सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 338, कुल 723 में से
संदर्भ में पढ़ें२३६ गोलाध्याये इदानीं क्रान्तिवृत्तमाह — क्रान्तिवृत्तं विधेयं गृहाङ्कं भ्रम- त्यत्र भानुश्च भार्धे कुभा भानतः । क्रान्तिपातः प्रतीपं तथा प्रस्फुटाः क्षेपपाताश्च तत्स्थानकान्यङ्कयेत् ॥११॥ वा० भा०—अथान्यत्तत्प्रमाणमेव वृत्तं कृत्वा तत्र मेषादिं प्रकल्प्य द्वादश- राशयोऽङ्कयाः । तत्क्रान्तिवृत्तसंज्ञम् । तस्मिन् वृत्ते रविर्भ्रमति । तथा रखेर्भा- र्द्धान्तरे भूभा च । तथा तत्र क्रान्तिपातो मेषादेर्विलोमं भ्रमति । तथा ग्रहाणां विक्षेपपाताः प्रस्फुटा विलोमं भ्रमन्ति । अतः क्रान्तिपातादीनां स्थानानि तत्रा- ङ्कयानि ॥११॥ मरीचि—अथ भगोले क्रान्तिवृत्तं स्वरूपेण सिद्धं कुर्वन् स्रग्विण्याऽऽह—क्रान्तिवृत्तमिति। विषुवद्वृत्तसमं वंशादिजमन्यद्वृत्तं गृहाङ्कं चक्रांशाद्यङ्कितमप्यभीष्टस्थानान्मेषादिद्वाद- शराशिप्रथमाक्षराङ्कितं विधेयम् । तत्क्रान्तिवृत्तम् । एतद्वृत्तमाकाशस्थितभगोलवृत्तान मध्ये कस्यानुकल्पमत आह—भ्रमतीति । अत्रास्मिन्वृत्ते भानुः सूर्यः स्वकक्षायां भ्रमतीति । स्वपूर्वगत्या गच्छति । भानतः सूर्यात् । भार्धे षड्भान्तरे कुभा भूछाया स्वकक्षायां भ्रमति । रविः पूर्वगत्या गच्छति । चः समुच्चये । भूम्यभितः सूर्यभ्रमणात्तत्कृतभूछाया- यास्ततो वृत्तार्धे पतनात् । तथा च यस्मिन्वृत्तेऽर्कः पूर्वगत्या द्वादशराशिभोगं करोति तद्वृत्तानुकल्पमिदमिति भावः । प्रसङ्गादेतद्वृत्तभ्रमणपदार्थान्तरानाह—क्रान्तिपातो वक्ष्यमाणस्वरूपः । स्वगत्या प्रतीपं सूर्यगमनस्थितिविरुद्धं तथा विलक्षणम् । कदाचित्पूर्वतः कदाचित्पश्चिमत इत्यार्षाभिप्रायेणार्थः । मुञ्जालादिमते तु प्रतीपं पश्चिमानुक्रमेण । तथा स्वगत्यर्थः । क्षेपपाताश्चन्द्रादीनां शरपाता वक्ष्यमाणस्वरूपाः । प्रस्फुटा ग्रहशीघ्रफलव्यस्त- संस्कृता वक्ष्यमाणस्वरूपा इत्यर्थः । न मध्यमाः । चकारात्प्रतीपं पश्चिमगतयः । भ्रमति भ्रमन्तीति यथायोग्यम् । नन्वाकाशे ते तत्र भ्रमन्तु । परमनुकल्पवृत्तकथने तत्कथनम्- युक्तमत आह—तत्स्थानकानीति । तेषां सूर्यभूछायाक्रान्तिपातशरपातानामत्र वृत्ते यत्र यत्र स्थानं तत्र तत्र तदाद्यक्षराण्यङ्कयेत् ॥११॥ केदारदत्तः—क्रान्तिवृत्त की रचना— १२ राशियों के अंशों की कला विकलाओं से अंकित क्रान्ति वृत्त का निर्माण करना चाहिए । सूर्यबिम्ब का भ्रमण क्रान्तिवृत्त में होता है, भूकेन्द्राभिप्रायिक भ्रमण कक्षा क्रम से क्रान्तिवृत्त में सूर्य की गति की जगह सूर्य केन्द्राभिप्रायिक ग्रह कक्षा में पृथ्वी की पूर्वाभिमुखी गति वशेन क्रान्ति का ज्ञान होता है । स्पष्ट गणित और वेध सिद्ध ग्रह गणि में अन्तर नहीं पड़ेगा ।