सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 597, कुल 723 में से
संदर्भ में पढ़ेंअथ ऋतुवर्णनाध्यायः अथ ऋतुवर्णनमाह— उत्फुल्लन्नवमल्लिकापरिमलभ्रान्तभ्रमद्भ्रामरे रे पान्थाः कथमव्यथानि भवतां चेतांसि चैत्रोत्सवे । मन्दान्दोलितचूतनूतनघनस्फारस्फुरत्पल्लवै- रुद्वेलन्नववल्लरीष्विति लपन्त्युच्चैः कलं कोकिलाः ॥१॥ स्वकुसुमैर्मलिनामिव मालतीमवहसन्ति वसन्तजमल्लिकाः । उपवनं विनिवारयतीव ताः किसलयैर्मलयानलकम्पितैः ॥२॥ विहाय सौधं तृणकुडचमण्डपे प्रसिच्यमाने सलिलैः समन्ततः । शुचौ रमन्ते विरलं विलासिनः प्रियाजनैः सीकरसेचनोन्मुखाः ॥३॥ निदाघदाहार्तिविघातहेतवे वनाय कामोच्छ्रितचूतकेतवे । व्रजन्ति वापीजलकेलिलालसाः शुचौ रतिस्वेदगलज्जलालसाः ॥४॥ मदनदहनखिन्नामागतेऽप्येत्य काले परिमलवहलानां मालतीनां नदीनाम् । अदय दयित सिञ्चस्याऽऽत्मदृग्वारिणा किं परिमलबहलानां मा लतीनां न दीनाम् ॥५॥ वा० भा०— वर्षाकाले हृदयस्थमदयं दयितं प्रति विरहिणी किलैवं ब्रूते । हे दयित निर्दय।स्मिन्नप्यागते काल एत्याऽऽगत्य किं न सिञ्चसि । काम् । मा इति माम् । कथंभूताम् । मदनहनखिन्नाम् । कामाग्निदाहाकुलाम् । पुनः किविशिष्टाम् । दीनाम् । केन । आत्मदृग्वारिणा स्वदृक्सलिलेन । कासां संबन्धिनि काले । नदीनाम् । कथंभूतानाम् । परिमलबहलानाम् । परि समन्तात् । मलबहलानाम् । न केवलं तासाम् । मालतीनामपि । परिमलबहलानामामोदबहलानाम् । न केवलं तासामपि । लतीनामिति रतीनाम् । तासां च परिमलबहलानाम् । तत्र परस्य भावः परिमा । परिम्णो लवः परिमलवः । तं हरन्तीति परिमलबहराः । तासां परिमलवहराणाम् । रलयोर्बवयोश्चैक्यस्य श्लेषे तु गृहीतत्वात् । मानिनीनां