सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 592, कुल 723 में से
संदर्भ में पढ़ें४९० गोलाध्याये नेम्यां बद्ध्वा घटिकाश्चक्रं जलयन्त्रवत्तथा धार्यम् । नलकप्रच्युतसलिलं पतति यथा तद्घटीमध्ये ॥५५॥ भ्रमति ततस्तत् सततं पूर्णघटीभिः समाकृष्टम् । चक्रच्युतं तदुदकं कुण्डे याति प्रणालिकया ॥५६॥ वा० भा०-ताम्रादिधातुमयस्याङ्कुशरूपस्य वक्रीकृतस्य नलस्य जलपूर्ण- स्यैकमग्रं जलभाण्डेऽन्यदग्रं बहिरधोमुखं चैकहेलया यदि विमुच्यते तदा भाण्डजलं सकलमपि नलेन बहिः क्षरेत् । तद्यथा—छिन्नकमलस्य कमलिनीनलस्य जल- भृद्भाण्डे क्षिप्तस्य जलपूर्णसुषिरस्यैकमग्रं भाण्डाद्बहिरधोमुखं द्रुतं यदि ध्रियते तदा भाण्डजलं सकलमपि नलेन बहिर्याति । इदं कुक्कुटनाडीयन्त्रमिति शिल्पिनां हरमेखलिनां च प्रसिद्धम् । अनेन बहवश्चमत्काराः सिद्ध्यन्ति । अथ चक्रनेम्यां घटोर्बद्ध्वा जलयन्त्रवत् द्वयाधाराक्षसंस्थतं तथा निवेशयेद्यथा नलकप्रच्युतजलं तस्य घटोमुखे पतति । एवं पूर्णघटोभिराकृष्टं तद्भ्रमत् केन निवार्यते । अथ चक्रच्युतस्योदकस्याधःप्रणालिकया कुण्डगमने कृते कुण्डे पुनर्जलप्रक्षेपनैर- पेक्ष्यम् ॥५३॥५४॥५५॥५६॥ मरीचिः—नन्विदमपि नेम्यर्धयोः पारदजलयोरेकच्छिद्रेण संनिवेश्यातिशिल्पकुश- लैकसाध्यत्वात्साधारणाशक्यमतः सर्वशक्यलघुभूतप्रकारेण स्वयंवहमाह—ताम्रादिधातु- मयेति । ताम्रादिधातुघटितस्य । अङ्कुशरूपनलस्य चक्रीकृतनलस्य जलपरिपूरितस्य एकमग्रम् । कुण्डजलान्तः । भाण्डस्थितजलमध्ये । द्वितीयमग्रम् । अधःप्रदेशाभिमुखम् । भाण्डस्थित- जलान्तर्गतनलाग्रादधोमुखम् । भाण्डाद्बहिः कार्यम् । तुकाराद्यथाऽधोमुखाधिक्यं तथा तथाऽल्पकालेन जलस्रवणमिति सूचितम् । चेद्यदि । युगपदेकसमयावच्छेदेन । मुक्तम् । नलस्थितजलस्याग्रद्वयरोधो दूरीकृत इत्यर्थः । तर्हि भाण्डाद्बहिः । कम् । भाण्डस्थितजलम् । नलेन । नलमार्गेण पतति । अत्र जलान्तर्गतनलाग्रमेव प्रथममुक्तं तर्हि जलप्रवाहस्य नलिकान्तर्गतस्याधोमुखा- ग्रच्छादनावरोधाद्बहिर्गमनासम्भवान्नलस्थितजलं भाण्डस्थितजलेनाऽऽकर्षितमित्यनन्तरमधो- मुखाग्रच्छादने दूरीकृतेऽपि जलं न निःसरति । अधोमुखाग्रमेव प्रथममुक्तं चेत्तर्हि नलस्थ- जलं केवलं पतति । भाण्डजलनलसंबन्धाभावादनन्तरं भाण्डजलान्तर्गतनलिकाग्रमुक्तमपि जलमार्गेण भाण्डस्थजलस्यप्रवाहासंभव इत्यतो नलस्थितजलस्योभयतो युगपत्प्रतिबन्धनि- राकरणं युक्तम् । छिन्नकमलिनीनलस्य जलपूर्णसुषिरस्य जलभूतभाण्डाक्षिप्तस्यैकमग्रं भाण्डाद्बहिरधोमुखं दृढं यदि ध्रियते तदा भाण्डजलं सकलमपि बहिः पततीति प्रत्यक्षानु- भवाच्च ॥५३॥५४॥