सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 689, कुल 723 में से
संदर्भ में पढ़ेंसललोकयते ॥ अत्रैव त्वमवस्थितो यदि वदस्यस्यान्तरं वोच्छ्रयं मन्ये यन्त्रविदां वरिष्ठपदवीं यातोऽसि धीयन्त्रवित् ॥ दूरस्थस्येति ॥ अप्याकर्ण्यति । यत्रायनांशसंस्कृतौ सूर्यचन्द्रौ । चः क्रमार्थे ॥ चतुर्द्विराशी राशिचतु- ष्टयमर्को राशिद्वयं चन्द्रः ॥ विपातचन्द्रः ॥ पातवर्जितचन्द्रो राश्यष्टकम् । तत्र तादृश- स्थले । आशु शीघ्रम् । किल निश्चयेन । पातं क्रान्तिसाम्यरूपं कथय ॥ ननु यदायनां- शाभावस्तदैते सूर्यचन्द्रपाताः—सू० ४ चं २, पा ६ अत्रायनांशाभावात्पातभुजज्याभा- वाच्चार्कचन्द्रगोलायनसंधी अविकृतावभिन्नौ । ३ । ६ । ९ ॥ अयनसंधिस्थचन्द्रस्तदा- सूर्यपातज्ञानार्थं सूर्यगतिः षष्टिकलाश्चन्द्रगतिः खवसुमुनिमिता कल्पिता । अयनसंधितु- ल्यश्चन्द्रः ३ स्वेष्टकालात्कियतकालान्तरेण भवतीत्यभीष्टचन्द्रतदासन्नायनसंध्योरन्तरमे- कराशिस्तत्कलाः १८०० । चन्द्रगत्या भक्ताः फलमेष्यं दिनाद्यं २ । १८ । २८ । अनेन चालितः सूर्यः ४ । २ । १६ । पातश्चन्द्रः ६ । ० । ७ । २१ । अत्र चन्द्रस्य मध्यम- क्रान्तिरुत्तरा चतुर्विंशत्यंशाः २४ । शरो दक्षिणः कलात्मकः २६९ । ५९ । स्पष्टक्रा- न्तिरुत्तरा १९ । ३० । १ । सूर्यक्रान्तिः २० । ७ । १० । अत्र स्वायनसंधाविन्दोः क्रान्तिस्तत्कालभास्करक्रान्तिरूना यावत्तावत्क्रान्त्योः साम्यं तत्रोर्नास्तीति पाताधिकारो- क्त्या पाताभावज्ञानात्खिलमुदाहरणम् । एकादशायनांशाभ्युपगमेऽपि खिलत्वमित्यत आह—धीवृद्धिदमिति ॥ यदि त्वं धीवृद्धिदं लल्लोक्तं तन्त्रं बोबुध्योष्यातिशयेन जानासि ॥ तथाच धीवृद्धिदोक्तसूर्यपिमादोजपदोद्भववाच्चेद्युग्मादिजश्चान्द्रमसो लघीयान् ॥ अपक्रमा स्यान्न तदाऽस्ति पातस्तदन्तत्वात्वेऽपमयोः समत्वमित्यनेनात्र सूर्यक्रान्तेः २० । ३९ । चन्द्रस्पष्टक्रान्ति १६ । ४५ । रूनाऽपि सूर्यचन्द्रयो २१ युग्मोजपदस्थत्वात्क्रान्तिसाम्य- संभवः । स चायमयुग्मजश्चन्द्रमसोऽपमश्चेदपक्रमाद्भानुमतोऽधिकः स्यात् ॥ समोद्भवो वाऽनधिकस्तदेतो निपातकालो भवितान्यथाऽत ज्ञात लक्षणादेष्य इति धीवृद्धिदपक्षे तदुदाहरणस्य खिलत्वाभाव इति भावः ॥ अत एव विपातचन्द्र इत्युक्तं संगच्छते । न च तत्र तदुक्तप्रकारेण क्रान्तिसाम्यं ज्ञेयमिति प्रश्नोऽनुचित इति वाच्यम् । क्रान्त्योर्यु- तिरेकदिक्कयोर्विवरं भिन्नदिशोस्तु वैधृतौ ॥ विवरं समदिक्स्थयोस्तयोर्व्यतीपातेऽन्यदिशोः समागमः ॥ प्रथमः स तथाऽपरो युतै रहितैर्वेष्टघटीफलेन तैः ॥ गतयोरथवाऽपि गम्ययो- विवरं संयुतिरन्यथा तयोः ॥ प्रथमेष्टघटोअवधेऽमुना विहृते लब्धघटोभिरुत्तरः ॥ पातः प्रथमे गतागवे गतगम्यः प्रथमाख्यकालतः ॥ इत्यनेन तत्र गणिते क्रियमाणे पाता- संभवात् ॥ तथाहि ॥ प्रथमः ३५ । ५४ । अपरः ३७ । ९ । अस्मात्पातमध्यस्य दिना- दिना कालः २४।४।२८। अस्मात्पुनरसकृत्तत्र क्रान्त्योः साम्यानुपलम्भ इति ॥ अथैवमेव क्रान्तिसाम्यसद्भावे तदुक्त्या तदसंभव इति प्रश्नमुपजातिकायाऽऽह- युक्तायनांशोऽशशतमिति । अयनांशसंस्कृतश्चन्द्रो दशांशाधिकराशित्रयम् । सूर्यो विंशति-