भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 450, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 450

३४८ गोलाध्याये ११८४९ ० ७९० गतियोजन १ निथ्यंशः कुदलस्य यतो मितिः ॥२६॥ ४ ३५ स्युर्लम्बनफला नाड्यो गत्यन्तरलवोद्धृताः । प्रागग्रतो रवेश्चन्द्रः पश्चात्पृष्ठेऽवलम्बितः ॥२७॥ शीघ्रेऽग्रगे युतिर्याता गम्या पृष्ठगते यतः । प्रागृणं तद्धनं पश्चात्क्रियते लम्बनं तिथौ ॥२८॥ याम्योत्तरं शरस्तावदन्तरं शशिसूर्ययोः । नतिस्तथा तया तस्मात्संस्कृतः स्यात्स्फुटः शरः ॥२९॥ वा० भा०—स्पष्टार्थमिदं ग्रहणवासनायां व्याख्यातं च ।।२१।।२२।।२३।।२४ ।।२५।।२६।।२७।।२८।।२९।। मरीचिः—ननु त्रिभोनलग्नतुल्यार्के पूर्वोक्तलम्बनस्वरूपत्वसिद्धेनं लम्बनातिरिक्ता नतिः सिध्यतीत्यत आह—यत्र तत्रेति । खमध्यान्नतात्सूर्यात् । यत्र तत्र । त्रिभोन- लग्नस्थानातिरिक्तस्थाने । अवस्थितात् । अधश्चन्द्रगोले । चन्द्रचिह्नस्यावलम्बनम् यतो दर्शान्ते भूगर्भसूत्रं सूर्योपरिगं चन्द्रचिह्ने लगत्यपि भूपृष्ठसूत्रं सूर्योपरिगतमपि चन्द्रचिह्ना- दूर्ध्वं चन्द्राधिष्ठितगोले लगति । अत एवात्र पृष्ठसूत्रद्वारा सूर्यबिम्बस्थानं युक्तम् । मध्याह्ना- र्कादधश्चन्द्रावलम्बनस्य कक्षागोलाद्भूगर्भेऽप्युपपत्तेः । तत् । अवलम्बनम् । चन्द्रभान्वोश्चन्द्र- चिह्नभूपृष्ठसूत्रसक्तचन्द्राधिष्ठिताकाशगोलप्रदेशे विशेषरूपसूर्यचिह्नयोरित्यर्थः । तद्दग्वृत्ते । स्वगोलसंबन्धिचन्द्रचिह्नस्थानस्थितवृत्ते । पूर्वापरम् । अन्तरम् । तुकारात्त्वमध्यान्नता- र्कात्त्रिभोनलग्नतुल्याद्यचन्द्रचिह्नस्यावलम्बनम् । चन्द्रचिह्नवृत्तं तयोरन्तरमपि न पूर्वापरं किंतु याम्योत्तरं, प्रतिपादितत्वादित्यर्थः । तथा च दृग्वृत्ताकारक्रान्तिवृत्ते लम्बनं केवलं पूर्वापरान्तररूपम् । क्रान्तिवृत्तस्थत्वात् । दृक्क्षेपवृत्ताकारदृग्वृत्ते लम्बनं केवलं याम्योत्तर- रूपम् । दृक्क्षेपवृत्तस्य क्रान्तिवृत्तयाम्योत्तरवृक्ष(त्त)त्वात् । अन्यन्न(त्र) तु लम्बनं दृग्वृत्ते पूर्वापरमपि क्रान्तिवृत्तदिगनुरोधेन पूर्वापरं याम्योत्तरं चेति द्विविधम् । ग्रहगतेः क्रान्ति- वृत्तानुसृतत्वात् । तत्र याम्योत्तरं नतिसंज्ञं प्रागुपपादितम् । पूर्वापरं चन्द्रचिह्नप्रागुक्त- प्रोतचलवृत्तक्रान्तिवृत्तसंपातयोः क्रान्तिवृत्तेऽन्तरं लम्बनाख्यमिति व्यक्तं भेद इति भावः ॥२१॥ अथैतदेव स्फुटयन्नाह—पूर्वापरमिति । तेन दृग्वृत्ते सूर्यचन्द्रयोरन्तरदर्शनेनेत्यर्थः । पूर्वापरयाम्योत्तरं चेत्यन्तरद्वयमुत्पन्नम् । तदन्तरयोः स्थलमाह—अत्रेति । चन्द्राधिष्ठिता-