सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 518, कुल 723 में से
संदर्भ में पढ़ें४१६ गोलाध्याये अथ प्रथमं गोलयन्त्रमाह— अपवृत्तगरविचिह्नं क्षितिजे धृत्वा कुजेन संसक्ते। नाडीवृत्ते बिन्दुं कृत्वा धृत्वाऽथ जलसमं क्षितिजम् ॥३॥ रविचिह्नस्य च्छाया पतति कुमध्ये यथा तथा विधृते। उडुगोले कुजबिन्द्वोर्मध्ये नाड्यो द्युयाताः स्युः ॥४॥ वा० भा०—यथोक्तविधिना खगोलान्तर्भगोलं तत्र क्रान्तिवृत्ते मेषादोरारभ्य र४भुक्ताराशिभागाद्यं दत्त्वा तदग्रे यच्चिह्नं तदपवृत्तगरविचिह्नमुच्यते । भगोलं चालयित्वा रविचिह्नं क्षितिज धार्यम् । तथा धृते सति क्षितिजं प्राच्यां विषुवन्म- ण्डले यत्र लग्नं यत्र खटिकया बिन्दुः कार्यः। ततः क्षितिजवृत्तं जलसमं यथा भवति तथा गोलयन्त्रं स्थिरं कृत्वा भगोलस्तथा चाल्यो यथा रविचिह्नस्थ च्छाया भूगर्भे पतति । तथा कृते सति विषुपद्वृत्ते क्षितिजबिन्द्वोर्मध्ये यावत्यो घटिका- स्तावत्यस्तस्मिन् काले दिनगता ज्ञेयाः। अपवृत्ते मेषादेरारभ्य प्राक्क्षितिजपर्यन्तं यद्राशिभागाद्यं तल्लग्नं ज्ञेयम्। इतिगोलयन्त्रम् ॥ ३ ॥ ४ ॥ मरीचिः—अथ गोलबन्धोक्तविधिना सिद्धदृष्टान्तगोलस्यैव गोलयन्त्रत्वसिद्धेस्तद्यन्त्रा- त्प्रथमोद्दिष्टात्कालज्ञानं गीत्यार्याभ्यामाह—अपवृत्तगरेति। अपवृत्तगरविचिह्नम्। खगो- लान्तर्भगोलस्थक्रान्तिवृत्ते मेषादेस्तत्कालिकस्पष्टार्कभोगं दत्त्वा कृतचिह्नमित्यर्थः । क्षितिजे। खगोलबद्धक्षितिजप्राग्भागसमसूत्रे। कृत्वा। भगोलप्रचालनेन संपादयेत्यर्थः। तदानीं कुजेन क्षितिजवृत्तप्राग्भाप्रदेशेन। संसक्ते समसूत्रतया संलग्ने। नाडीवृत्ते। विषु- वद्वृत्तप्रदेशे बिन्दुचिह्नं कृत्वा। अथ तदनन्तरम्। जलसमं जलं यथा समानमस्ति नोच्चा- वचं तद्वत् । क्षितिजं खगोलबद्धक्षितिजवृत्तं यथा स्यात्तथा खगोलान्तर्गतभगोलरूपं गोलयन्त्रं धृत्वा। ऊर्ध्वाधःस्वस्तिकयोः परमोच्चनीचतासंपादनद्वारा कृत्वेत्यर्थः । अन- न्तरम् । रविचिह्नस्य। भगोलस्थक्रान्तिवृत्तसूर्यचिह्नस्य । आकाशस्थसूर्यबिम्बजनिता छाया कुमध्ये। भगोलााश्रयभूतयष्टिमध्यप्रोतशिथिलभूगोलमध्यगर्भे यथा पतति तदाऽयं ( ग्रं ) भवतीत्यर्थः। तथा भ्रमणेन। उडुगोले गले विधृते सति । कुजबिन्द्वोर्विषुवद्वृत्ते खगोलबद्धक्षितिसमसूत्रेण यत्स्थानं तत्कुजम्। बिन्दुविषुवद्वृत्ते पूर्वं क्षितिजसससूत्रेण कृतं चिह्नं तयोरित्यर्थः । मध्ये। अन्तराले विषुवद्वृत्तप्रदेशे। अङ्किता घटचो दिनस्य गता भवन्ति। विषुवद्वृत्ते षष्टिवटीनावडीकतत्वात् । अत्रोपपत्तिः—अपवृत्तगरविचिह्नं क्षितिजे कृत्वेत्यनेन सूर्योदयकालिका गोलस्थितिरुक्ता। ततः प्रवाहानिलशेन सूर्यगमनेन दिनगत- कालवयवानामुत्पत्तेः । तत्र ततः सूर्यबिम्बस्योर्ध्वगमनेन स्वाभीष्टकाले सूर्याधिष्ठितद्यु- रात्रवृत्ते क्षितिजसमसूत्रसक्तद्युरात्रप्रदेशसूर्यबिम्बकेन्द्रयोरन्तरे या अङ्किता घटद्यो दिन- गतघटचो द्युरात्रवृत्तस्य षष्डिघट्यङ्कितत्वात् । अत्रापि क्रान्तिवृत्ते प्रतिप्रदेशं द्युरात्रवृत्ता-