सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 162, कुल 516 में से
संदर्भ में पढ़ेंराजनीतिः १४७
भिर्वाचस्पत्यं प्रतायते ॥ १८२ ॥ तृप्तियोगः परेणापि महि-
म्ना न महात्मनाम् । पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोऽत्र
महार्णव ॥ १८३ ॥ बुद्धिशस्त्र. प्रकृत्यङ्गो घनस्मृति-
कञ्चुक । चारक्षणो दूतमूखः पुरुषः कोऽपि पार्थिवः ॥ १८४ ॥
तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपते । नैकमोज
प्रसादो वा रसभावविदः कवे ॥ १८५ ॥ कृतापचारोऽपि
परैरनाविष्कृतविक्रियः । असाध्य. कुरुते कोप प्राप्ते काले
गदो यथा ॥ १८६ ॥ मृदुव्यवहितं तेजो भोक्तुमर्थानप्र-
कल्पते । प्रदीप. स्नेहमादत्ते दशयाऽभ्यन्तरस्थया ॥ १८७ ॥
नालम्बते दैविकता न निषीदति पौरुषे । शब्दार्थौ सत्कवि-
रिव द्वय विद्वानपेक्षते ॥ १८८ ॥ स्थायिनोऽर्थे प्रवर्त्तन्ते
भावा. सञ्चारिणो यथा । रसस्यैकस्य भूयासस्तथा नेतुर्र्मही-
भृतः ॥ १८९ ॥ तन्त्रावापविदा योगैर्मण्डलान्यधितिष्ठता ।
सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रव ॥ १९० ॥
करप्रचेयामुत्तुङ्ग प्रमुशक्तिं प्रथीयसीम् । प्रजाबलवृहन्मूलं
फलत्युत्साहपादपः ॥ १९१ ॥ स दोष सचिवस्यैव
यदसत्कुरुते नृप. । याति यंन्तु प्रमादेन गजो व्याल-
त्ववाच्यताम् ॥ १९२ ॥ न सर्पस्य मुखे रक्तं न दष्टस्य
कलेवरे । न प्रजासु न भूपाले धनं दुरधिकारिणि
॥ १९३ ॥ यद्यपि क्षितिपालानामाज्ञा सर्वत्रगा स्वयम् ।
तथापि शास्त्रदीपेन चरत्येव मति. सताम् ॥ १९४ ॥
असाध्यमन्यथा दोषं परिच्छिद्य शरीरिणाम् । यथा
वैद्यस्तथा राजा शस्त्रपाणिर्विपद्यति ॥ १९५ ॥
जातमात्रं न यः शत्रुं व्याधिं वा प्रशमं नयेत् । अति-
पुष्टाङ्गयुक्तोऽपि स पश्चात्तेन हन्यते ॥ १९६ ॥ पातकाना
समस्ताना द्वे परे तात पातके । एक दुःसचिवो राजा
द्वितीय च तदाश्रयः ॥ १९७ ॥ राजा सपत्तिहीनोऽपि
सेव्य सेव्यगुणाश्रयः । भवत्याजीवनं तस्मात्फल काला-
न्तरादपि ॥ १९८ ॥ स जयी वरमातङ्गा यस्य तस्यास्ति
मेदिनी । कोशो यस्य सुदुर्धर्षो दुर्गस्तस्य स दुर्जयः
॥ १९९ ॥ सुवर्णैः पट्टचैलैश्च शोभा स्याद्वारयोषिताम् ।
पराक्रमेण दानेन राजन्ते राजनन्दनाः ॥ २०० ॥ यं यं
नृपोऽनुरागेण समानयति संसदि । तस्य तस्योत्सारणाय
यतन्ते राजवल्लभा ॥ २०१ ॥ ब्राह्मण क्षत्रियो बन्धुर्ना-
धिकारे प्रशस्यते । ब्राह्मणः सिद्धमप्यर्थं कृच्छ्रेणापि नि-
यच्छति ॥ २०२ ॥ नियुक्तः क्षत्रियो द्रव्ये खङ्ग दर्शयते
ध्रुवम् । सर्वस्वं ग्रसते बन्धुराक्रम्य ज्ञातिभावतः ॥ २०३ ॥
अपराधेऽपि निःशङ्को नियोगी चिरसेवकः । स स्वामिनम-
वज्ञाय चरेच्च निरवग्रह ॥ २०४ ॥ उपकर्त्ताधिकारस्थ.
स्वापराधं न मन्यते । उपकार धेञ्जीकृत्य सर्वमेवावलुम्पति
॥ २०५ ॥ आज्ञाभङ्गरान्राजा न क्षाम्येत्स्वसुतानपि ।
विशेष. कोऽनुरागस्य राजचित्तगतस्य च ॥ २०६ ॥
तस्करेभ्यो नियुक्तेभ्य शत्रुभ्यो नृपवल्लभात् । नृपतिर्निज-
लोभ,च्च प्रजा रक्षेत्पितेव हि ॥ २०७ ॥ भोगस्य
भाजनं राजा न राजा कार्यभाजनम् । राजकार्यपरिव्र्धं-
सान्मन्त्री दोषेण लिप्यते ॥ २०८ ॥ वर प्राणपरित्याग
गिरसो वापि कर्तनम् । न तु स्वामिपदावाप्तिपातकेच्छो-
रुपेक्षणम् ॥ २०९ ॥ विषदिग्धस्य भक्तस्य दन्तस्य
चलितस्य च । अमात्यस्य च दुष्टस्य मूलादुद्धरण सुखम्
॥ २१० ॥ य कुर्यात्सचिवायत्ता श्रियं तद्यमने सति ।
सोऽन्धवज्जगतीपालः सीदेत्प्रचारकैर्विना ॥ २११ ॥
सदामृत्यो न सिद्ध स्यात्समुद्र सर्व एव हि । सिद्धा-
नामयमादेश ऋद्धिश्चित्तविकारिणी ॥ २१२ ॥ मूलभृत्या-
न्यरित्सज्य नागन्तून्प्रतिमानयेत् । नात परंतरो दोषो
राज्यभेदकरो यत ॥ २१३ ॥ मन्त्रबीजमिदं गुप्त रक्ष-
णीय यथा तथा । मनागपि न भिद्येत तद्धिच्छिन्नं न प्ररोहति
॥ २१४ ॥ मन्त्रिणा पृथिवीपालचित्तं विघटितं क्वचित् ।
वलयं स्फटिकस्येव को हि सधातुमीश्वर ॥ २१५ ॥
वज्र च राजतेजश्च द्वयमेवातिभीषणम् । एकमेकत्र पतति
पतत्यन्यत्समन्तत ॥ २१६ ॥ मृत प्राप्नोति वा स्वर्ग
शत्रुं हत्वा सुखानि वा । उभावपि हि शूराणा गुणावेतौ
सुदुर्लभौ ॥ २१७ ॥ यत्रायुद्धे ध्रुव मृत्यर्युद्धे जीवित-
संशयः । तमेव काल युद्धस्य प्रवदन्ति मनीषिणः
॥ २१८ ॥ अयुद्धे हि यदा पश्यन्न किञ्चिद्धितमात्मन ।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ २१९ ॥
जये च लभते लक्ष्मीं मृते चापि सुराङ्गनाम् । क्षणविध्वं-
सिनः काया. का चिन्ता मरणे रणे ॥ २२० ॥ पिता
वा यदि वा भ्राता पुत्रो वा यदि वा सुहृत् । प्राणच्छेद-
करा राज्ञा हन्तव्या भूतिमिच्छता ॥ २२१ ॥ राज्यलोभा-
दहंकारादिच्छतः स्वामिनः पदम् । प्रायश्चित्तं तु
तस्यैकं जीवोत्सर्गो न चापरम् ॥ २२२ ॥ आत्मनश्च परेष्रा
च यः समीक्ष्य बलाबबलम् । अन्तर नैव जानाति स
तिरस्क्रियतेऽरिभिः ॥ २२३ ॥ राजा मत्त शिशुश्चैव
प्रमादी धनगर्वितः । अप्राप्यमपि वाञ्छन्ति कि पुनर्भम्य-
तेऽपि यत् ॥ २२४ ॥ वर्णाकारप्रतिध्वानैर्नेत्रवक्त्रविकारत. ।
अप्यूहन्ति मनो धीरास्तस्माद्रहसि मन्त्रयेत् ॥ २२५ ॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्रवक्त्रविकारा-
भ्या ज्ञायतेऽन्तर्गतं मनः ॥ २२६ ॥ षट्कर्णो भिद्यते
मन्त्रस्तथा प्राप्ताश्च वार्तया । इत्यात्मना द्वितीयेन मन्त्र.
कार्यो महीभृता ॥ २२७ ॥ मन्त्रभेदेऽपि ये दोषा भवन्ति
पृथिवीपते. । न शक्यास्ते समाधातुमिति नीतिविदा
१ हस्तिपकस्य
२ अपनयितुनिति भाव
३ अग्रेकृत्य