सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 427, कुल 723 में से
संदर्भ में पढ़ेंअथ ग्रहणवासना
अथ ग्रहणवासना। चन्द्राकर्ग्रहणयोः स्पर्शे मोक्षे च दिग्व्यत्ययस्योपपत्तिमाह— पश्चाद्भागाज्जलदवदधः संस्थितोऽभ्येत्य चन्द्रो भानोर्बिम्बं स्फुरदसितया छादयत्यात्ममूर्त्या । पश्चात्स्पर्शो हरिदिशि ततो मुक्तिरस्यात एव क्वापि च्छन्नः क्वचिदपिहितो नैष कक्षान्तरत्वात् ॥१ **वा० भा०—**अर्कादधश्चन्द्रकक्षा। यथा मेघोऽधःस्थः पश्चाद्भागादागत्य रविं छादयत्येवं चन्द्रोऽपि शीघ्रत्वात्पश्चाद्भागादागत्य रविं छादयति। ततः पश्चात्स्पर्शः। निःसरति चन्द्रे पूर्वतो मोक्षो रवेः। अत एव कक्षाभेदात्क्वचिदर्क- श्छन्नो दृश्यते। क्वचिद्देश न च्छन्नः। यथाऽधःस्थे मेघे कैश्चिद्रविर्न दृश्यते कैश्चिद्- दृश्यते प्रदेशान्तरस्थैः ॥१॥ **मरीचिः—**अथ तिथ्यन्ते चेद्ग्रह उडुपतेरित्यादिसार्धश्लोकोक्तप्रश्नस्योत्तरभूतो ग्रहण- वासनाधिकार आरब्धो व्याख्यायते। तत्र प्रथमं ग्रहणस्वरूपं विवक्षुश्चन्द्रग्रहणोपपादनोप- स्थितसूर्यस्यैव ग्रहणं—तरणेः प्रग्रहः किं प्रतीच्यामिति प्रश्नस्योत्तरकथनच्छलेन मन्दाक्रान्त- स्योपपादयति–पश्चाद्भागादिति। चन्द्रः, अधः सूर्याधः स्थितः कक्षाक्रमावगमात्। पश्चा- द्भागात्सूर्यपश्चिमप्रदेशात्। अभ्येत्य। अभि सूर्यमण्डलसमन्तात्। मानैक्यखण्डानधिक- शरान्तरेणाऽऽगते(त्ये)त्यर्थः। सूर्यमण्डलं छादयति। ननु योजनात्मकरविबिम्बा[द्]योजना- त्मकचन्द्रबिम्बस्यातिलघुत्वेन तच्छादकत्वासंभवात्पुराणोक्तो राहुरेवाऽऽच्छादक इत्यत आह–आत्ममूर्त्येति। आत्मनश्चन्द्रस्य मूर्तिः स्वरूपं जलगोलरूपं तेनेत्यर्थः। तथा चाति- दूरस्थितमहदर्कबिम्बस्य सूक्ष्मत्वेन दर्शनादतिनिकटस्थाल्पचन्द्रबिम्बस्य तथाऽतिसूक्ष्मत्वेन दर्शनाभावाद्भूस्थजन नयनावरणकत्वोपाधिनाऽर्कबिम्बाच्छादकत्वं चन्द्रबिम्बस्य नासंभव्यत एवाङ्गुलात्मकतद्विम्बयोरल्पान्तरम्। राहुबिम्बस्याऽऽकाशे खपुष्पायितत्वात्तच्छादकत्वं न तर्कसहमिति भावः। नन्वेवमर्कग्रहणदिने चन्द्रस्यापि राहुतुल्यत्वेन तच्छादकत्वमपि तथेत्यत आह—स्फुरदसितयेति। स्फुरत् प्रत्यक्षांयितम्। असितं श्यामं यस्यास्त्येत्यर्थः। तथा च कृष्णपक्षत्रयोदश्यादौ चन्द्रबिम्बेऽल्पा(ऽल्पा) ज्योत्स्ना। तथा चेतरावशिष्टो भागः कृष्णत्वेन प्रत्यक्षस्तथाऽमावास्यान्ते तदनुरोधात्संपूर्णमण्डले कृष्णत्वम्। ज्योत्स्नाया अभावा- त्तद्दर्शनम्। सूर्यग्रहणे तत्सान्निध्यादेव च्छादकत्वेन तद्रूपदर्शनमतश्चन्द्रस्य न राहुतुल्यत्वम्। अन्यथा तच्चारगणितानुपपत्तेरिति भावः। यद्यपि चन्द्रगोलोर्ध्वदेशे सूर्यकिरणफलनाच्चन्द्र- मूर्तिः सिताऽप्यस्ति तथाऽपि स्फुर दित्यनेन भूस्थजनदृग्विषयेति तदनुक्तिः। भूस्थानामेव