सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 502, कुल 723 में से
संदर्भ में पढ़ेंआर्य्याऽऽह—गर्वाद्रसराभसात्परविश्वासात्प्रमादतश्चापि । मुह्यन्त्यपि मतिमन्तः किं मन्दोऽन्यैस्तथा चोक्तम् । मतिमन्तः सुबुद्धयः । अपिशब्दस्तेषां मोहासंभावनायां तत्संभव इति महदाश्चर्यसूचकः । सर्वथा मुह्यन्ति । अध्ययनसमये गुरुणोपदिष्टं स्वबुद्धिवैभवेन झटिति बुद्ध्वाऽहं सुबुद्धिर्यदैव मयाऽवलोक्यं तदैव बुद्ध्या सर्वं निष्काशनीयमिति संजातगर्वादुपेक्ष्य च कालान्तरेऽवलोकनसमये गुरुपदिष्टं विस्मृतं स्वबुद्ध्याऽन्यदेव तन्मौढ्यान्निर्णीतम् । तत्र तस्य मोहे गर्वः कारणम् । अगर्वे च गुरुपदेशानन्तरं तत्कालमेव मुहुस्तद्भावनाभि- स्तद्दृढसंस्कारादविस्मरणात्तीक्ष्णबुद्ध्या तदधिकस्फुरणाच्च मोहासंभवः । रसराभस्यात् । ग्रन्थकर्तृत्वेन लोके कीर्त्यातिशयदर्शनाद्ग्रन्थकरणे प्रवृत्तस्य झटित्ययं ग्रन्थो भवत्वित्यभि- [L9