भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 164, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 164
राजनीतिः१४९

कस्तत्र क्षणमप्यार्यो विद्यमानगतिर्वसेत् ॥ २७२ ॥ काचे मणिर्मणौ काचो येषा बुद्धि. प्रवर्त्तते । न तेषा सन्निधौ भृत्यो नाममात्रोऽपि तिष्ठति ॥ २७३ ॥ यस्मिन्कृत्यं समावेश्य निर्विशङ्केन चेतसा । आस्यते सेवक. स स्यात्कलत्रमिव चापरम् ॥ २७४ ॥ य कृत्वा सुकृत राज्ञो दुष्कर हितमुत्तमम् । लज्जया वक्ति नो किञ्चित्तेन राजा सहायवान् ॥ २७५ ॥ कुत सेवाविहीनाना चामरोद्धतसपद । उद्दण्डधवलच्छत्रवाजिवारणवाहिनी ॥ २७६ ॥ अपि स्वल्पमसत्य य. पुरो वदति भूभुजाम् । देवाना च विनश्येत स द्रुतं सुमहानपि ॥ २७७ ॥ अकुलीनोऽपि मूर्खोऽपि भूपाल योऽत्र सेवते । अपि समानहीनोऽपि स सर्वत्रापि पूज्यते ॥ २७८ ॥ अपि कापुरुषो भीरु. स्याच्चेन्नृपतिसेवक । यदामोति बल लोकात्तत्साश्रमपि नो गुणी ॥ २७९ ॥ यत्सकाशात्न लाभ. स्यात्केवला. स्युर्विपत्तय. । स स्वामी दूरतस्त्याज्यो विशेषादनुजीविभिः ॥ २८० ॥ फलहीन नृपं भृत्याः कुलीनमपि चोन्नतम् । सत्यज्यान्यत्र गच्छन्ति शुष्कं वृक्षमिवान्डजाः ॥ २८१ ॥ भूप. कूप इवाभाति नैमज्जनसुखावह<sup></sup> । ददाति गुणसम्बन्धाद्यथा<sup></sup> पात्रानुरूपत. ॥ २८२ ॥ अपि समानसयुक्ता कुलीना भक्तितत्पराः । वृत्तिभङ्गान्म्हीपालं त्यक्त्वा यान्ति सुसेवका. ॥ २८३ ॥ कालातिक्रमण वृत्तेर्यो न कुर्वीत भूपतिः । कदाचित्त न मुञ्चन्ति भर्त्सिता अपि सेवका ॥ २८४ ॥ देशानामुपरि क्ष्मापा आतुगणा चिकित्सकाः । वाणिजो ग्राहकाणा च मूर्खाणामपि पण्डिता ॥ २८५ ॥ प्रमादिना तथा चौरा भिक्षुका गृहमेधिनाम् । गणिका कामुकाना च सर्वलोकस शिल्पिनः ॥ २८६ ॥ सामादिसजितैः पाशैः प्रतीक्षन्ते दिवानिशम् । भुञ्जते च यथाशक्ति जलजाञ्जलजा यथा ॥ २८७ ॥ शनै. शनैश्च यो राज्यमुपभुङ्क्ते यथाबलम् । रसायनमिव प्राज्ञः स पुष्टि परमा व्रजेत् ॥ २८८ ॥ विधिना मन्त्रयुक्तेन रूक्षापि मथितापि च । प्रयच्छति फलं भूमिररणीव हुताशनम् ॥ २८९ ॥ प्रजाना पालन शस्तं स्वर्गकोशस्य वर्धनम् । पीडन धर्मनाशाय पापायायशसे स्थितम् ॥ २९० ॥ गोपालेन प्रजाधेनोर्विन्तदुग्ध शनै. शनैः । पालनात्पोषणाद्वाह्यं न्याय्या वृत्ति समाचरेत् ॥ २९१ ॥ फलार्थी नृपतिर्लोकान्पालयेद्यत्नमास्थितः । दानमानादितोयेन मालाकारोऽङ्कुरानिव ॥ २९२ ॥ नृपदीपौ धनस्नेहं प्रजाभ्यः संहरन्नपि । अन्तरस्थैर्गुणैः शुभ्रैर्लक्ष्येते नैव केनचित् ॥ २९३ ॥ यथा गौर्दुह्यते काले पाल्यते च तथा प्रजा । सिच्यते चीयते चैव लता पुष्पफलप्रदा ॥ २९४ ॥ लोकानुग्रहकर्त्तार प्रवर्धन्ते नरेश्वरा. ॥ लोकाना सक्षयाच्चैव क्षय यान्ति न सशय ॥ २९५ ॥ उत्तिष्ठमानस्तु परो नोपेक्ष्य पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्द्धन्तावामयः स च ॥ २९६ ॥ मृताना स्वामिन कार्ये भृत्यानामनुवर्तिनाम् । भवेत्स्वर्गेऽक्षयो वास. कीर्तिश्च धरणीतले ॥ २९७ ॥ न यज्श्वानोऽपि गच्छन्ति ता गति नैव योगिनः । या यान्ति प्रोज्झितप्राणा. स्वाम्यर्थे सेवकोत्तमा. ॥ २९८ ॥ चाग्तरस्करदुर्वृत्तैस्तथा साहसि-कादिभिः । पीड्यमाना प्रजा रक्ष्या. कूटच्छद्मादिभिस्तथा ॥ २९९ ॥ प्रजाना धर्मषड्भागो राज्ञो भवति रक्षितु । अधर्मादपि षड्भागो जायते यो न रक्षति ॥ ३०० ॥ राजा बन्धुरबन्धूना राजा चक्षुरचक्षुषाम् । राजा पिता च माता च सर्वेषा न्यायवर्तिनाम् ॥ ३०१ ॥ गुणालयोऽप्यसन्मन्त्री नृपतिर्नाधिगम्यते । प्रसन्नस्वादुसलिलो दुष्टग्राहो यथा हृदः ॥ ३०२ ॥ चित्रास्वादकथैर्भृत्यैरनायासितकार्मुकैः । ये रमन्ते नृपास्तेषा रमन्ते रिपव श्रिया ॥ ३०३ ॥ य. समानं समाधत्ते भृत्याना क्षितिपोऽधिकम् । वित्ताभावेऽपि त दृष्ट्वा ते त्यजन्ति न कर्हिचित् ॥ ३०४ ॥ विश्वास. सपदा मूलं तेन यूथपतिर्गजः । सिहो मृगाधिपत्येऽपि न मृगैरुपयुज्यते ॥ ३०५ ॥ कारुण्य सविभागश्च यस्य भृत्येषु सर्वदा । समर्तेत्स महीपालस्त्रैलोक्यस्यापि रक्षणे ॥ ३०६ ॥ अपृष्टस्तु नर. किञ्चियो ब्रूते राजसंसदि । न केवलमसमान लभते च विडम्बनम् ॥ ३०७ ॥ अजन्मा पुरुषस्तावद्द्वातामुस्तृणमेव वा । यावन्नेषुमिरोदत्ते विलुप्तमरिभिर्यशः ॥ ३०८ ॥ विपाकदारुणो राज्ञा रिपुरल्पोऽप्यरुतुद. । उद्वेजयति सूक्ष्मोऽपि चरणं कण्टकाङ्कुर. ॥ ३०९ ॥ निर्विषोऽपि यथा सर्पः फटाटोपैर्भयंकर. । तथाडम्बरवान्राजा न परैः परिभूयते ॥ ३१० ॥ भूर्मिमित्रं हिरण्यं वा विग्रहस्य फलत्रयम् । नास्त्येकपि यद्येषा न तत्कुर्यात्कथंचन ॥ ३११ ॥ सामैव हि प्रयोक्तव्यमादौ कार्य विजानता । सामसिद्धानि कार्याणि विक्रिया यान्ति न क्वचित् ॥ ३१२ ॥ शपथै. सधितस्यापि न विश्वासं ब्रजेद्विपोः । राज्यलोभोद्यतो विप्र. शक्रेण शपथैर्हत ॥ ३१३ ॥ उपकारगृहीतेन शत्रुणार शत्रुमुद्धरेत् । पादलमं करस्थेन कण्टकेनेव कण्टकम् ॥ ३१४ ॥


१ नमन्ते नम्रा ये जनास्तेषा सुपावह, पक्षे,-मज्जने सुखावहो न भवतीति नमज्जनसुखावह
२ विद्याविनयादि . पक्षे,-रज्जब