भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 163, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 163
१४८सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

मतम् ॥ २२८ ॥ न तथोत्थाप्यते ग्रावा प्राणिभिर्दारुणा यथा । अल्पोपायान्महासिद्धिरेतन्मन्त्रफलं महत् ॥ २२९ ॥ विजेतुं प्रयतेतारीन्न युद्धेन कदाचन । अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः ॥ २३० ॥ साम्ना दानेन भेदेन समस्तैरथवा पृथक् । साधितुं प्रयतेतारीन्न युद्धेन कदाचन ॥ २३१ ॥ बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । यद्युद्धं हस्तिना सार्धं नराणां मृत्युमावहेत् ॥ २३२ ॥ स मूर्खः कालमप्राप्य योऽपकर्तरि वर्तते । कलिर्बलवता सार्धं कीटपक्षोद्गमो यथा ॥ २३३ ॥ महत्यल्पेऽप्युपायज्ञ सममेव भवेत्क्षम । समुन्मूलयितुं वृक्षांस्तृणानीव नदीरय ॥ २३४ ॥ धान्यानां संग्रहो राजन्नुत्तमः सर्वसंग्रहात् । निक्षिप्तं हि मुखे रत्नं न कुर्यात्प्राणधारणम् ॥ २३५ ॥ यथा प्रमृष्टकान्तानामाधुध्यन्ते भुवि मानवाः । न तथा बहुभिर्दत्तैर्द्रविणैरपि भूपते ॥ २३६ ॥ अविद्वानपि भूपालो विद्यावृद्धोपसेवया । परां श्रियमवाप्नोति जलासन्नतरुर्यथा ॥ २३७ ॥ पानं स्त्री मृगया द्यूतमर्थदूषणमेव च । वाग्दण्डयोश्च पारुष्यं व्यसनानि महीभुजाम् ॥ २३८ ॥ शिष्टैरप्यविशेषज्ञ उन्मथ्य कृतनायकः । त्यज्यते किं पुनर्नान्यैराश्चर्यात्पामरैरपि नरैः ॥ २३९ ॥ सत्यं शौर्यं दया त्यागो नृपस्रैते महागुणाः । एभिर्मुक्तो महीपालः प्राप्नोति खलु वाच्यताम् ॥ २४० ॥ यो येन प्रतिबद्धः स्यात्सह तेनोदयी व्ययी । स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च ॥ २४१ ॥ धूर्तः स्त्री वा शिशुर्यस्य मन्त्रिणः स्युर्महीपतेः । अनीतिपवनक्षिप्तः कार्याब्धौ स निमज्जति ॥ २४२॥ हर्षक्रोधौ समौ यस्य शास्त्रार्थे प्रत्ययः सदा । नित्यं भृत्यानपेक्षा च तस्य स्यान्नन्दा धरा ॥ २४३ ॥ दाता क्षमी गुणग्राही स्वामी दुःखेन लभ्यते । शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ॥ २४४ ॥ आहवेषु च ये शूराः स्वाम्यर्थे त्यक्तजीविताः । भर्तृभक्ताः कृतज्ञाश्च ते नराः स्वर्गगामिनः ॥ २४५ ॥ कृतकृत्यस्य भृत्यस्य कृतं नैव प्रणशयेत् । फलेन मनसा वाचा दृष्ट्वा चैनं प्रहर्षयेत् ॥ २४६ ॥ कोपप्रसादवस्तूनि ये विचिन्वन्ति सेवकाः । आरोहन्ति शनैः पश्चाद्भुन्वन्तमपि पार्थिवम् ॥ २४७ ॥ विधावता महेच्छानां शिल्पविक्रमशालिनाम् । सेवावृत्तिविदां चैव नाश्रियः पार्थिवं विना ॥ २४८ ॥ ये जात्यादिमहागर्वाच्चरेन्द्रांश्छोपयन्ति च । तेषामाभरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥ २४९ ॥ ये च प्राहुर्दुरात्मानो दुराराध्या महीभुजः । प्रमादालस्यजाख्यानि ख्यापितानि निजानि तैः ॥ २५० ॥ सर्पान्व्याघ्रान्गजान्सिहान्दृष्टोपायैर्वशीकृतान् । राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥ २५१ ॥ राजानमेव संश्रित्य विद्वान्याति परां गतिम् । विना मलयमन्यत्र चन्दनो न प्ररोहति ॥ २५२ ॥ धवलान्यातपत्राणि वाजिनश्च मनोरमाः । सदा मत्ताश्च नागेन्द्राः प्रसन्ने सति भूपतौ ॥ २५३ ॥ सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ २५४ ॥ सा सेवा या प्रमुदिता ग्राह्या वाक्यविशेषतः । आश्रयेत्पार्थिवं विद्वांस्तद्वारेणैव नान्यथा ॥ २५५ ॥ यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः । नहि तस्मात्फलं तस्य सुकृष्टादूषरादिव ॥ २५६ ॥ द्रव्यप्रकृतिहीनोऽपि सेव्यः सेव्यगुणान्वितः । भवत्याजीवनं तस्मात्फलं कालान्तरादपि ॥ २५७ ॥ अपि स्थाणुवदासीनः शुष्यन्परिगतः क्षुधा । न त्वेवानात्मसम्पन्नादृद्धिमीहेत पण्डितः ॥ २५८ ॥ सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् । आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः ॥ २५९ ॥ यमाश्रित्य न विश्रामं क्षुधार्ता यान्ति सेवकाः । सोऽर्कवन्नृपतिस्त्याज्यः सदा पुष्पफलोऽपि सन् ॥ २६० ॥ जीवेति प्रभुणावोक्तः कृत्यं कृत्यविचक्षणः । करोति निर्विकल्पं यः स भवेद्राजवल्लभः ॥ २६१ ॥ प्रभुप्रसादजं वित्तं सुपात्रे यो नियोजयेत् । वस्त्राद्यं विदधात्यङ्गे स भवेद्राजवल्लभः ॥ २६२ ॥ अन्तःपुरचरैः सार्धं यो मन्त्रं न समाचरेत् । न कलत्रैर्नरेन्द्रस्य स भवेद्राजवल्लभः ॥ २६३ ॥ समतोऽहं प्रभोर्नित्यमिति मत्वा व्यतिक्रमेत् । कृच्छ्रेष्वपि न मर्यादां स भवेद्राजवल्लभः ॥ २६४ ॥ द्विषि द्वेषपरो नित्यमिष्टानामिष्टकर्मकृत् । यो नरो नरनाथस्य स भवेद्राजवल्लभः ॥ २६५ ॥ द्यूतं यो यमदूताभं हालां हालाहलोपमाम् । पश्येद्दारान्व्यथाकारान्स भवेद्राजवल्लभः ॥ २६६ ॥ युद्धकालेऽग्रगो यः स्यात्सदा पृष्ठानुगः पुरे । प्रभोर्द्वाराश्रितो हर्म्ये स भवेद्राजवल्लभः ॥ २६७ ॥ दुराराध्या हि राजानः पर्वता इव सर्वदा । व्यालाकीर्णाः सुविषमाः कठिना दुःखसेविताः ॥ २६८ ॥ दुरारोहं पदं राज्ञां सर्वलोकनमस्कृतम् । स्वल्पेनाप्यपचारेण ब्राह्मण्यमिव दुष्यति ॥ २६९ ॥ दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः । तिष्ठन्त्याप इवाधारे चिरमात्मनि संस्थिताः ॥ २७० ॥ अनभिज्ञो गुणानां यो न भृत्यैरनुगम्यते । धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥ २७१ ॥ सव्यदक्षिणयोर्यत्र विशेषो नोपलभ्यते ।


^१ मरुभूमे
^२ व्याघ्रादिश्र्वापदसंकुला, पक्षे,-सचिवादिकुटिलमतिपरिवृता

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह) · पृष्ठ 163, कुल 516 में से · BharatKosha