भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 653, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 653

प्रश्नाध्यायः ५५१ क्षेपस्तत्र प्रकर्षेणोत्कण्ठ उत्कण्ठितो यः कण्ठीरवः सिंहस्तमहं मन्ये । तथा च सकलज्योति- र्वित्पराजकारणरूपत्वेन सुखसर्वस्ववर्यतासंपादनादुत्तरदानेऽल्पदुःखं तेनागण्यमित्युत्तरं दास्यत्येवेति भावः । १४।१५॥ अथास्य सूचितमुत्तरं शार्दूलविक्रीडितेनाऽऽह - उद्दिष्टमिति । उद्दिष्टं शेषाणामैक्यं प्रागुद्दिष्टम् । क्वहृतष्टम् । युगसावनदिनैर्धीवृद्धिदोक्तैस्तष्टम् । यद्यपि प्रश्नश्लोके षट्त्रिंशत्सहितानीत्यत्र कुदिनैस्तष्टस्योक्तेः पुनरत्र तत्तष्टस्योक्तिरसङ्गता तथाऽपि कुदिनतष्टस्याऽऽवश्यकतासूचनार्थं पुनरुक्तिः । अन्यथोत्तरदानाक्यत्वापत्तेः पूर्वोक्तस्य संदिग्धत्वाच्च । यद्वा प्राक्कुदिनतष्टमैक्यमुद्दिष्टमिति स्वरूपोक्तिः । चतुर्भिर्भक्तं चेद्यदि शुध्येत् । निःशेषम् । न सशेषमित्यर्थः । तर्हि तदुद्दिष्टं खिलं दुष्टम् । तत्प्रश्नोदाहरणमसंबद्ध- मित्यर्थः । ततः । विनिःशेषभजनेनाखिलज्ञानानन्तरं लब्धं चतुर्भक्तोद्दिष्टफलं त्रिनखभर- साम्य्यङ्कद्विगुणितं पञ्चाद्रित्र्यङ्कसप्ताब्धियुगनन्दरामैर्भजेच्छेषमहर्गणः स्यात् । नन्वेवमानीतो वारासंवादात्कदाचिद्व्यभिचरत्यत आह—हरेणेति । सः । अहर्गणः । यावद्यदवधि । ईप्सितोऽभिमतो वारसंवादाद्भवेत्तावत् । हरेण पश्चाद्भि त्र्यङ्कसप्ताब्धि- युगनन्दराममितेन युतः पुनः पुनस्तदवधि योज्य इत्यर्थः । मध्याधिकारे तथाऽप्रयोगादिति प्रतिज्ञातमेतदुक्तमिति ध्येयम् । अत्रोपपत्तिः-द्युचरचक्रहतो दिनसंचयः खखहृतो भगणादि फलं ग्रह इत्यनेनाहर्गणो भगणगुणितः कुदिनभक्तः फलं गतभगणाः । शेषं भगणशेषम् । तत्पृथक् द्वादशगुणं कुदिन- भक्तं फलं राशयः । शेषं राशिशेषम् । तत्पृथक् त्रिंशद्गुणं हरभक्तं फलं भागाः । शेषं भागशेषम् । तत्पृथक्षष्टिगुणं हरभक्तं कलाः । शेषं कलाशेषम् । पृथक्षष्टिगुणं हरभक्तं फलं विकलाः शेषं विकलाशेषम् । एवं सप्तानां ग्रहाणां चक्रादिपञ्च शेषाणि पृथक्पृथगानीय तैषामैक्यं पञ्चत्रिंशद्ग्रणां योगः । अत्राहर्गणेऽवमगुणिते कुदिनभक्ते फलमवमानि । शेषमवमशेषमिदं पूर्वाग्रैक्ये युतं तत्षट्त्रिंशद्ग्रणां योगो जातोऽस्त (स्त्वबु) द्दिष्टः । तत्र प्रत्येकं ग्रहभगणगुणितानामहर्गणानां कुदिनभक्तानां फलानि भगणास्तदैक्यं भगण- योगः । शेषाणि भगणशेषाणि तदैक्यं भशणशेषैक्यम् । अतो लाघवात्सप्तग्रहभगणयोग- गुणिताहर्गणे कुदिनभक्ते फलं सर्वग्रहगतभगणयोगः शेषं भगणशेषैक्यम् । अस्मादुक्तरीत्या सर्वग्रहगतराशियोगः फलम् । शेषं सर्वग्रहराशिशेषैक्यमस्मादप्युक्तरीत्या भागशेषैक्यम् । ततः कलाशेषैक्यं फलानि च क्रमेण भागैक्यं कलैक्यं विकलैक्यं परयोगग्रहप्रयोजनाभावा- त्फलेषूंपेक्षा । अत्राविप लाघवान्निरपेक्षराश्यादिशेषयोगज्ञानार्थमहर्गणस्य भगणयोगगुणितद्वादशभगण- योगगुणितषष्ट्यधिकशतत्रयम् । भगणयोगगुणितस्वषष्टिखवर्गाः । भगणयोगगुणितत्वा-