सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 512, कुल 723 में से
संदर्भ में पढ़ें४१० गोलाध्याये श्चीनतामात्रेणोपस्थितौ कथमुक्तं निर्णीहिदिति चेन्न। पूर्वापरयाम्योत्तरान्तरानुसारितिर- श्चीनतालाभे कराणामनुसरणीयवस्तुन्नतभागकृते प्रतिबिम्बावधि संनिभत्वेन घटादेरात- पप्रदेशोपस्थापनेन बालैरपि ज्ञायमानत्वात्। अपि च सकलं गोलार्धमुज्ज्वलं न स्यात्। प्रतिबिम्बस्याल्पप्रमाणत्वात्। ननु तथात्वे तस्य का, उपपत्तिरिति चेन्न। यथा तडागे लघुतरमण्यादौ चाणुत्तरो भागविशेष एव प्रति बिम्बसंभवेनोज्ज्वलतामुपगच्छति न तु तेषा- मर्धेऽपि तद्वत्प्रकृतेऽपि तथा कथं न भवेदिति। प्रकृते तथैवो पगमेनेष्टापत्तिरिति चेन्न पौर्ण- मास्यन्तेऽखिलदृश्यतैव संपद्यत इति। तथा च सिद्धान्तसुन्दरे—भानुश्चेत्प्रतिबिम्बितो जलमये शीतांश्रुगोले दिवा निस्तेजा निशि सुप्रभः कथमथो किं सूर्यबिम्बासमः: गोलार्धं रविसो(णो)ज्ज्वलं च सकलं न स्यात्तडागे यथा मासार्धेखिलदृश्यतेति गणकाञ्ज्ञाना- ह्वयः पृच्छतीति। केचित्तु—सुराः सुधामण्डलमपिबन्ति दिनेषु कृष्णप्रतिपन्मुखेषु। तदेव सत्यं न भवेत्वार्थं वा पुराणवेदागमशास्त्रमूलम्। नवो नवोऽयं भवतीति जायमानोऽह्नि केतुः सद्द्योऽधर्मेत्य। भागं च देवेषु ददाति चन्द्रः सुदीर्घमायुस्तिरते तथैव। वेदे सुराः सूर्यकराः प्रसिद्धास्त एव पृच्छन्ति कलाक्रमेण। सितेऽसिते ते क्रमतो हरन्ति तदैकवाक्य- त्वमिदं मतं चेत्याहुः ।। ४ ।। अथ प्रसङ्गात्स्पष्टो भुजो भवति चन्द्रभुजांश इन्दोरित्यादिना शृङ्गोन्नत्यधिकार आनीतं क्षेत्रं मन्दाक्रान्तया गोलशुक्लमागविबोधकं प्रदर्शयति—यद्याम्योदगिति। सूर्यचन्द्रयोर्दक्षिणोत्तरमन्तरं स्वभुजसंस्कारजं यत्संख्याकं भवति तन्मितोऽत्र शृङ्गोन्न- त्युपजीव्यजात्यत्यस्रे भुजः स्यात्। तुकारात्सूर्यचन्द्रयोरूर्ध्वाधरं, अपि शब्दादन्तरं कोटिः। तयोः सूर्यचन्द्रयोश्चकारादन्तरं तिरश्चीनम्। यतस्तद्भुजकोटिवर्गैक्यमूलरूपम्। स तन्मितः कर्ण इति क्षेत्रम्। नन्विदमसंगतं तयोः केवलं याम्योत्तरान्तरस्योर्ध्वाधरान्तरस्य चासिद्धेः। बिम्बयोस्तिर्यगन्तरस्य कर्णत्वे भुजकोटिसंबन्धाभावाच्चेत्यत आह—दोर्मूल इति। सूर्यो भुजस्य मूले। चन्द्रो यदिहि सूर्यादुत्तरे दक्षिणे वा तद्दिशीत्यर्थः। भुजस्याग्रम्। अग्रा- त्कोटिश्चकाराद्दण्डरूपेति ब्रह्मगुप्तोक्ततिरश्चीनकोटेन्निरास इति सूचितम्। तदग्रे कोटयग्रे। चन्द्रबिम्बकर्णो रविंदिक्चन्द्रबिम्बप्रतिफलनयोग्यसूर्यबिम्बमध्यभागस्थकिरणमार्गः कर्ण इत्यर्थः। तथा च सूर्याधःशङ्कोश्चन्द्रोर्ध्वशङ्कोरधिकस्तदा चन्द्रशङ्कुमूलात्सूर्याधःशङ्कुतुल्यं सूत्रं तथैवावलम्बयेत्सा कोटिश्चन्द्रादवलम्बरूपा शङ्क्वैक्यमिता कोटिमूलसूर्यबिम्बयोस्तिर्यं- गन्तरसत्त्वेऽपि तयोर्याम्योत्तरान्तरं स्पष्टभुजतुल्यसूत्रं कोटिमूलाद्भुजो रवितश्चन्द्रस्य भुजा- न्तरत्वात्सूर्यो भुजमूले पूर्वापरान्तरसत्त्वेऽपि याम्योत्तरान्तराभावादविरुद्धो भुजमूलचन्द्रबिम्ब- योरन्तरं कर्णः। एवं सूर्याधःशङ्कोश्चन्द्रोर्ध्वशङ्कुरुनस्तदाऽधोग्रं शङ्कमूलसक्तं चन्द्रशङ्कु- तुल्यं सूत्रं तदनुसारमूर्ध्वं धार्यं सा शङ्क्वैक्यरूपा कोटिः सूर्यादूर्ध्वावलम्बरूपा। कोटिमूल- चन्द्रबिम्बयोस्तिर्यगन्तरसत्त्वेऽपि स्पष्टभुजतुल्यं सूत्रं कोटिमूलाद्भुजः। अत्रापि पूर्वापरान्त- रसत्त्वेऽपि याम्योत्तरान्तराभावाद्भुजाद्भुजाग्रे चन्द्रः। भुजाग्रसूर्ययोरन्तरं कर्ण इति क्षेत्रं गोले प्रत्यक्षमिति भावः। नन्व त्क्षेत्रस्य प्रयोजनं किमत आह—अनयेति। तेन। यतः कर्णो