सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 150, कुल 516 में से
संदर्भ में पढ़ेंकीर्तिवर्णनम् १३५
पीत हासक्षीर व्यक्तीकृतमश्रुनीर च ॥ ७ ॥ कुचकलशेष्व- बलानामलकायामथ पयोनिधेः पुलिने । क्षितिपाल कीर्त- यस्ते हारन्ति हरन्ति हीरन्ति ॥ ८ ॥ रजनीषु विमलभानोः करजालेन प्रकाशितं वीर । धवलयति भुवनमण्डल- मखिलं तव कीर्तिसंततिः सततम् ॥ ९ ॥ दूरेऽपि श्रुत्वा भवदीयकीर्तिं कर्णौ हि तृप्तौ न च चक्षुषी मे । तयोर्वि- वाद परिहर्तुकामः समागतोऽहं तव दर्शनाय ॥ १० ॥ आकर्ण्य भूपाल यशस्त्वदीय विधूनेयन्तीह न के शिरांसि । विश्वंभराभङ्गमयेन धात्रा नाकारि कर्णौ भुजंगेश्वरस्य ॥११॥ यस्याञ्जनश्यामलबद्धपट्टजातानि जाने धवलत्वमापुः । अरातिनारीशरकाण्डपाण्डुगण्डस्थलीनिर्लुठनाथशसि ॥१२॥ यः कोटिहोमानलधूमजालैर्मलीमसीकृत्य दिशा मुखानि । तत्कीर्तिभिः क्षालयति स्म शश्वत्खण्डतारापतिपाण्डुरा- भिः ॥ १३ ॥ इयं यशांसि द्विषतः सुधारुचः किमुङ्कमेतद्वि- षतः किमाननम् । यशोभिरस्याखिललोकधाविभिर्विभूषिता धावति तामसी मसी ॥ १४ ॥ अदः समित्सुम्लवीरयौवत- त्रुटद्गजाकैम्बुमृणालहारिणी । द्विषद्वणस्रैणदगम्बुनिर्झरे यशो- मरालावलीरख खेलति ॥ १५ ॥ अनिसरन्तीमपि देहगर्भा- त्कीर्तिं परेषामसती वदन्ति । स्वैरं चरन्तीमपि च त्रिलोक्यां त्वत्कीर्तिमाहुः कवयः सती नु ॥ १६ ॥ करवालकरालवारि- धारा यमुना दिव्यतरङ्गिणी च कीर्तिः । तव कामद तीर्थ- राज दूरादनुबध्नाति सरस्वती कवीनाम् ॥ १७ ॥ त्रिजग- दञ्जनलङ्घनाजाङ्गिकैस्तव यशोभिरतीव पवित्रिताः । प्रथम- पार्थिवपुङ्गवकीर्तयो विबुधसिन्धुजलैरिव सिन्धवः ॥ १८ ॥ त्वत्कीर्तिमौक्तिकफलानि गुणैस्त्वदीयैः संदर्शितुं विबुधवाम- दृशः प्रवृत्ताः । नान्तो गुणेषु न च कीर्तिषु रन्ध्रलेशो हारो न जात इति ताश्च मिथो हसन्ति ॥ १९ ॥ पृथ्वीपते शुभ्रमते भवतो भवस्य ब्रूमो वयं सुयशसा कियदन्तरं वा । गौरीं चकार गिरिशो निजमर्धमङ्गं गौरीकृतं च भवता भुवनं समस्तम् ॥ २० ॥ कीर्तिस्तव क्षितिप याति भुजङ्गगेहं मातङ्गमगमकरी च दिगन्तकेषु । त्यक्त्वैौम्बरं भजति नन्दनमर्थ्यगम्यं किं किं करोति न निर्र्गल्रता गता स्त्री ॥ २१ ॥ निर्मुक्तशेषधवलैरचलेन्द्रमन्थसङ्क्षुब्धदुग्धमय- सागरगर्भगौरैः । राजन्र्भिदं बहुलपक्षदलन्मृगाङ्कच्छेदोज्ज्व- लैस्तव यशोभिरशोभि विश्वम् ॥ २२ ॥ प्रतिनगरमटन्ती प्रत्यगारं व्रजन्ती प्रतिनरपतिवक्षःकण्ठपीठे लुठन्ती । गिरि- गरिममितम्बाच्छादने सावधाना तदपि च तव कीर्तिर्निर्म- लैवेति चित्रम् ॥ २३ ॥ त्यजसि यदपि लक्ष्मीं कीर्तिमा- साथ दानैर्व्रजति तदपि कीर्तिः सिन्धुपारं न लक्ष्मीः । कथय क इह हेतुर्नरेश त्वदीये वसति हृदयपद्मे नन्दसूनुःसु- रारिः ॥ २४ ॥ अनुक्षणमनुक्षणं क्षितिप रक्ष्यमाणा त्वया प्रयाति विदिशो दश प्रबलकीर्तिरेकाकिनी । इयं नियतम- र्थिषु प्रतिदिनं वितीर्णा रमा जहाति न त्वान्तिकं द्वितय- मेतदद्भुतम् ॥ २५ ॥ समुन्नतघनस्तनस्तबकचुम्बितु- म्बीफलक्वणन्मधुरवीणया विबुधलोकवामभ्रुवा । त्वदीयमु- पगीयते हरकिरीटकोटिस्फुरत्तुषारकरकन्दलीकिरणपूरगौरं यशः ॥ २६ ॥ वनेषु वनदेवता दिवि दिवौकसां वल्लभा भुजंगकुलकन्यका भुजंगलोकलीलावने । यशः समरसंचितं नरमगेन्द्र गायन्ति ते प्रभाविजितकौमुदीकुमुदपाण्डुता- डम्बरम् ॥ २७ ॥ अपायि मुनिना पुरा पुनरमार्थि मर्या- दयाप्यतारि कपिना पुरा पुनरदाहि लङ्कारिणा । अमन्थि मुरवैरिणा पुनरबन्धि लङ्कारिणा क्व नाम वसुधापते तव यशोम्बुधिः काम्बुधिः ॥ २८ ॥ महाराज श्रीमञ्जगति यशसा ते धवलिते पयःपारावारं परमपुरुषोऽयं मृगयते । कपर्दी कैलासं सुरपतिरपि स्वं करिवरं कलानाथं राहुः कमलभवनो हंसमधुना ॥ २९ ॥ कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि च नम्रास्तव विभो । शरञ्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह ॥ ३० ॥ पतत्येतत्ते- जोहुतभुजि कदाचिद्यदि तदा पतङ्गः स्यादङ्गीकृततम- पतङ्गापदुदयः । यशोऽमुष्यैवापार्जयितुमसमर्थेन विधिना कथञ्चित्क्षीराम्भोनिधिरपि कृतस्तत्प्रतिनिधिः ॥ ३१ ॥ इन्दोर्लक्ष्मे त्रिपुरजयिनः कण्ठमूलं सुरारिर्दिङ्नागानां मद- जलमषीमञ्जि गण्डस्थलानि । अद्याप्युर्वीवलयतिलक- श्यामालिम्नानुुलिसान्याभासन्ते वद धवलितं किं यशोभिस्त्व-
पादटिप्पणी (Footnotes)
[वाम भाग] १ कम्पयन्ति २ पृथ्वी ३ शेषस्य. ४ युवतिसमूह ५ शङ्खव- ल्यानि ६ गुम्फितुम् ७ देवाङ्गना ८ नागलोकम्, पक्षे,-गणिका- पतिगेहम् ९ ऐरावतादीनामष्टदिग्गजानां समागमकरी, पक्षे,- चण्डालासङ्गमकारिणी १० दिक्पर्यन्तेषु, पक्षे,-विजनप्रदेशेषु. ११ व्योम, पक्षे,-वस्त्रम् १२ सुरालयवनम् पक्षे,-पुत्रम्. १३ गन्तुं शक्यम्, पक्षे,-गमनानर्हम् १४ निष्प्रतिबन्धत्वम्
[दक्षिण भाग] १ पीतं २ अगस्तिना ३ मितं ४ तीर्ण ५ हनुमता ६ मथितः ७ बद्धः ८ क्षीरसमुद्रम् ९ विष्णुः १० शिवः ११ इन्द्रः १२ ऐरावतम् १३ चन्द्रम् १४ विधिः १५ यतः सर्वेषां समुद्राणां पर्वतानां गजानां सर्वभक्ष्याणां पक्षिणां च त्वच्छ्वेतकीर्त्या श्वेतत्वात्क्षीराब्ध्यादीनामन्वगमस्तेषामतस्ते तान्सर्वत्रावलोकयन्तीति भावः १६ तन्तुवायः, पक्षे,-कुं पृथिवीं विन्दति लभते सः १७ पटं वस्त्रं करोषि, पक्षे,-पठं करोषि १८ तन्तुः; पक्षे,-सद्गुणः १९ नम्राः, पक्षे,-स्तुतिपाठकाः २० कलङ्कः २१ दिग्गजजानाम् २२ युक्तानि. २३ नीलिम्ना