सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 451, कुल 723 में से
संदर्भ में पढ़ेंग्रहणवासना ३४९ काशगोले। अपमण्डलप्राच्याम्। क्रान्तिवृत्तमार्गे प्रथमोद्दिष्टमन्तरं तत्त्तिर्यग्दक्षिणोत्तरे क्रान्तिवृत्तस्य तिरी(रश्ची)नं यद्दक्षिणोत्तरवृत्तम्। कदम्बद्वयप्रोतचलद्वृत्तं तत्संबन्ध्य- नन्तरोद्दिष्टमन्तरमित्यर्थः। स्वरूपतत्त्वविवेचनं पूर्वं प्रतिपादितमेवेत्यलम् ॥२२॥ ननु तथाऽप्यन्तरद्वयसिद्धौ तयोर्लम्बननतिसंज्ञाक्रमः कथं विनिगमकाभावादत आह— यत्पूर्वापरभावेन लम्बनाख्यं तदन्तरम्। ग्रंथा(यद्या)म्योत्तरभावेन नतिसंज्ञं तदुच्यते। इति। क्रान्तिवृत्ते पूर्वापरत्वेन यदन्तरं तल्लम्बनसंज्ञं यद्याम्योत्तरत्वेनान्तरं तन्नतिसंज्ञं सूर्यादि(पूर्वसूरि)भिरुच्यते। तथा च तत्तत्क्रममेव नियामकमेतत्संज्ञयोरिति भावः ॥२३॥ नन्वेवं क्रान्तिवृत्तदृग्वृत्तस्थलम्बनयोः संज्ञाभेदाभावात्कथं व्यवहार इत्याशङ्कोत्तरं पूर्वापरक्रान्तिवृत्तलम्बनानयनोपजीव्य क्षेत्रसंस्थानकथनच्छलेनाऽऽह—नतिलिप्ता इति। चन्द्र- गोले कदम्बद्वयप्रोतचलवृत्ते सूर्यबिम्बसंबन्धिभूपृष्ठसूत्रसक्तचन्द्रचिह्नवृत्तप्रदेशगते दृग्वृत्त- क्रान्तिवृत्तान्तरयोः कलास्ता नतिकला भुजः। वृत्ते भूगर्भपृष्ठसूत्रयोरन्तरकला दृग्लम्बन- कलाः कर्णः। तयोर्नतिदृग्लम्बनयोर्वर्गान्तरमूलं कोटिः। क्रान्तिवृत्ते चन्द्रचिह्नचलवृत्ता- योरन्तरं स्पष्टलम्बनं कलाः। तथा च संज्ञाभेदाद्व्यवहारे न क्षतिरिति भावः। लम्बनं बत किं का च नतिरिति प्रश्नस्योत्तरमेतत्पर्यवसन्नमिति ध्येयम् ॥२४॥ ननु व(न)तिदृग्लम्बनयोरानयनप्रकाराभावाज्ज्ञानासम्भवेन स्फुटलम्बनज्ञानं तद्वर्गान्तर- मूलेन न संभवतीत्यतो दृग्गर्भसूत्रयोरेक्यादित्याद्यर्धसूचितानुपातेन तयोरानयनमाह— परलम्बनेति। क्षितिजे लम्बनस्य परमत्वेन तत्र त्रिज्यातुल्यदृग्ज्यायाः सत्त्वात्त्रिज्यातुल्य- दृग्ज्यायाः परमा लम्बनलिप्तास्तदाऽभीष्टदृग्ज्यायाः का इत्यनुपातेन दर्शान्तकालीनसूर्य- दृग्ज्यायाः परलम्बनकलाभिर्गुणिता त्रिज्यया भुक्ता याः कला लभ्यन्ते ता इत्यर्थः। दृग्लम्बनकला भवन्ति। एवमुक्तनत्यानयनप्रकारेण दृक्(ग्)क्षेपतो रविदृग्ज्यास्थाने दृव्(ग्)क्षेप- ग्रहणादित्यर्थः। नतिर्भवति। अस्या दृव्(ग्)क्षेपवशादुत्पन्नत्वात्। उभयोर्लम्बरूपतया खमध्येऽभावाच्च। एतेन भूतलमध्यस्थस्य दृष्टुर्भूपृष्ठगतस्य वा दृष्टिः स्वाभिमुखं याति समं न लम्बनं तेन मध्याह्ने इति लल्लोक्तम्। क्षिप्त(त्य)र्घमध्योपगतस्य दृष्टिर्द्रष्टुर्महीपृष्ठग- तस्य च [चैवम्]। समं स्व(ख)मध्याभिमुखी प्रयाति न लम्बनं तेन भवेद्दिनार्धे इति श्रीपत्युक्तं च निरस्तम्। खमध्यस्थानभिन्नमध्याह्नस्थाने कारणाभावाल्लम्बनाभावानु- पपत्तेः। तथा चोभयोरोक्तप्रकारेण सिद्धेः कृत्यन्तरपदं कोटिरित्यनेन स्फुटलम्बनज्ञानं संभवत्येवेति भावः ॥२५॥ ननु तथाऽपि परमलम्बनकलानां ज्ञानादुक्तदोषस्तदवस्थ एवेत्यतः परमलम्बनकलाः कारणपूर्वकं प्रतिपादयति—गत्यन्तरस्येति। सूर्यचन्द्रयोर्यत्कलात्मकं गत्यन्तरं तस्य पञ्च- दशांशः परमलम्बनकला भवन्ति। कुत इत्यत आह—गतियोजनतिथ्यंश इति। गति- योजनानां कल्पकुदिनभक्तखककक्षामितानाम्। पञ्चदशांशो यतो यत्कारणादृष्ट्या(भूभ्या) सार्धमानमुपलभ्यतेऽतस्तदुक्तं युक्तमेव। तथा हि—चक्रं कलाभिरष्टत्रिंशदधिकं चतुस्त्रिं-