भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 648, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 648

५४६ गोलाध्याये तेषामैक्यं भूशैलेन्दुखखाभ्रषट्करयुगाष्टाब्ध्यङ्ग ६४८४२६०००१७१ तुल्यं कृताष्टाष्टिगोब्ध्यादिभि ८६३३७४४९१६८४ गुणितं जातम् ५५९८३४४६८२३२- ३२६४.२०७७९६४ । व्येकचन्द्राहै १६०२९९८९९९९९९ भक्तं लब्धम् ३४९२४- १९३२३३६ । जातोऽवशेषमितो गतेन्दुद्युगणः १०३०० । अस्मात् प्राग्वदवमानि १६१ । अवमशेषं च २६७४२६०००००० । सावनाहर्गणश्च १०१३९ । अथ पृथग्गतेन्दुद्युगणोऽधिमासैर्गुणितो युगेन्दुदिनैर्भक्तो लब्धं गताधिमासाः १० । अधिमासशेषं च ३८१००००००००० । लब्धाधिमासैर्दिनीकृतै ३०० रुन इन्दु- द्युगणः १०३०० । सौराहर्गणो भवति १०००० । अतः कल्पगतम् । सप्तविंशति २७ वर्षाणि । नव ९ मासाः । दश १० दिनानि । अस्योपपत्तिर्बीजगणितेन । एको हरश्चेद्गुणकौ विभिन्नावित्यादिना । कथ- मस्य विषय इति चेत् । उच्यते । गतसौरदिनेभ्यो यावन्तोऽधिमासा यच्च शेषं गतचन्द्रदिनेभ्योऽपि तावन्त एव भवन्ति तावदेव चावशेषम् । अवमान्यवमशेषं च चन्द्रदिनेभ्य एव सिध्यति । अतस्तयोः शेषयोश्च योग उदाहृते युगाधिमासावम- योगो गुणो युगेन्दुदिनानि हरः । गतेन्दुदिनप्रमाणं यावत्तावत् १ । तद्गुणेन गुणितं हरेण भक्तम् । तत्र लब्धिप्रमाणं कालकः १ । तद्गुणितं हरं गुणकगुणिता- द्यावत्तावतो विशोध्य जातं शेषम् । या २६६७५८५०००० का १६०२९९९०००० ०० । एतदधिमासावमशेषैक्यम् । यो लब्धः कालकः १ स गताधिमासावमाना- मैक्यम् । तच्छेषे यदि क्षिप्यते तदा चतुर्णां योगः कृतो भवति । या २६६७५८- ५०००० का १६०२९९८९९९९९९ । अस्य चतुर्णां योगस्योद्दिष्टयोगेन समोकरणे क्रियमाणेऽधिमासावमयोगो भाज्यः । व्येकेन्दुदिनानि हरः । उद्दिष्टयोग ऋणक्षेपः । एवं सति लाघवार्थं रूपशुद्धावाचार्येण स्थिरः कुट्टकः कृतः । स च कृताष्टा- ष्टीत्यादि ॥१२॥ मरीचिः—नन्विदमानयनं सौरार्यभट्ठादिपक्षसिद्धतद्युतिग्रहणे व्यभिचरत्यतो मन्दा- वबोधैकतदुदाहरणप्रदर्शनच्छलेन भुजंगप्रयातेन तन्निरस्यति—नगाङ्गाभ्रेति । यदा यस्मिन्कालेऽधिमासादिप्रागुक्तचतुर्णामैक्यं सप्तरसखाभ्रशराब्धिशक्राक्षतत्त्वार्कसमं ब्रह्मपक्षे जायते । तदानीम् । तस्मिन्काले हे कुट्टकज्ञ । एतेन प्रश्नश्लोके संश्लिष्ट- स्फुटकुट्टकादिविदारणोक्त्योत्तरं केवलाव्यक्तरीत्याऽस्तीति कस्यचित्प्रतिभानं निरस्तम् । अन्यथा संश्लिष्टस्फुटेत्यस्यानुपपत्तेः । दिनैः सौरचान्द्रसावनदिवसैः । प्रक्रियां सूर्यस्य क्रियाम् । गतदिनात्मकसूर्यक्रियारूपकालोपाधिम् । दिनगणानिति यावत् । प्रचक्ष्व वद । ब्रह्मपक्ष इत्यनेन सौरार्यपक्षसिद्धयुतेरेतदानयनेनासिद्धिरस्यानयनस्य ब्रह्मपक्षसिद्धकल्पो- क्ताधिमासावमचान्द्रदिनेभ्य उपपत्तौ सिद्धत्वादतोऽस्मिन्नानयने ब्रह्मपक्षेतरपक्षाणामलक्ष्य- त्वान्न व्यभिचारः । तत्पक्षयुतौ तु तत्तत्पक्षे आनयनं कार्यमुक्तनयनरीत्येति ध्येयम् । उदाहरणोत्तरं च धूलीकर्मणा सुज्ञेयम् ॥१२॥

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या) · पृष्ठ 648, कुल 723 में से · BharatKosha