सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 554, कुल 723 में से
संदर्भ में पढ़ें४५२ गोलाध्याये ऽङ्गुलानि गणयित्वाऽग्रे चिह्नं कार्यम् । तत्र या ज्यारेखा तस्यां रेखायां पट्टीस्थित- यष्टिचिह्नं यथा लगति तथाऽक्षप्रोतैव सा पट्टी धार्या । पट्टीस्थाने तस्मिन् काले- ऽक्षस्यच्छाया पतिष्यतीति ज्ञेयम् । अत्रोपपत्तिः—कथितप्रकारवैपरीत्येन । यदस्य यन्त्रस्य नवत्यङ्गुलविस्तारस्त- द्द्विगुणं दैर्घ्यमुक्तं तत्सर्वदेशाभिप्रायेण । अथवा यावदेव स्वदेश उपयोगि तावदेव बुद्धिमता कार्यम् । तद्यथा—वृत्तमध्यरन्ध्रादुपरि परमचरज्यामिता रेखाष्टाध- श्चाष्टत्रिंशत् । एवं षट्चत्वारिंश४६दङ्गुलानि विस्तारे । परमयष्टिमित्यान्य- ङ्गुलानि द्विगुणानि षट्सप्ततिर्देर्घ्ये ७६। एतावता कुरुक्षेत्रपर्यन्तं यावत्काल- ज्ञानं स्यात् । इति फलकयन्त्रम् ॥२७॥ मरीचिः—अथैतस्य यन्त्रस्य शुद्धाशुद्धत्वज्ञानार्थं कालच्छायाग्रस्थानज्ञानं मन्दकुतूहल- कारणं मन्दाक्रान्तयाऽऽह—लम्बाद्वयेति । अस्मिन्यन्त्रे लम्बालम्बरेखावृत्तसंपातादधस्त- नादित्यर्थः । विनतघटिकाः । स्वाभिमतकालिकनतः तद्य चो(नतादधो)वृत्तपरिधौ छाया- पतनयोग्ये देयाः । घटिका गणयित्वा तदग्रे वृत्ते चिह्नं कार्यमित्यर्थः । तज्ज्याकाः । तच्चिह्न सक्ताङ्कितायतरेखातः । रेखाभावे कल्पिततस्थानीयान्तररेखात इति ध्येयम् । चरज्याऽङ्गुलात्मिका । व्यस्ता । उपरि फलकेऽधश्च गोलक्रमेणेत्युक्ताद्विपरीता । फलके उत्तरगोलेऽधो दक्षिणगोले ऊर्ध्वमित्यर्थः । देया । तत्र तदग्रस्थाने या अपरा अन्या । अपरेति । चरज्यासम्भवे । तदभावे सैवेति ध्येयम् । मौर्वी फलकायतरेखा तथाऽङ्किता । चकारात्कल्पिता वा भवति । तां तद्भिन्नज्यां रेखामित्यर्थः । पट्टी एकाशीत्यङ्गुल- दीर्घाऽक्षप्रोता यष्टिचिह्ने यथा स्पृशति पट्टीस्थितयष्टिचिह्नं तद्रेखायां यथा भवति तथा । हि निश्चयेन । पट्टी छायापतनयोग्यफलकभागे धार्या तदा दत्तनतघटिकासंबन्धिखाभि- मतकाले अस्य वृत्तकेन्द्रप्रोतस्याक्षस्य पट्टोस्थाने तदप(त्प)ट्टिसमफलकप्रदेशे प्रभा छाया नूनमसंशयं निपतति भवतीत्यर्थः । अत्रोपपत्तिः—नतकालसंबन्धिवृत्तपरिच्छेदिन्या आयतरेखाया ज्ञानार्थं वृत्ते लम्ब- रेखासंपातान्नतघट्यो दत्ताः । अस्य यष्ट्यग्रादुत्तरदक्षिणगोलक्रमेणोर्ध्वाधःस्थितत्वाद्- यष्ट्यग्रसक्तायतरेखाज्ञानार्थं चरज्या व्यस्ता दत्ता । तद्रेखासक्तयष्ट्यग्रसंपादनपूर्वकम्- क्षप्रोतपट्टीधारणेन च्छायाग्रस्थानासन्ना पट्टी भवतीति पट्ट्यनुरोधच्छाया पतत्येवेति पूर्वोक्तवैपरीत्यात्सुगमता इयं विलोमक्रिया यन्त्रशुद्ध्यर्थम् । अशुद्धयन्त्रेऽभीष्टकालावगत- च्छायास्थाने तत्काले छायाया अदर्शननिश्चयात् । ननु कालस्य शुद्धयर्थं यच्छायाग्रस्थाना- दशुद्धकालसिद्धिस्तत्कालाद्वैपरीत्येन तच्छायायाः सिद्धेः कालाशुद्ध्य(द्धि)ज्ञानसंभवात् । यन्त्रशुद्धिरपि साधितकालस्य शुद्धत्वज्ञाननिश्चयार्थमत्यावश्यकेति नतकालच्छायास्थानज्ञान- प्रतिपादकपद्यमेतन्न व्यर्थमिति ध्येयम् ॥२७॥ केदारदत्तः—फलकं यंत्र का शुद्धाशुद्ध परीक्षण— अधस्तन वृत्तसम्पात से ऊर्ध्व वृत्त सम्पात तक नत घटिकाओं की गणना बिन्दु से