सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 161, कुल 516 में से
संदर्भ में पढ़ें| १४६ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
प्राप्नुयाद्बुद्ध्यवज्ञानमपमानं च शाश्वतम् ॥ १३९ ॥
किं भक्तेनासमर्थेन किं शक्तेनापकारिणा ।
भक्तं शक्तं च मा रज्ञावज्ञासु त्वमर्हसि ॥ १४० ॥
जनं जनपदा नित्यमर्चयन्ति नृपार्चितम् ।
नृपेणावमतो यस्तु स सर्वैरवमन्यते ॥ १४१ ॥
नानिवेद्य प्रकुर्वीत भर्तु किंचिदपि स्वयम् ।
कार्यमापत्प्रतीकारादन्यत्र जगतीपतेः ॥ १४२ ॥
अतिव्ययोऽनपेक्षा च तथार्जनमधर्मतः ।
मोक्षणं दूरसंस्थानं कोषव्यसनमुच्यते ॥ १४३ ॥
क्षिप्रमायमनालोच्य व्ययानश्च स्ववाञ्छया ।
परिक्षीयत एवासौ धनी वैश्रवणोपम ॥ १४४ ॥
यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत् ।
कर्मस्वदृष्टकर्मा यः शास्त्रज्ञोऽपि विमुह्यति ॥ १४५ ॥
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।
बुद्धिर्बुद्धिमता युक्ता हन्ति राष्ट्रं सनायकम् ॥ १४६ ॥
न तच्छस्त्रैर्न नागेन्द्रैर्न हयैर्न च पत्तिभिः ।
कार्यं संसिद्धिमभ्येति यथा बुद्ध्या प्रसाधितम् ॥ १४७ ॥
दुर्योधनः समर्थोऽपि दुर्मन्त्री प्रलयं गतः ।
राज्यमेकश्चकारोच्चैः सुमन्त्री चन्द्रगुप्तकः ॥ १४८ ॥
अशृण्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः ।
यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः ॥ १४९ ॥
सभा वा न प्रवेष्टव्या वक्तव्यं वा समजसम् ।
अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी ॥ १५० ॥
तस्मात्सभां सभा गत्वा रागद्वेषविवर्जितः ।
वचस्तथाविधं ब्रूयाद्यथा न नरकं व्रजेत् ॥ १५१ ॥
माता पिता गुरुर्भ्राता भार्या पुत्रः पुरोहितः ।
नादण्ड्यो नाम राज्ञोऽस्ति स्वधर्मे यो न तिष्ठति ॥ १५२ ॥
विशोधयेन्महीपालो मन्त्रिशालामशेषतः ।
अयुक्तो नार्हति स्थातुमस्या मन्त्ररहस्यवित् ॥ १५३ ॥
षट्कर्णो भिद्यते^१ मन्त्रश्चतुःकर्णः स्थिरो भवेत् ।
द्विकर्णस्य तु मन्त्रस्य^२ ब्रह्माप्यन्तं^३ न गच्छति ॥ १५४ ॥
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।
नियोजयेत्तथैवैतांस्त्रिविधेष्वपि कर्मसु ॥ १५५ ॥
तुल्यार्थं तुल्यसामर्थ्यं सर्वज्ञं व्यवसायिनम् ।
अर्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते ॥ १५६ ॥
निर्विशेषो यदा राजा समं भृत्येषु तिष्ठति ।
तत्रोद्यमसमर्थानामुत्साहः परिहीयते ॥ १५७ ॥
प्रसादो निष्फलो यस्य यस्य क्रोधो निरर्थकः ।
न तं राजानमिच्छन्ति षण्ढं पतिमिवाङ्गनाः ॥ १५८ ॥
अविवेकिनि भूपालो नश्यन्ति गुणिना गुणाः ।
प्रवासरसिके^४ कान्ते यथा साध्व्याः स्तनोन्नतिः ॥ १५९ ॥
न कश्चिचण्डकोपानामात्मीयो नाम भूभूताम् ।
होतारमपि जुह्वन्तं^५ दहत्येव हुताशनः ॥ १६० ॥
चक्रं सेव्यं नृपः सेव्यो न सेव्यः केवलो नृपः ।
पश्य चक्रस्थ माहात्म्यं मृत्पिण्डः पात्रतां गतः ॥ १६१ ॥
यस्मिन्नेवाधिकं चक्षुरारोपयति पार्थिवः ।
कुलीनो वाऽकुलीनो वा स श्रियो भाजनं भवेत् ॥ १६२ ॥
राज्ञि मातरि देव्यां च कुमारे मुख्यमन्त्रिणि ।
पुरोहिते प्रतीहारे समं वर्तेत राजवत् ॥ १६३ ॥
पानमक्षास्तथा नार्यो मृगया गीतवादिते ।
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥ १६४ ॥
आयाच्चतुर्थभागेन व्ययकर्म प्रवर्तयेत् ।
प्रभूततैलदीपो हि चिरं भद्राणि पश्यति ॥ १६५ ॥
कर्मणा मनसा वाचा चक्षुषापि चतुर्विधम् ।
प्रसादयति लोकं यस्तं लोको नु प्रसीदति ॥ १६६ ॥
समोजनं सकथनं सप्रश्नोऽथ समागमः ।
ज्ञातिभिः सह कार्याणि न विरोधः कदाचन ॥ १६७ ॥
मृदो परिभवो नित्यं वैरं तीक्ष्णस्य नित्यशः ।
उत्सृज्य तद्द्वयं तस्मान्मध्यां वृत्तिं समाश्रयेत् ॥ १६८ ॥
अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् ।
नहि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित् ॥ १६९ ॥
किमप्यसाध्यं महता सिद्धिमेति लघीयसाम् ।
प्रदीपो भूमिगेहान्तर्ध्वान्तं हन्ति न भानुमान् ॥ १७० ॥
अरावप्युचितं कार्यमातिथ्यं गृहमागते ।
छेत्तुमप्यागते च्छायां नोपसंहरते द्रुमः ॥ १७१ ॥
अगाधहृदया भूपाः कूपा इव दुरासदाः ।
घटका^१ गुणिनो^२ नो चेत्कथं लभ्येत जीवनम्^३ ॥ १७२ ॥
कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः ।
अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ॥ १७३ ॥
भोगिनैः^४ केञ्चुकासक्ता^५ क्रूराः कुटिलगामिनः ।
सुदुष्टा मन्त्रसाध्याश्च^६ राजानः पन्नगा^७ इव ॥ १७४ ॥
अकस्माद्द्रोहि यो भक्तमार्जन्मपरिसंवितम्^८ ।
न व्यञ्जने^९ रुचिरयस् त्याज्यो नृप इवार्तुरैः^१० ॥ १७५ ॥
सुगन्ध्यं केतकीपुष्पं कण्टकैः परिवेष्टितम् ।
यथा पुष्यं तथा राजा दुर्जनैः परिवेष्टितः ॥ १७६ ॥
असत्प्रलाप पारुष्यं पैशुन्यमनृतं तथा ।
चत्वारि वाचा राजेन्द्र न जल्पेन्नैव चिन्तयेत् ॥ १७७ ॥
प्राज्ञे नियोज्यमाने तु सन्ति राज्ञस्त्रयो गुणाः ।
यश स्वर्गनिवासश्च विपुलश्च धनागमः ॥ १७८ ॥
मूर्खे नियोज्यमाने तु त्रयो दोषा महीपते ।
अयशश्चार्थनाशश्च नरके गमनं तथा ॥ १७९ ॥
इदमेव नरेन्द्राणां स्वर्गद्वारमनर्गलम् ।
यदात्मन प्रतिज्ञा च प्रजा च परिपाल्यते ॥ १८० ॥
मन्त्रो^११ योध इवाधीरः सर्वाङ्गै संवृतैरपि ।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥ १८१ ॥
आमोदय परग्लानिर्द्वयं नीतिरितीर्यती ।
तद्दूरीकृत्य कृति-
पादटिप्पण्यः :
१ भेदं प्राप्नोति, सर्वेषां ज्ञानविषयो भवतीति भावः
२ विचारः
३ पारम्
४ सदा प्रवासिनि भर्तरि सति वियोगेन भार्याया यौवनं यथा नश्यति तद्वत्
५ होमकर्तारम्
१ कार्यसाधकाः, पक्षे,-कुम्भा
२ गुणवन्त, पक्षे,-रज्जुयुक्ता
३ जीवनोपायभूतं द्रव्यम्, पक्षे,-उदकम्
४ विलासिनः; पक्षे,-भोगवन्तः
५ कवचम्; पक्षे,-सर्पकञ्चुकम्
६ विचारः; पक्षे,-शाबरादि
७ सर्पा
८ सेवकम्, पक्षे,-ओदनम्
९ राजचिह्नेषु, पक्षे,-लेह्यादौ
१० रोगी
११ रहस्यं सुगुप्तमपि योद्धवदेकत्र न स्थातुं सहते