहचिह्नयोरन्तररूपोर्ध्वाधरा रेखा कोटिस्तदर्थमेव भुजमाह—दोरिति। दोःफलं कोटिमूलभूगर्भचिह्नान्तरं भुजफलतुल्यम्। कक्षातिर्यग्रेखैकदे- शरूपं कर्णस्य भुजः। कर्णस्वरूपमाह—भूग्रह मध्यसूत्रमिति। भूगर्भचिह्ननीचोच्चवृत्तस्थग्र- हचिह्नयोरन्तरसूत्रं तिरश्चीनं तत्कृत्योर्योगपदरूपं कर्णः स्यात्। कर्णप्रयोजनभूतां फल- वासनामाह-अथेति। अनन्तरम्। इह कक्षावृत्ते कर्णसूत्रसक्तप्रदेशे ग्रहदर्शनात्कक्षास्थमध्य- ग्रहचिह्नकर्णसूत्रसक्ते कक्षाप्रदेशयोर्मध्येऽन्तराले कक्षापरिध्येकदेशरूपम्। तत्-मान्दं शैघ्यं वा फलम्। ननु प्रतिवृत्तनीचोच्चवृत्तयोरेकसंस्थानाभावात्फलस्य धनर्णत्वमत्र कथं ज्ञेय- मित्यत आह-धनर्णमिति। उक्तवत्-मध्येऽग्रगे स्पष्टखगादृणं तत्पृष्ठस्थिते स्वमिति प्रतिवृत्तभङ्गिधनर्णप्रतिपादनरीत्या धनर्णं फलं ज्ञेयम्। न भिन्नरीत्या। अत्र कारणभूतश्च- कारः पूर्वं प्रतिपादितप्रतिवृत्तरीत्या यत्फलस्वरूपं सिद्धं तदभिन्नमित्यर्थः ॥२८॥२९॥ केदारदत्तः—प्रतिवृत्त की केन्द्रज्या और केन्द्र कोटिज्या का परिणत स्वरूप नीचोच्चवृत्त में भुजफल एवं कोटिफल होता है। मृगादि केन्द्र में त्रिज्या से ऊपर एवं कर्कादि केन्द्र में कोटिफल त्रिज्या से नीचे स्पष्ट दृगोचर है। भुजफल = भुज, भू से ग्रह तक = ग्रह कर्ण = भुज्या² + कोटिज्या² का मूल = कक्षा वृत्तस्थ कर्ण सूत्र तथा तल्लग्न ग्रह = स्पष्ट ग्रह है ॥२८॥२९॥ अथ मिश्रभङ्गिमान— मन्दोच्चतोऽग्रे प्रतिमण्डले प्राग्ग्रहोऽनुलोमं निजकेन्द्रगत्या । शीघ्राद्विलोमं भ्रमतीव भाति विलम्बितः पृष्ठत एव यस्मात् ॥३०॥