सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 291, कुल 723 में से
संदर्भ में पढ़ेंछेद्यकाधिकारः १८९ पठित परिधि × कर्ण ---------------------- = कर्णाग्रीय स्फुपरिधि तथा मन्दफल त्रि केन्द्रज्या × स्प० परिधि ------------------------ = भुजफल ३६० स्फु० प० का उत्थापन देने से = केज्या × पठित × कर्ण
त्रि × ३६० इस समीकरण में कर्णानुपात करने से = केज्या × पाठ. स्फु. प. × कर्ण × त्रि
त्रि × ३६० × कर्ण केज्या × पा. प. स्फु. प केज्या × भुज्या = ----------------------------- = -------------------- = मन्द फ. उपपन्न है ॥३६-३७॥ ३६० त्रि इदानीं नतकर्मवासनामाह— प्राक्पश्चात् प्रतिमण्डलस्थखचरं द्रष्टा कुमध्यस्थितः कक्षायां खलु यत्र पश्यति नतं नो तत्र भूपृष्ठगः । मध्याह्ने तु कुमध्यपृष्ठगनरौ तुल्यं यतः पश्यत- स्तेनोक्तं नतकर्म लम्बनविधौ या युक्तिरत्रापि सा ॥३८॥ वा० भा०—स्पष्टम् ॥ ३८ ॥ मरीचिः—अथ प्रसङ्गाद्भ्रमन्ग्रहः स्वे प्रतिमण्डले नृभिः स यत्र कक्षावलये विलो- क्यते । स्फुटे हि तत्रेत्युक्तमनुपन्नम् । भूगर्भे मनुष्याणामभावादित्याशङ्काया उत्तरं ब्रह्म- गुप्तोक्तं नतकर्मेति केषांचिद्भ्रान्तिं निरस्य छेद्यकलिखितवृत्तप्रयोजनं शार्दूलविक्रीडि- तेनाऽऽह—प्राक्पश्चादिति । प्राक्कपाले मध्यरात्रामारभ्य मध्याह्नपर्यन्तम् । पश्चिमकपाले मध्याह्नमारभ्य मध्यरात्र- पर्यन्तम् ! अत्र ग्रहाणां स्वस्वदिनरात्र्यर्धाभ्यां कपालं ज्ञेयम् । तस्मिन्काले प्रतिमण्डलस्थग्रहं भूगर्भस्थो द्रष्टः कक्षायां यत्र यस्मिन्भागे यत्कक्षाप्रदेशसमसूत्रेण पश्यति तत्र तत्कक्षाप्रदेश- समसूत्रेणेत्यर्थः । भूपृष्ठस्थितोऽस्मदादिस्तं प्रतिवृत्तस्थं ग्रहं न पश्यति । आनीतकणमार्ग- स्थभूगर्भदृक्सूत्रत्वेन भूपृष्ठदृक्सूत्रत्वाभावात् । किंतु प्रतिमण्डलस्थग्रहभूपृष्ठचिह्नयोरन्तर- सूत्रं भूपृष्ठदृक्सूत्ररूपं कक्षायां यत्प्रदेशे लगति तत्समसूत्रेण पश्यति । यथा च भूगर्भपृष्ठयोः स्पष्टग्रहभेदावश्यंभावादुक्तरीत्या भूगर्भ एव स्पष्टग्रहज्ञानद्भूगर्भपृष्ठदृक्सूत्रयोरन्तरं भूगर्भ- स्पष्टग्रहे भूपृष्ठस्पष्टग्रहभोगसिद्धयर्थं संस्कार्यमिति भावः । आर्षग्रन्थे तत्संस्कारानुक्तेर्भू- पृष्ठस्थभूगर्भस्थदृक्सूत्रैक्यकल्पनान्न स्पष्टग्रहभेद इत्यस्य निरासार्थकः खलुशब्दस्तेन छेद्यके भूवृत्तलिखनेन भूगर्भपृष्ठयोः प्रत्यक्षं भेदाद्यथा भूगर्भप्रतिवृत्तस्थग्रहान्तरे कर्णसूत्रं तथा भू- वृत्तपरिधिरूपभूपृष्ठप्रतिवृत्तस्थप्रहान्तरे भूपृष्ठग्रहदर्शनमार्गरूपः कर्णस्तद्भिन्नः प्रत्यक्ष इति कक्षायां ग्रहस्पष्टभोगभेदः प्रत्यक्षसिद्ध इति भूवृत्तलिखनं सप्रयोजनमिति सूचितम् । ननु