सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 591, कुल 723 में से
संदर्भ में पढ़ेंयन्त्राध्यायः ४८९ वेधविस्तारं भ्रमयन्त्रेण परिधिरूपतया खनित्वेत्यर्थः । तदुपरि । परिध्याकारस्थितच्छि- द्रोपरि समन्तात् । तालदलाढ्यम् । तालपत्रभूर्जपत्रादिकम् । मदनेन । मधूत्थेन । महाराष्ट्र- भाषा ‘मेण’ इति प्रसिद्धं तेनेत्यर्थः । मदनेनेति सचिक्कणवस्तूपलक्षणम् । संलग्नं कृत्वा । खनितभागमाकाशावकाशं मुद्रयित्वेत्यर्थः । सुषिरे । नेम्यूर्ध्वभागस्थतालपत्रे सूच्यादिवेधेन संपादितच्छिद्रे । रसं पारदं क्षिपेत् । तावत्त्परिमितम् । नेम्यामेकस्मिन्भागे ऊर्ध्वाधरे छिद्रेण पारदो देय इत्यर्थः ॥५१॥ तत्प्रमाणमाह—यावदिति । यावत्पर्यन्तं रसैकपार्श्वे पारददत्तनेमिभागदितरनेम्यूर्ध्वा- धरभागे । क्षिप्तजलं तच्छिद्रमार्गेण दत्तजलम् । अन्यतः पारदसंबन्ध्यूर्ध्वाधरनेमिभागे न