भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 674, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 674

५७२ गोलाध्याये नैर्ऋत्यां यदतोऽपि तेषु नगरेश्वाचक्ष्व मेऽक्षांशकान् गोलक्षेत्रविचक्षण क्षणमिदं संचिन्त्य चित्ते मुहुः ॥२५॥ अस्य भङ्गः— दिग्ज्यापलभाक्षुण्णे त्रिज्यार्कहते च बाहुकोटिज्ये । अपसृतियोजनलवजे तदन्तरं दक्षिणे भागे ॥२६॥ ऐक्यं सौम्ये भूमेर्व्यस्तं पादाधिकेऽपसरे । रविगुणमक्षश्रवसा भक्तं तच्चापमक्षांशाः ॥२७॥ वा० भा०—अत्र तद्देशवशेन दिशो ज्ञेयाः । न स्वदेशवशेन । अत्र प्रथमे प्रश्नेऽपसारयोजनलवा नवतिः ९० । तद्दोर्ज्या त्रिज्या ३४३८ । कोटिज्या पूर्णम् ० । दिग्ज्यादोर्ज्ययोर्घातः पूर्णम् ० । काटिज्यापलभयोर्घातश्च पूर्णम् ० । एते त्रिज्यार्कैश्च यथाक्रमं हृते तथापि शून्ये एव ० । ० । तयोर्योगे वियोगे वा शून्यमेव ० । एतद्रविगुणमक्षश्रवणहृतं शून्यमेव । अतो यमकोटिपत्तने शून्यं पलांशाः ० । अथ द्वितीयप्रश्नेऽप्येवं शून्यं पलांशाः । अतो यमकोटेः प्रतीच्यां लङ्कंव । अथ तृतीयप्रश्ने दिग्ज्या २४३१ । इयमपसारदोर्ज्यया त्रिज्यामितया गुण्या त्रिज्यया च कोटिज्या पूर्णम् । तयोर्योगस्तादृश एव २४३१ । इयमर्कगुणा लङ्का- क्षकर्ण १२ हृताविकृतैव २४३१ दोर्ज्या । अस्याश्चापं पलांशाः ४५ । यत्रैते पलांशास्तत्र पलभा १२ । पलकर्णश्च १६।५८।१४ । अथ चतुर्थप्रश्ने सैव दिग्ज्या २४३१ । तथैवोक्तविधौ कृतेऽविकृतैव । किंतु इयमर्कगुणाक्षकर्ण १६ । ५८ । १४ हृता । अस्याश्चापं पलांशाः ३० ॥२५–२७ मरीचि-अथ गोलोत्तरसंबन्धिप्रश्नं सोद्देशं शार्दूलविक्रीडितेनाऽऽह—प्राच्यामुज्ज- यनीति । उज्जयिनीनगरात्सार्धद्वाविंशत्यक्षांशसंबद्धात् । पूर्वदिशि भूपरिधियोजनानां चतुर्थ- योजनान्तरे । यदज्ञाताक्षांशकं नगरं तस्मात्पुरात्पश्चिमतः पश्चिमदिशि ॥ तावति भूपरिधिचतुर्थांशयोजनान्तरे । अपिशब्दादेकं परमज्ञाताक्षांशम् । ततस्तस्मात्पुरादपिशब्दा- द्भूपरिधिचतुर्थांशान्तरे । पुरारेर्महादेवस्य दिशि ऐशान्यां दिशि । अन्यत्—अज्ञाताक्षांशं पुरमस्ति । अतोऽस्मात्पुरादपिशब्दाद्भूपरिधिचतुर्थांशान्तरे ॥ नैर्ऋत्यदिशि यदज्ञाताक्षांशं पुरमस्ति ॥ एवं तेषु चतुर्षु पुरेषु अक्षांशान्म मे मम आचक्ष्वाऽऽनयनेन कथय ॥ ननु कल्पनासामर्थ्याभावात्तदुत्तरं दातुमशक्यमित्यतः संबोधनमाह—गोलक्षेत्रविचक्ष- णेति ॥ गोलक्षेत्रकल्पक । तथा च गोलक्षेत्रकल्पनयैतदुत्तरं तव नाशकयमिति भावः । ननु तथाऽप्यस्योत्तरकल्पनमशक्यमित्यत आह—क्षणमिति ॥ इदं प्रश्नस्वरूपतत्त्वं चित्ते क्षणं मुहुः संचित्यं विचार्यं ।। तथाच प्रश्नस्वरूपविचारणयैवोत्तरस्य स्फुरणं तव