सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 627, कुल 723 में से
संदर्भ में पढ़ेंन्यम् । अप्रतिभम् । एति प्राप्नोति । अपिशब्दात्काव्याद्यर्थश्रवणेन सुखानुभवादधिकं प्रफुल्लितं मुखं भवत्यत्र तु विपरीतमित्याश्चर्यं सूचितम् । तथा च प्रश्नश्रवणेनान्येषाम- प्रतिभात्वसंभवादर्थसिद्धा स्वप्रौढिरिति भावः । ननु प्रश्नश्रोतुः पूर्वोक्तज्ञानाभावाद्ध्रुवमेवाप्रतिभत्वमिति नैतावता प्रौढिसिद्धिर- तस्तस्येत्यस्यापेक्षितमाह—अखर्वेत्यादि । यः श्रोता । अत्र पूर्वोक्तग्रन्थे । अखर्वकुगर्वपर्वत- शिरः । प्रौढ्या । अखर्वो दीर्घो यः कुगर्वः कुत्सितगर्वः । महत्त्वारसिकत्वात् । स एव पर्वतस्तस्य शिरस्युपरि प्रकर्षेणोढिरारोहणं तया । अधिरूढः । अधिकमत्यन्तं प्रसिद्धः । तथा च परः पूर्वोक्तग्रन्थतत्त्वज्ञानेऽप्यप्रतिभः प्रश्नश्रवणाद्भवतीति स्वप्रौढिः सिद्धेति भावः ॥१॥ ननु पूर्वं प्रश्नात्रया (श्ना