भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 527, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 527

तत्राभीष्टपरिधिस्थाने शिथिला शृङ्खला नियोज्येत्यर्थः । आधारस्थानादुभयतस्त्रिभे नवत्यं- शान्तरे । धात्री । भूमिः । कल्प्या । भार्धे चकारादाधारस्थानात् षड्भान्तरेऽशीत्यधिकशत- भागान्तरे खार्धं खमध्यं चकारात्कल्प्यम् । आधारात्खमध्यावध्यूर्ध्वाधरा रेखा कार्या । तन्मध्याद्भूस्थानावधि रेखा कार्येत्यपि चार्थः । तन्मध्ये चक्रयन्त्रकेन्द्रे । सूक्ष्माक्षम् । सूक्ष्मच्छिद्रं विधाय सूक्ष्मकीलं क्षिप्त्वा यथा तच्छाया चक्रपरिधौ स्पृशति तथा दत्त्वेत्यर्थः । इदं चक्रयन्त्रम् । आधारशृङ्खलायां सूर्याभिमुखपरिधिकं यथा स्यात्तथा धार्यम् । तत्र तादृशावस्थितचक्रयन्त्रे । अक्षच्छायया । केन्द्रप्रोतकीलस्य च्छायया । भूमिस्थानाच्चे भुक्ता अंशास्ते उन्नतांशाः । कीलच्छायातादासन्नभूमिस्थानयोः परिधौ यदंशात्मकासन्नान्तरं ते नतांशा इत्यर्थः ।

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या) · पृष्ठ 527, कुल 723 में से · BharatKosha