भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 651, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 651

प्रश्नाध्यायः ५४९ अत्रोपपत्तिरेको हरश्चेद्गुणकौ विभिन्नावित्यनेनैव। अत्र गुणकाविति द्विवचनमुपलक्षणार्थम्। तेन बहुगुणानामेक्यं गुणो भवति। अग्राणामैक्यमग्रम्। तद्यथा। रूपमहर्गणं प्रकल्प्य ग्रहाणां चक्रादिशेषाण्यानीय तेषामैक्यं युगाबमयुतं भाज्यः कल्प्यः। कुदिनानि हरः। उद्दिष्टषट्त्रिंशच्छेषाणां योग ऋणक्षेपः। एषां भाज्यहारक्षेपाणां चतुर्भिरपवर्तः कृतः। ततो लाघवार्थं रूपशुद्धौ लब्धं रामनखा- द्रौत्यादिस्थिरकुट्टकः कृतः॥१३।१४।१५।१६॥ मरीचिः—नन्वत्र ब्रह्मपक्ष इत्यनेन शाकल्यसंहितोपस्थित्या तत्सिद्धद्युतिग्रहणे व्यभि- चारस्तदवस्थः। नहि तदतिरिक्तो ब्रह्मणा कृतः पक्षो लोके प्रसिद्धः। किंच सशेषाधिमा- सावमैक्यमित्यत्राधिमासावमशेषाभ्यां युतगताधिमासानां युतगतावमानां च योग इति प्रती- तेरप्युदाहरणं संदिग्धं, दिनैः प्रक्रियेत्यादि च न समीचीनमित्यस्वरसादुदाहरणान्तरं स्फुटशार्दूलविक्रीडितेनाऽऽह—ये याताधिकमासेति। अवेक्ष्येत्यन्तं प्रश्नश्लोके व्याख्यातम्। तेनात्र न संदिग्धता। जिष्णुजकृतात्। ब्रह्मगुप्ताचार्यविरचिताच्छास्त्रात्स्फुटसिद्धान्तात् ब्रह्मगुप्तसिद्धान्तस्य (शा० ५५०) लोके प्रसिद्धत्वात्तत्पक्षस्यैव ब्रह्मपक्षत्वं न शाकल्यसंहिताया इति भावः। यथा यत्। अहर्गणानयनेन। आगतं सिद्धम्। एवकारात्तदतिरिक्तं चतुरन्यतमं पक्षान्तरसंबन्धि न गृहीतमिति सूचितम्। तत्कियदत आह—भूशैलेत्यादि। एतदङ्कतुल्यं तेषामैक्यम्। यदा यस्मिन् समये। अज्ञाते त्वदज्ञाते इत्यर्थः। तदा तस्मिन्काले यो गणकः कल्पगतं कल्पादित इष्टकाले वर्षादिदिनान्तात्मकं सौरचान्द्रसावनाहर्गणत्रयम्। सौरदिनेभ्यो वर्षज्ञानं सुलभमेवेत्यर्थः। वदति। आनयनेन कथयति। उत्तरदो गणकः। ब्रह्मसिद्धान्तवित् ब्रह्मगुप्तकृतब्रह्मस्फुटसिद्धान्तज्ञः। भवति। एतत्पद्यदर्शनात्पूर्वोक्तमुदाहरणपद्यं क्षेपकमित्यवगम्यते। अन्यथाऽऽचार्यैः प्रश्ना- ध्यायभाष्ये तदुदाहरणस्योत्तरगणितमेतदुदाहरणगणितलिखनवल्लिखितं स्यात्। यथा तेषां युतिः। ६४४८४२६०००१७। कृताष्टष्टीत्यादिभिरेभिः ४६३३७४४- ५१६८४ गुणितं जातं वेदाऽङ्गोद्रथाद्रिखाकृतिवेदाऽङ्गदन्तद्वयडङ्कदह्वश्रगजाइ्गवेद्वयुग- वेदरामाष्टगोपञ्चशरैर्मितं ५५९८३४४४४६८०२९२३२६४२२०७७९६४ व्येकचन्द्राह्र १६०२९९४९९९९९९ भक्तं फलं रसदेवदन्तनन्देन्दुवेदयुगराममितं ३४४१९३२३३६ शेषं च प्रयुतघ्नात्कृतियुगायुत्कृतिमितं २६७४२६०००००० सावनाहर्गणस्य १०१३९। अथ चान्द्राहर्गणात्पृथगथाधिकमाससमाहताद्विधुदिनाप्तगताधिकमासकैरित्यधिमासा दश १०। अधिमासशेषं चाजगुणितकुगजाग्निभितं ३८१०००००००० सौराहर्गणः १००००। अतः कल्पगतं सप्तविंशतिवर्षाणि नव मासा दश दिनानि ॥१३॥ २७ ९ १०। अथ कुट्टकोत्तरसंबन्धिमहत्प्रश्नं शार्दूलविक्रीडिताभ्यामाह—चक्राग्राणीति। षट्- त्रिंशदिति च।