सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 674, कुल 723 में से
संदर्भ में पढ़ें५७२ गोलाध्याये नैर्ऋत्यां यदतोऽपि तेषु नगरेश्वाचक्ष्व मेऽक्षांशकान् गोलक्षेत्रविचक्षण क्षणमिदं संचिन्त्य चित्ते मुहुः ॥२५॥ अस्य भङ्गः— दिग्ज्यापलभाक्षुण्णे त्रिज्यार्कहते च बाहुकोटिज्ये । अपसृतियोजनलवजे तदन्तरं दक्षिणे भागे ॥२६॥ ऐक्यं सौम्ये भूमेर्व्यस्तं पादाधिकेऽपसरे । रविगुणमक्षश्रवसा भक्तं तच्चापमक्षांशाः ॥२७॥ वा० भा०—अत्र तद्देशवशेन दिशो ज्ञेयाः । न स्वदेशवशेन । अत्र प्रथमे प्रश्नेऽपसारयोजनलवा नवतिः ९० । तद्दोर्ज्या त्रिज्या ३४३८ । कोटिज्या पूर्णम् ० । दिग्ज्यादोर्ज्ययोर्घातः पूर्णम् ० । काटिज्यापलभयोर्घातश्च पूर्णम् ० । एते त्रिज्यार्कैश्च यथाक्रमं हृते तथापि शून्ये एव ० । ० । तयोर्योगे वियोगे वा शून्यमेव ० । एतद्रविगुणमक्षश्रवणहृतं शून्यमेव । अतो यमकोटिपत्तने शून्यं पलांशाः ० । अथ द्वितीयप्रश्नेऽप्येवं शून्यं पलांशाः । अतो यमकोटेः प्रतीच्यां लङ्कंव । अथ तृतीयप्रश्ने दिग्ज्या २४३१ । इयमपसारदोर्ज्यया त्रिज्यामितया गुण्या त्रिज्यया च कोटिज्या पूर्णम् । तयोर्योगस्तादृश एव २४३१ । इयमर्कगुणा लङ्का- क्षकर्ण १२ हृताविकृतैव २४३१ दोर्ज्या । अस्याश्चापं पलांशाः ४५ । यत्रैते पलांशास्तत्र पलभा १२ । पलकर्णश्च १६।५८।१४ । अथ चतुर्थप्रश्ने सैव दिग्ज्या २४३१ । तथैवोक्तविधौ कृतेऽविकृतैव । किंतु इयमर्कगुणाक्षकर्ण १६ । ५८ । १४ हृता । अस्याश्चापं पलांशाः ३० ॥२५–२७ मरीचि-अथ गोलोत्तरसंबन्धिप्रश्नं सोद्देशं शार्दूलविक्रीडितेनाऽऽह—प्राच्यामुज्ज- यनीति । उज्जयिनीनगरात्सार्धद्वाविंशत्यक्षांशसंबद्धात् । पूर्वदिशि भूपरिधियोजनानां चतुर्थ- योजनान्तरे । यदज्ञाताक्षांशकं नगरं तस्मात्पुरात्पश्चिमतः पश्चिमदिशि ॥ तावति भूपरिधिचतुर्थांशयोजनान्तरे । अपिशब्दादेकं परमज्ञाताक्षांशम् । ततस्तस्मात्पुरादपिशब्दा- द्भूपरिधिचतुर्थांशान्तरे । पुरारेर्महादेवस्य दिशि ऐशान्यां दिशि । अन्यत्—अज्ञाताक्षांशं पुरमस्ति । अतोऽस्मात्पुरादपिशब्दाद्भूपरिधिचतुर्थांशान्तरे ॥ नैर्ऋत्यदिशि यदज्ञाताक्षांशं पुरमस्ति ॥ एवं तेषु चतुर्षु पुरेषु अक्षांशान्म मे मम आचक्ष्वाऽऽनयनेन कथय ॥ ननु कल्पनासामर्थ्याभावात्तदुत्तरं दातुमशक्यमित्यतः संबोधनमाह—गोलक्षेत्रविचक्ष- णेति ॥ गोलक्षेत्रकल्पक । तथा च गोलक्षेत्रकल्पनयैतदुत्तरं तव नाशकयमिति भावः । ननु तथाऽप्यस्योत्तरकल्पनमशक्यमित्यत आह—क्षणमिति ॥ इदं प्रश्नस्वरूपतत्त्वं चित्ते क्षणं मुहुः संचित्यं विचार्यं ।। तथाच प्रश्नस्वरूपविचारणयैवोत्तरस्य स्फुरणं तव