सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 154, कुल 516 में से
संदर्भ में पढ़ेंकीर्तिप्रतापौ, राज्याधिकारगर्हणम्, राजसेवकः रथवेगवर्णनम् १३९
विमलयति जगन्ति देव कीर्तिस्ते । मित्रौह्लादं कर्तु मित्रौय^१
द्रुह्यति प्रतापोऽपि ॥ २ ॥ सिन्दूर सीमन्तात्स्मित मुखा-
द्वैरिराजवनितानाम् । यस्य प्रतापयशसी हरतः स्व सह-
ग्गुणासहने ॥ ३ ॥ तदोजसस्तद्यशस. स्थिताविमौ वृथेति
चित्ते कुरुते यदा यदा । तनोति भानो. परिवेषकैतवात्तदा
विधिः कुँण्डलना विधोरपि ॥ ४ ॥ कीर्त्यास्य चन्द्रकरको-
मलयोतिशुभ्रं शोणं नवार्ककिरणप्रतिमप्रतापैः । श्यामद्युति
द्विषदकीर्तिमषीभिरित्थ चित्र तदम्बरमराजत दिग्वधू-
नाम् ॥ ५ ॥ क्षितिप किमपि चित्र जागरूकेऽपि युष्म-
द्यशसि शशिकदम्बे त्वत्प्रतापेऽर्कबिम्बे । नयनकुवलयानि
त्वद्द्विषत्कामिनीनामपि च वदनपद्मान्याशु यत्सङ्कुचन्ति॥६॥
गुणागारे गौरे यशसि परिपूर्णे विलसति प्रतापो वा
भिन्नान्दहति तव भूमीन्द्रतिलक । नवैव द्रव्याणीत्यकथ-
यदहो मूढतमधीश्चतुर्था तेजोऽपि व्यभजत कणादः
कथमसौ ॥ ७ ॥ कीर्तिस्वर्गतरङ्गिणीभिरभितो वैकुण्ठमाप्ला-
वितं क्षोणीनाथ तव प्रतापतपनैः सतापितः क्षीरधि ।
इत्येवं दयितायुगेन हरिणा त्व याचितः स्वाश्रय हृत्वद्म
हरये श्रिये खभवन कण्ठ गिरे दत्तवान् ॥ ८ ॥
शुभ्रस्य यशसि विक्रमभरेणोपार्जितानि क्रमादेतस्य स्तुम हे
महेभदशनस्पर्धीनि कैरक्षरैः । लिम्पद्भि. कृतक कृतोऽपि
रजत राज्ञा यश.पारदैरस्य स्वर्णगिरिः प्रतापर्दहनैः स्वर्ण
पुनर्निर्मितः ॥ ९ ॥
राज्याधिकारगर्हणम्
परैः समुज्यते राज्य स्वयं पापस्य भाजनम् । धर्मा-
तिक्रमतो राजा सिंहो हस्तिवधादिव ॥ १ ॥ औत्सुक्य-
मात्रमेवसादयति प्रतिष्ठां क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्ड-
मिवातपत्रम् ॥ २ ॥ परार्थानुष्ठाने जडयति नृप स्वार्थ-
परता परित्यक्तस्वार्थो नियतमयथार्थः क्षितिपतिः । परार्थ-
श्चेत्स्वार्थादभिमततरो हन्त परवान्परायत्तः प्रीते कथमिव
रस वेत्तु पुरुषः ॥ ३ ॥ भयं तावत्सेव्यादभिनिविशते सेव-
कजनं ततः प्रेत्योासन्नाद्भवति हृदयेष्वेव निहितम् । अतो-
ऽध्योेरूढाना पदमसेुजनद्वेषजननं मतिः सोच्छ्रायाणा पत-
नर्मनुकूल कलयति ॥ ४ ॥ छन्नं कार्यमुपेक्षिपन्ति पुरुषा
न्यायेन दूरीकृत स्वान्दोषान्कथयन्ति नाधिकरणे रागाभि-
भूताः स्वयम् । तै. पक्षपरपक्षवर्धितबलैर्दोषैर्नृप स्पृश्यते
सक्षेपादपवाद एव सुलभो द्रष्टुर्गुणे दूरत. ॥ ५ ॥
राजसेवकः
राजसेवा मनुष्याणामसिधारावलेहनम् । व्याघ्रीगात्र-
परिष्वङ्गो व्यालीवदनचुम्बनम् ॥ १ ॥ सपत्तयः पराधीना,
सदा चित्तमनिर्वृतम् । स्वजीवितेऽप्यविश्वासस्तेषा ये राज-
सेवकाः ॥ २ ॥ अन्त.पुराणा विहितव्यवस्थ पदे पदेऽहं
स्खलितानि रक्षन् । जरातुरा संप्रति दण्डनीत्या सर्व नृप-
स्यानुकरोमि वृत्तम् ॥ ३ ॥ अश्रुमपुषि कलावप्यप्रमत्ता
स्वधर्मादनुदिनमुपकारानाचरन्ते बुधानाम् । बहुजनपरि-
पुष्टा बद्धदीक्षास्त एते तनुसुखमपि हित्वा तन्वते राजसे-
वाम् ॥ ४ ॥ नैशा सध्याविधिरविकलो नाच्युतार्चापि साङ्गा
न स्वे काले हवननियमो नापि वेदार्थचिन्ता । न क्षुद्दे-
लानियतमशन नापि निद्रावकाशो न द्वौ लोकावपि तनु-
भृता राजसेवापराणाम् ॥ ५ ॥ सर्वैः कैल्ये वयसि यतते
लब्धुमर्थान्कुटुम्बी पश्चात्पुत्रैरुपहितभरः कल्पते विश्रमाय ।
अस्माक तु प्रतिदिनमभिय सादयन्ती प्रतिष्ठा सेवाकाकु.
परिणतिरभूत्स्वीषु कष्टोऽधिकारः ॥ ६ ॥ नौञ्चै सत्यपि
चक्षुषीक्षितुमलं श्रुत्वापि नाकर्णितं शक्तेनाप्यधिकार इत्य-
धिकृता यष्टि. समालम्ब्यते । सर्वत्र स्खलितेषु दत्तमना
यात्र मया नोद्धतं सेवास्वीकृतजीवितस्य जरसा कि नाम
यन्मे कृतम् ॥ ७ ॥ भेतव्यं नृपतेस्ततः सचिवतो राज्ञ-
स्ततो वल्लभादन्येभ्यश्च भवन्ति येऽस्य भवने लब्धप्रसादा
विटाः । दैन्यादुन्मुखदर्शनापलपनै. पिण्डार्थमायस्यतः सेवा
लाघवकारिणी कृतधियः स्थाने श्ववृत्ति विदु. ॥ ८ ॥
अप्राज्ञेन च कातरेण च गुण. स्याद्भक्तियुक्तेन क. प्रज्ञा-
विक्रमशालिनोऽपि हि भवेत्कि भक्तिहीनात्फलम् । प्रज्ञा-
विक्रमभक्तयः समुदिता येषा गुणा भूतये ते भृत्या नृपते.
कलत्रमितरे सप्तसु चाल्पसु च ॥ ९ ॥
रथवेगवर्णनम्
आलिङ्गन्तो वसुधा निजखुरदलितामिवातुनेतुममी ।
वदनविनिर्गतचरणा इव लक्ष्यन्ते जवाद्यश्वाः ॥ १ ॥ उद्धत-
पादटिप्पण्यः (Footnotes):
| वामभागः | दक्षिणभागः |
|---|---|
| १ सुहृद् २ सूर्याय ३ परिधि ४ छलात् ५ कुण्डलना वैयर्थ्य-सूचिका रेखावेष्टनम् ६ रजद्भि . ७ कृत्रिमम् ८ रसलिप्सुवर्णं रजतसुवर्णं भवति तत्पुनरग्निदाहात्प्रकृतिस्थं भवतीति प्रसिद्धमेव ९ नाशयति १० गुरुता ११ निकटस्थायिजनात् १२ अतिशय-प्राप्तमहिम्नाम् १३ दुर्जनस्य. १४ उच्चतानाम्. | १ नियतम् २ सत्यमप्यसत्येनासत्यमपि सत्येन चावृतम् ३ अर्थि-प्रत्यर्थिप्रभृतय ४ खङ्गधारा ५ जिह्वया घट्टनम् ६ सर्पिणी ७ प्रथमे. ८ योग्यो भवति |