सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 484, कुल 723 में से
संदर्भ में पढ़ेंअथोदयास्तवासना । तत्राऽऽदावुदये च दृक्कर्मकारणमाह— क्रान्तिवृत्तग्रहस्थानचिह्नं यदा स्यात्कुजे नो तदा खेचरोऽयं यतः । स्वेषणोत्क्षिप्यते नाम्यते वा कुजात् तेन दृक्कर्म खेटोदयास्ते कृतम् ॥१॥ नैव बाणः कुजेऽसौ कदम्बोन्मुखस्तत्समूत्क्षेपणं नमनं च द्विधा । आयनं चाक्षजं तेन कर्मद्वयं तत्प्रपञ्चः पुनः संविविच्योच्यते ॥२॥ वा० भा०—स्पष्टार्थम् ॥१॥२॥ मरीचिः—अत्रावसरसंगत्या किं दृक्कर्म तथोदयास्तमययोरित्याद्यवशिष्टप्रश्नस्यो- त्तरभूत आरब्धोऽधिकारो व्याख्यायते । तत्र ग्रहणाधिकारोत्तराधिकाराणां पाताधिकार- व्यतिरिक्तानां सर्वस्वभूतस्य दृक्कर्मण उत्पत्तिकारणं किं दृक्कर्मेति प्रश्नोत्तरभूतं स्रग्वि- ण्याऽऽह—क्रान्तिवृत्तग्रहेति । तेन कारणेन । खेटोदयास्ते ग्रहस्य क्षितिजासक्तिस्यपोदयास्त- काल्योः । क्षितिजासक्तिलक्षणेनोदयास्तयोरेकत्वादेकवचनमिति ध्येयम् । दृक्कर्म । ग्रहच्छा- याञ्चकारोक्तं कृतम् । ग्रहे संस्कृतम् । सूचितं कारणमाह—क्रान्तिवृत्तेत्यादि । यतो यत्कारणात् । यस्मिन्काले । क्रान्तिवृत्तग्रहस्थानचिह्नं क्रान्तिवृत्ते यत्र प्रदेशे ग्रहस्थानं तत्र बिम्बाभावात्कल्पितचिह्नं कुजे स्वदेशभूगर्भक्षितिजवृत्ते । समसूत्रतया सक्तं स्यात् । तस्मिन्काले । खेचरो ग्रहः । अयं बिम्बात्मकः । क्षितिजवृत्ते सक्तो न स्यात् । तथा च यदा ग्रहबिम्बं क्षितिजे भवति तदा तद्राश्यादिभोगचिह्नं क्रान्तिवृत्तस्थं न लगति । किंतु तत्प्रागपरभागो लगतीत्युदयास्तलग्नज्ञानार्थं ग्रहे दृक्कर्मसंस्करणमत एवोदयास्तकालयोर्नान्य- त्रेति भावः । ननु सूर्योदये सूर्यतुल्यलग्नस्यान्यथानुपपत्त्या यदा क्षितिजे सूर्यो लगति तदा क्रान्तिवृत्तस्थचिह्नमपीति कल्पनाद्ग्रहत्वाविशेषादितरेषामपीदं तुल्यमिति कथमेतदित्यत आह—स्वेषणेति । स्वचिह्नक्षितिजासक्तिकृत्तिके ग्रहबिम्बं स्वेषुणा क्षितिजात् । उत्क्षिप्यते । ऊर्ध्वप्रवहमार्गे त्यज्यते । नाम्यते । अधस्त्यज्यते । वाकारः कालान्तरविषयव्यवस्थाथकः । अन्यथोन्नामननामने विरुद्धत्वादेककालासंभवे कथं स्याताम् । तथा च सूर्यस्य तथात्वेऽपि चन्द्रादीनां विक्षिप्त(प्र)तया न तथात्रस्थानमेकरूपमिति भावः ॥१॥ ननु शरसत्त्वात्क्षितिजे यत्र ग्रहचिह्नस्थानं सक्तं तत्र ग्रहबिम्बं सक्तं मा भवतु । परं तु ग्रहचिह्नसक्तक्षितिजप्रदेशातद्वृत्त एव शरान्तरेण ग्रहबिम्बं सक्तं कुतो नेत्यतस्तदुत्तरं द्विधेति प्रश्नोत्तरं वदंस्तत्र विस्तृतविचारं स्रग्विण्या प्रतिजानीते—नैव बाण इति । ग्रह- विक्षेपः क्षितिजवृत्ते न भवति । एवकारादुन्मण्डले निरक्षक्षितिजत्वान्न भवतीति शरस्य