भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 652, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 652

५५० गोलाध्याये तानि अग्राणि । शेषाणि षट्त्रिंशत्संख्याकानि । एतेन षट्त्रिंशन्न्यूनाधिकशेषाणां योगाद्वक्ष्यमाणमहर्गणानयनं न संभवतीति सूचितम् । सहितानि एकीभूतानि । युक्तानीति यावत् । कुदिनै रविसावनदिनैर्महायुगसंबन्धिभिस्तष्टानि । भजनेनावशिष्टानि दृष्ट्वा ज्ञात्वा । तानि षट्त्रिंशत्कानीत्यपेक्षायामाह—चक्राग्राणीत्यादि । यानि । इह प्रसिद्धे लल्लोक्ते धीवृद्धिदे शिष्यधीवृद्धिदतन्त्रे (शा० ६७०) । तदुक्तोपकरणसामग्र्यां द्युचर चक्रेत्यादिग्रहानयने इत्यर्थः । एतेनान्यपक्षात्प्रश्नोद्देशे वक्ष्यमाणमहर्गणानयनमनुपपन्नमिति सूचितम् । चन्द्राकारि- गुरुज्ञभार्गवचलच्छायासुतानाम् । आरो मङ्गलः । बुधशुक्रयोश्चले शीघ्रोच्चे । छायासुतः शनैश्चरः । द्विजपतिराजसेनाधिपगुरुपण्डितकविमन्दक्रमेण ग्रहोद्देशः कक्षाचारक्रमापेक्षया प्रश्नश्रोतुः कस्यचिदनभिज्ञस्य व्याकुलतासंभवार्थमिति ध्येयम् । एषां सप्तानां पृथक्संश्लिष्टानि । प्रत्येकं समन्वयः । चक्राग्राणि भगणेषु लब्धेषु शेषाणि ग्रहाग्राणि । एवं राशिशेषाणि । समुच्चयार्थकश्चः प्रत्येकं स्युश्चान्वेति । भाग- शेषाणि विकलाशेषाणि । एवं भगणादिविकलान्तं पञ्चसंख्यात्वात्पञ्चत्रिंशच्छेषाणि यानि भवन्तीति तात्पर्य्यार्थः । अवशिष्टं शेषमाह—तथेति । अहर्गणानयनप्रकारे यदवमशेषं पूर्वं ग्रहानयनात्पूर्व- काले । ग्रहाणामहर्गणाधीनत्वात्सिद्धं संपादितमस्ति । चकारात्तत्तथा । तत्पङ्क्तिषु संबन्धा- भावेऽपि प्रष्टुरिच्छया सजातीयतया ज्ञेयम् । साजात्यं कुदिनहरत्वेन । अतोऽहर्गणादवमान- यनानुपाते यदवमशेषं तत्तत्पङ्क्तिषु ज्ञेयम् । यद्वाऽहर्गणादागमविधौ ग