सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
| राजनीतिः | १४९ |
|---|
कस्तत्र क्षणमप्यार्यो विद्यमानगतिर्वसेत् ॥ २७२ ॥ काचे मणिर्मणौ काचो येषा बुद्धि. प्रवर्त्तते । न तेषा सन्निधौ भृत्यो नाममात्रोऽपि तिष्ठति ॥ २७३ ॥ यस्मिन्कृत्यं समावेश्य निर्विशङ्केन चेतसा । आस्यते सेवक. स स्यात्कलत्रमिव चापरम् ॥ २७४ ॥ य कृत्वा सुकृत राज्ञो दुष्कर हितमुत्तमम् । लज्जया वक्ति नो किञ्चित्तेन राजा सहायवान् ॥ २७५ ॥ कुत सेवाविहीनाना चामरोद्धतसपद । उद्दण्डधवलच्छत्रवाजिवारणवाहिनी ॥ २७६ ॥ अपि स्वल्पमसत्य य. पुरो वदति भूभुजाम् । देवाना च विनश्येत स द्रुतं सुमहानपि ॥ २७७ ॥ अकुलीनोऽपि मूर्खोऽपि भूपाल योऽत्र सेवते । अपि समानहीनोऽपि स सर्वत्रापि पूज्यते ॥ २७८ ॥ अपि कापुरुषो भीरु. स्याच्चेन्नृपतिसेवक । यदामोति बल लोकात्तत्साश्रमपि नो गुणी ॥ २७९ ॥ यत्सकाशात्न लाभ. स्यात्केवला. स्युर्विपत्तय. । स स्वामी दूरतस्त्याज्यो विशेषादनुजीविभिः ॥ २८० ॥ फलहीन नृपं भृत्याः कुलीनमपि चोन्नतम् । सत्यज्यान्यत्र गच्छन्ति शुष्कं वृक्षमिवान्डजाः ॥ २८१ ॥ भूप. कूप इवाभाति नैमज्जनसुखावह<sup>१</sup> । ददाति गुणसम्बन्धाद्यथा<sup>२</sup> पात्रानुरूपत. ॥ २८२ ॥ अपि समानसयुक्ता कुलीना भक्तितत्पराः । वृत्तिभङ्गान्म्हीपालं त्यक्त्वा यान्ति सुसेवका. ॥ २८३ ॥ कालातिक्रमण वृत्तेर्यो न कुर्वीत भूपतिः । कदाचित्त न मुञ्चन्ति भर्त्सिता अपि सेवका ॥ २८४ ॥ देशानामुपरि क्ष्मापा आतुगणा चिकित्सकाः । वाणिजो ग्राहकाणा च मूर्खाणामपि पण्डिता ॥ २८५ ॥ प्रमादिना तथा चौरा भिक्षुका गृहमेधिनाम् । गणिका कामुकाना च सर्वलोकस शिल्पिनः ॥ २८६ ॥ सामादिसजितैः पाशैः प्रतीक्षन्ते दिवानिशम् । भुञ्जते च यथाशक्ति जलजाञ्जलजा यथा ॥ २८७ ॥ शनै. शनैश्च यो राज्यमुपभुङ्क्ते यथाबलम् । रसायनमिव प्राज्ञः स पुष्टि परमा व्रजेत् ॥ २८८ ॥ विधिना मन्त्रयुक्तेन रूक्षापि मथितापि च । प्रयच्छति फलं भूमिररणीव हुताशनम् ॥ २८९ ॥ प्रजाना पालन शस्तं स्वर्गकोशस्य वर्धनम् । पीडन धर्मनाशाय पापायायशसे स्थितम् ॥ २९० ॥ गोपालेन प्रजाधेनोर्विन्तदुग्ध शनै. शनैः । पालनात्पोषणाद्वाह्यं न्याय्या वृत्ति समाचरेत् ॥ २९१ ॥ फलार्थी नृपतिर्लोकान्पालयेद्यत्नमास्थितः । दानमानादितोयेन मालाकारोऽङ्कुरानिव ॥ २९२ ॥ नृपदीपौ धनस्नेहं प्रजाभ्यः संहरन्नपि । अन्तरस्थैर्गुणैः शुभ्रैर्लक्ष्येते नैव केनचित् ॥ २९३ ॥ यथा गौर्दुह्यते काले पाल्यते च तथा प्रजा । सिच्यते चीयते चैव लता पुष्पफलप्रदा ॥ २९४ ॥ लोकानुग्रहकर्त्तार प्रवर्धन्ते नरेश्वरा. ॥ लोकाना सक्षयाच्चैव क्षय यान्ति न सशय ॥ २९५ ॥ उत्तिष्ठमानस्तु परो नोपेक्ष्य पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्द्धन्तावामयः स च ॥ २९६ ॥ मृताना स्वामिन कार्ये भृत्यानामनुवर्तिनाम् । भवेत्स्वर्गेऽक्षयो वास. कीर्तिश्च धरणीतले ॥ २९७ ॥ न यज्श्वानोऽपि गच्छन्ति ता गति नैव योगिनः । या यान्ति प्रोज्झितप्राणा. स्वाम्यर्थे सेवकोत्तमा. ॥ २९८ ॥ चाग्तरस्करदुर्वृत्तैस्तथा साहसि-कादिभिः । पीड्यमाना प्रजा रक्ष्या. कूटच्छद्मादिभिस्तथा ॥ २९९ ॥ प्रजाना धर्मषड्भागो राज्ञो भवति रक्षितु । अधर्मादपि षड्भागो जायते यो न रक्षति ॥ ३०० ॥ राजा बन्धुरबन्धूना राजा चक्षुरचक्षुषाम् । राजा पिता च माता च सर्वेषा न्यायवर्तिनाम् ॥ ३०१ ॥ गुणालयोऽप्यसन्मन्त्री नृपतिर्नाधिगम्यते । प्रसन्नस्वादुसलिलो दुष्टग्राहो यथा हृदः ॥ ३०२ ॥ चित्रास्वादकथैर्भृत्यैरनायासितकार्मुकैः । ये रमन्ते नृपास्तेषा रमन्ते रिपव श्रिया ॥ ३०३ ॥ य. समानं समाधत्ते भृत्याना क्षितिपोऽधिकम् । वित्ताभावेऽपि त दृष्ट्वा ते त्यजन्ति न कर्हिचित् ॥ ३०४ ॥ विश्वास. सपदा मूलं तेन यूथपतिर्गजः । सिहो मृगाधिपत्येऽपि न मृगैरुपयुज्यते ॥ ३०५ ॥ कारुण्य सविभागश्च यस्य भृत्येषु सर्वदा । समर्तेत्स महीपालस्त्रैलोक्यस्यापि रक्षणे ॥ ३०६ ॥ अपृष्टस्तु नर. किञ्चियो ब्रूते राजसंसदि । न केवलमसमान लभते च विडम्बनम् ॥ ३०७ ॥ अजन्मा पुरुषस्तावद्द्वातामुस्तृणमेव वा । यावन्नेषुमिरोदत्ते विलुप्तमरिभिर्यशः ॥ ३०८ ॥ विपाकदारुणो राज्ञा रिपुरल्पोऽप्यरुतुद. । उद्वेजयति सूक्ष्मोऽपि चरणं कण्टकाङ्कुर. ॥ ३०९ ॥ निर्विषोऽपि यथा सर्पः फटाटोपैर्भयंकर. । तथाडम्बरवान्राजा न परैः परिभूयते ॥ ३१० ॥ भूर्मिमित्रं हिरण्यं वा विग्रहस्य फलत्रयम् । नास्त्येकपि यद्येषा न तत्कुर्यात्कथंचन ॥ ३११ ॥ सामैव हि प्रयोक्तव्यमादौ कार्य विजानता । सामसिद्धानि कार्याणि विक्रिया यान्ति न क्वचित् ॥ ३१२ ॥ शपथै. सधितस्यापि न विश्वासं ब्रजेद्विपोः । राज्यलोभोद्यतो विप्र. शक्रेण शपथैर्हत ॥ ३१३ ॥ उपकारगृहीतेन शत्रुणार शत्रुमुद्धरेत् । पादलमं करस्थेन कण्टकेनेव कण्टकम् ॥ ३१४ ॥
१ नमन्ते नम्रा ये जनास्तेषा सुपावह, पक्षे,-मज्जने सुखावहो न भवतीति नमज्जनसुखावह
२ विद्याविनयादि . पक्षे,-रज्जब
१५० सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
नोपेक्षितव्यो विद्वद्भिः शत्रुरल्पोऽप्यवज्ञया । बहिरल्पोऽपि संवृद्धः कुरुते भस्मसाद्वनम् ॥ ३१५ ॥
कौर्मं संकोचमास्थाय प्रहारानपि मर्षयेत् । प्राप्ते काले च मतिमांस्तिष्ठेत्कृष्णसर्पवत् ॥ ३१६ ॥
स्वाम्यमात्यश्च राज्यं च कोषो दुर्गं बलं सुहृत् । एतावदुच्यते राज्यं सत्त्वबुद्धिव्यपाश्रयम् ॥ ३१७ ॥
संविविग्रहयानानि संस्थिति संश्रयस्तथा । द्वैधीभावश्च भूपानां षड्गुणा परिकीर्तिताः ॥ ३१८ ॥
उत्साहश्च प्रभोर्मन्त्रस्तैवं शक्तित्रयं मतम् । आत्मनः सुहृदश्चैव तन्मित्रस्योदयास्त्रयः ॥ ३१९ ॥
सामदाने भेददण्डावित्यपायचतुष्टयम् । हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ३२० ॥
क्षत्रियस्योपरि क्षत्रं पृष्ठे ब्रह्म व्यवस्थितम् । तेन पृष्ठं न दातव्यं पृष्ठदो ब्रह्महा भवेत् ॥ ३२१ ॥
रक्षाविकागदीशत्वादहूतानुग्रहकारणात् । यदेव कुरुते राजा तत्प्रमाणमिति स्थितिः ॥ ३२२ ॥
राजा नाम चरत्येष भूमौ साक्षात्महस्रदृक् । न तस्याज्ञामतिक्रम्य सतिष्ठेरन्निमा प्रजा ॥ ३२३ ॥
राज्ञामाज्ञामयाद्यस्मान्न च्यवन्ते पथः प्रजाः । व्यवहारस्ततो ज्ञेयः शान्तितो राजशासनम् ॥ ३२४ ॥
नित्यार्यपृथिवीपालैश्चारित्रविधयः कृताः । चारित्रेभ्यस्ततः प्राहुर्गरीयो राजशासनम् ॥ ३२५ ॥
पुष्पैरपि न योद्धव्यं किं पुनर्निंशितैः शरैः । जये भवति संदेहः प्रधानपुरुषक्षय ॥ ३२६ ॥
अभिभूतोऽप्यवज्ञातो यो राज्ञा द्वारि तिष्ठति । स तु राज्ञा श्रियं भुङ्क्ते नाभिमानी कदाचन ॥ ३२७ ॥
अन्तःपुरधनाध्यक्षैर्वैरिमूते निराकृते । संसर्गं न व्रजेल्लोके विना पार्थिवशासनात् ॥ ३२८ ॥
जृम्भा निष्ठीवन कौर्ये कोपं पर्यङ्गिका श्रमम् । भ्रुकुटिं वातमुद्रा च तत्समीपे विवर्जयेत् ॥ ३२९ ॥
राज्ञस्तु दर्शनं कुर्याज्ज्ञात्वावसरसौष्ठवम् । गुणादिख्यापनात्पूर्वमुपनीतो महाशयैः ॥ ३३० ॥
दर्शनं नाधमद्वारा राज्ञः कार्य विपश्चिता । गरिष्ठोऽप्यतिनीचः स्यादुपनीतो लघुर्भवेत् ॥ ३३१ ॥
शत्रोरत्यन्तमित्रं यत्तेन मैत्रीं विवर्जयेत् । अर्दयेत्तद्विरोधेन प्रतिष्ठाघातकारिणा ॥ ३३२ ॥
यत्रात्मीयो जनो नास्ति भेदस्तत्र न विद्यते । कुठारैर्दण्डनिर्मुक्तेर्भिद्यन्ते तरवः कथम् ॥ ३३३ ॥
एतदर्थ कुलीनानां नृपाः कुर्वन्ति संग्रहम् । आदिमध्यावसानेषु न ते यास्यन्ति विक्रियाम् ॥ ३३४ ॥
सर्व एव जनः शूरो ह्यनासादितसङ्गरः । अदृष्टपरसामर्थ्यः सर्पः को भवेन्नहि ॥ ३३५ ॥
रुष्टोऽपि राजा यद्दद्यान्न तुष्टो वाणिग्जनः । अतो भूमिपतिः सेव्यस्त्याज्यो दूरतरेण स ॥ ३३६ ॥
नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् । विसृजेन्नैव लुब्धेभ्यो विश्वसेनापकारिषु ॥ ३३७ ॥
चरेद्धीमानकटको युञ्जेत्स्नेहं न नास्तिक । अनृशंसश्चरेदर्थं चरेत्कार्यमनुद्धतः ॥ ३३८ ॥
सदधीत न चानायैर्विगृहीयान्न बन्धुभिः । नाभक्तं चारयेच्चारं कुर्यात्कार्यमपीडया ॥ ३३९ ॥
सर्वे यत्र विनेतारः सर्वे यत्राभिमानिनः । सर्वे महत्त्वमिच्छन्ति कुल तदवसीदति ॥ ३४० ॥
अकृत्वा निजदेशस्य रक्षा यो विजिगीषते । स नृपः परिधानेन वृतमौलिः पुमानिव ॥ ३४१ ॥
विजिगीषुररिर्मित्र पार्ष्णिग्राहोऽप्यमध्यमः । उदासीनोऽन्तरान्तर्धिरित्येषा नृपते स्थितिः ॥ ३४२ ॥
गृध्राकारोऽपि सेव्यः स्याद्धंसाकारैः सभासदैः । हंसाकारोऽपि सन्त्याज्यो गृध्राकारैः सभासदैः ॥ ३४३ ॥
ये ह्याहवेषु वध्यन्ते स्वाम्यर्थमपराङ्मुखा । विकटैरायुधैर्यान्ति ते स्वर्ग योगिनो यथा ॥ ३४४ ॥
पदानि क्रतुतुल्यानि आहवेष्वनिवर्तिनाम् । राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥ ३४५ ॥
तवाहवादिनं क्लीबं निर्हेतिं परमागतम् । न हन्याद्विनिवृत्त च युद्धं प्रेक्षितुमागतम् ॥ ३४६ ॥
सुतभृत्यसुहृद्वारिखामिसङ्गुरुदैवते । एकैकोत्तरतो वृद्ध्या श्रीकारः पत्रमूर्धनि ॥ ३४७ ॥
सपक्षो लभते काको वृक्षस्य विविधं फलम् । पक्षहीनो मृगेन्द्रोऽपि भूमिसस्थो निरीक्षते ॥ ३४८ ॥
सपक्षो लभते लक्षं गुणमुक्तोऽपि मार्गणः । न लक्षस्थो विपक्षः स्याद्गुणैरापूर्यते यदि ॥ ३४९ ॥
परस्परात्तुरक्ता ये योधाः शार्ङ्गधनुर्धराः । सन्नद्धास्तुरगारूढास्ते जयन्ति रणे रिपून् ॥ ३५० ॥
जिते लक्ष्मीर्मृते स्वर्गः कीर्तिश्च धरणीतले । तस्माद्युद्ध विधातव्यं हन्तव्या परवाहिनी ॥ ३५१ ॥
विधाय वैर सामर्षे नरोऽरौ य उदासते । प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम् ॥ ३५२ ॥
सद्वंशसंभवः शुद्धः कोटिदोऽपि गुणान्वितः । काम धनुरिव क्रूरो वर्जनीयः सतां प्रभुः ॥ ३५३ ॥
असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः । अनाक्रम्य जगत्कृत्स्नं नो सध्या मजते रविः ॥ ३५४ ॥
चिन्त्यते नय एवादावमन्द समुपेप्सुभिः । विनम्य पूर्वं सिंहोऽपि हन्ति हस्तिनमोजसा ॥ ३५५ ॥
स्वजातीयं विना वैरी न जय्यः स्यात्कदाचन । विना वज्रमणि मुक्तामणिर्भेदः कथं भवेत् ॥ ३५६ ॥
युक्त्या परोक्ष बाधेत विप्रैक्षक्षपणक्षमः । शोषयत्यचिरेणैव प्रान्तरस्थमलं पयः ॥ ३५७ ॥
दुर्गदेशप्रविष्टोऽपि शूरोऽभ्येति पराभवम् । गाढपङ्कनिमग्नो मातङ्गोऽप्यवसीदति ॥ ३५८ ॥ नये-
१ ज्वालामालिनमग्निम् २ तृणसमूहे ३ शत्रुवर्गीयोन्मूलनसमर्थे
राजनीतिः १५१
| नाङ्कुरितं शौर्य जयाय न तु केवलम् । अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा मृतिः ॥ ३५९ ॥ मृदुभिर्बहुभिः शूर पुंभिरेको न बाध्यते । कपोतपोतकैरैकः श्येनो जातु न बाध्यते ॥ ३६० ॥ विपक्षमनिखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कता धूलिमुदकं नावतिष्ठते ॥ ३६१ ॥ म्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम् । पुरः क्लिश्नाति सोमं हि सैहिकेयोऽसुरद्रुहाम् ॥ ३६२ ॥ रिक्ताः कर्मणि पटवस्तृप्तास्त्वलसा भवन्ति भृत्या ये । तेषां जलौकसामिव पूर्णीनां रिक्तता कार्या ॥ ३६३ ॥ गन्तव्या राजसभा द्रष्टव्या राजपूजिता लोकाः । यद्यपि न भवन्त्यर्थास्तथाप्यनर्था विनश्यन्ति ॥ ३६४ ॥ अतितेजस्यपि राजा पानासक्तो न साधयत्यर्थान् । तृणमपि दग्धुमशक्तो वडवाग्निः सपिबत्यब्धिम् ॥ ३६५ ॥ अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् । नवसरोपणशिथिलस्तरुख सुखकरः समुद्धर्तुम् ॥ ३६६ ॥ सप्रतिबन्धं कार्यं प्रभुरधिगन्तुं सहायवानेव । दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥ ३६७ ॥ अभिमुखनिहतस्य सतस्तिष्ठतु तावज्जयोऽथवा स्वर्गः । उभयबलसाधुवादश्रवणसुखस्यैव नास्त्यन्तः ॥ ३६८ ॥ अविवेकमतिर्नृपतिर्मन्त्री गुणवत्सु वक्रितग्रीवः । यत्र खलाश्रय प्रबलास्तत्र कथं सज्जनावसरः ॥ ३६९ ॥ अतिगम्भीरे भूपे कूप इव जनस्य दुरवतारस्य । दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः ॥ ३७० ॥ १सद्वनम॑२सद॒नुशासनमाश्रितभरणं च राजचिह्नानि । अभिषेकः पटबन्धो बालव्यजनं व्रणस्यापि ॥ ३७१ ॥ यदि तव हृदयं विद्वन्सुनयं स्वमेऽपि मा स्म सेविष्ठाः । सचिवजितं षण्डजितं युवतिजितं चैव राजानम् ॥ ३७२ ॥ आश्रयितव्यो नरपतिरर्जयितव्यानि भूरि वित्तानि । आरब्धव्यं वितरणमानेतव्यं यशोऽपि दशदिग्भ्यः ॥ ३७३ ॥ असमैः समीहमानः समैश्च परिहीयमाणसत्कारः । धुरि यो न युज्यमानस्त्रिमिरर्थपतिं त्यजति भृत्यः ॥ ३७४ ॥ अनुयातानेकजनः परपुरुषैरुह्यतेऽस्य निजदेहः । अधिकारस्थः पुरुषः शव इव न शृणोति वीक्षते कुमतिः ॥ ३७५ ॥ स क्षत्रियस्त्राणसहः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः । वहन्दवीं यद्यफलेऽर्थजाते करोत्यसत्कारहतामिवोक्तिम् ॥ ३७६ ॥ क्षतात्किल त्रायत इत्युदग्रं क्षत्रस्य शब्दो भुवनेषु रूढः । राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥ ३७७ ॥ अत्युच्छ्रिते मन्त्रिणि पार्थिवे च ३विष्टभ्य पादावुपतिष्ठते श्रीः । सा स्त्रीस्वभावादसहा भरस्य | तयोर्द्वयोरेकतरं जहाति ॥ ३७८ ॥ यः काकिनीमप्यपथप्रपन्नां समुद्धरेन्निष्कसहस्रतुल्याम् । कालेषु कोटिष्वपि मुक्तहस्तस्तं राजसिंहं न जहाति लक्ष्मीः ॥ ३७९ ॥ उपेक्षितः क्षीणबलोऽपि शत्रुः प्रमाददोषात्पुरुषैर्मदान्धैः । साध्योऽपि भूत्वा प्रथमं ततोऽसावसाध्यतां व्याधिरिव प्रयाति ॥ ३८० ॥ मित्राणि शत्रुत्वमिवानयन्ती मित्रत्वमप्यवशाच्च शत्रून् । नीतिर्नयत्यस्मृतपूर्ववृत्तं जन्मान्तरं जीवत एव पुंसः ॥ ३८१ ॥ सन्मन्त्रिणा वर्धयते नृपाणां लक्ष्मीमहीधर्मयशःसमूहम् । दुर्मन्त्रिणा नाशयते तथैव लक्ष्मीमहीधर्मयशःसमूहः ॥ ३८२ ॥ नियुक्तहस्तार्पितराज्यभारास्तिष्ठन्ति ये सौधविहारसाराः । बिडालवृन्दार्पितदुग्धपूराः स्वपन्ति ते मूढधियः क्षितीन्द्राः ॥ ३८३ ॥ सुहृदामुपकारकारणाद्विषतामप्यपकारकारणात् । नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥ ३८४ ॥ १विषमोऽपि २विगाह्यते नयैः ३कृततीर्थः पयसामिवाशयः । स तु तत्र ६विशेषदुर्लभः ५संदुपन्यसति ४कृत्यवर्त्म यैः ॥ ३८५ ॥ द्विषतामुदयः सुमेधसा गुरुर७त्यन्ततरः सुमर्षणः । न महानपि भूतिमिच्छता ८फलसंपत्प्रवणः परिक्ष्यः ॥ ३८६ ॥ अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः । क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥ ३८७ ॥ अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषताम् ९अनीहया । अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ॥ ३८८ ॥ क्षययुक्तमपि स्वभावजं दधतं १०धाम शिवं समृद्धये । प्रणयन्त्यनपायसुस्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ॥ ३८९ ॥ प्रभवः खलु ११कोश१२दण्डयोः १३कृतपञ्चाङ्गविनिर्णयो नयः । स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥ ३९० ॥ अभिमानवतो मनस्विनः प्रियसूक्तेः पदमारुरुक्षतः । विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ॥ ३९१ ॥ विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपैतमायतिः । नियता लघुता निरायतेरगरीयान् पदं नृपश्रियः ॥ ३९२ ॥ चञ्चलं वसु नितान्तमुन्नतां मेदिनीमपि हरन्त्यरातयः । भूधरस्थिरमुपे- |
१ सतामवनं रक्षणम्
२ दुष्टशासनम्
३ अभ्युन्नते.
.१ दुर्बोधोऽपि; पक्षे,-दुःप्रवेशोऽपि.
२ विगृह्यते, पक्षे,-प्रविश्यते
३ कृताभ्यासथोपायः सन्; पक्षे,-कृतजलावतारः सन्
४ देशकालाद्यविरुद्धम्, यथार्थमित्यर्थः, पक्षे,-गर्तेग्राहपाषाणादिरहितम्
५ संधिविग्रहादिकार्यम्; पक्षे,-स्नानादिकम्.
६ यथा केचित्कृततीर्थे पयसि गम्भीरेऽपि प्रवेष्टारः सन्ति, तीर्थकरस्तु विरलः, तद्वन्नीतावपि निगूढमपि तत्त्वं सति वक्तारि बोद्धारः सन्ति, वक्ता तु न सुलभ इत्यर्थः.
७ अत्यन्तदुरन्तः क्षयोन्मुख इत्यर्थः
८ फलसिद्धयुन्मुखः.
९ अनुत्साहेन.
१० क्षात्रं तेजः; पक्षे,-प्रकाशम्
११ अर्थराशिः.
१२ तुरगसैन्यम्.
१३ 'सहायाः साधनोपाया विभागो देशकालयोः । विनिपातः प्रतीकारः सिद्धिः पञ्चाङ्ग इष्यते ॥' इति.
१५२ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
रामागतं मावमंस्त सुहृदं महीपतिम् ॥ ३९३ ॥ आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च । येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ ३९४ ॥ स किन्सखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसंपदः ॥ ३९५ ॥ नराधिपा नीचजनानुवर्तिनो बुधोपदिष्टेन न यान्ति ये पथा । विशन्त्यतो दुर्गममार्गनिर्र्गमं समस्तसबाधमनर्थपञ्जरम् ॥ ३९६ ॥ नृपोऽपकृष्टः सचिवात्तदर्पणः स्तनन्धयोऽन्तन्शिशुः स्तनादिव । अदृष्टलोकव्यवहारमूढधीर्मुहूर्तमुत्सहते न वर्तितुम् ॥ ३९७ ॥ व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः ॥ ३९८ ॥ क्रतौ विवाहे व्यसने रिपुक्षये यशस्करे कर्मणि मित्रसंग्रहे । प्रियासु नारीष्वथनेषु बन्धुषु धनव्ययस्तेषु न गण्यते बुधैः ॥ ३९९ ॥ परं विनीतत्वमुपैति सेवया महीपतीनां विनयो हि भूषणम् । प्रवृत्तदानो मृदुसंचरत्करैः करीव भद्रो विनयेन शोभते ॥ ४०० ॥ अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥ ४०१ ॥ यदि समग्रमपास्य नास्ति मृत्योर्भयमिति युक्तमितोऽन्यतः प्रयातुम् । अथ मरणमवश्यमेव जन्तोः किमिति मुधा मलिनं यशः क्रियेत ॥ ४०२ ॥ आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसङ्गतं वा । प्रायेण भूमिपतयः प्रमदा लताश्च यः पार्श्वतो भवति तं परिवेष्टयन्ति ॥ ४०३ ॥ सत्यानृता च रुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या । नित्यव्यया प्रचुरनित्यधनागमा च वेश्याङ्गनेव नृपनीतिरनेकरूपा ॥ ४०४ ॥ राजन्दुधुक्षसि यदि क्षितिधेनुमेतां तेनाद्य वत्समिव लोकममुं पुषाण । तस्मिंश्च सम्यगनिशं परिपोष्यमाणे नानाफलैः फलति कल्पलतेव भूमिः ॥ ४०५ ॥ सिध्यन्ति कर्मसु महत्स्वपि येन्नियोज्याः संभाव्यानुगुणमवेहि तैर्मीश्वराणाम् । किं प्राभविष्यदरुणेनतमसां वधाय तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥ ४०६ ॥ तातार्थमन्त्रिसुतसोदरपण्डितानां नित्यं भजन्ति विभजीकृतभव्यभोगान् । तस्मात्कदाचन रहस्यपि तद्विधानामाज्ञां विभज्य न दिशन्ति मही महीशाः ॥ ४०७ ॥ ये बाह्वोर्न युधि वैरिकठोर-
कण्ठपीठोच्छलद्रुधिरराजिविराजितासाः । नापि प्रियापृथुपयोधरपत्रमङ्गस्र्रक्रान्तकुङ्कुमरसाः खलु निष्फलास्ते ॥ ४०८ ॥ नरपतिहितकर्ता द्वेष्यतां याति लोके जनपदहितकर्ता त्यज्यते पार्थिवेन । इति महति विरोधे विद्यमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥ ४०९ ॥ नियतविषयवर्ती प्रायशो दण्डयोगाज्जगति परवशेऽस्मिन्दुल्लभः साधुवृत्तः । कृशमपि विकलं वा व्याधितं वाऽधनं वा पतिमपि कुलनाborder... कुलनारी दण्डभीत्याऽभ्युपैति ॥ ४१० ॥ नृपः कामासक्तो गणयति न कार्यं न च हितं यथेच्छं स्वच्छन्दश्चरति किल मत्तो गज इव । ततो मानाध्मातः पतति तु यदा शोकगहने तदा भृत्येषु दोषान्निक्षिपति न निजं वेत्त्यविनयम् ॥ ४११ ॥ अवज्ञानात्प्राज्ञो भवति मतिहीनः परिजनस्ततस्तन्नामोध्याद्रवति न समीपे बुधजनः । बुधैस्त्यक्ते राज्ये न हि भवति नीतिर्गुणवती विपन्नायां नीतौ सकलमवशं सीदति जगत् ॥ ४१२ ॥ अयुक्तं युक्तं वा यदभिहितमज्ञेन विपुना स्तुथादेतन्नित्यं जडमपि गुरुं तस्स विर्नयात् । विवत्सुनैर्स्पृष्टं कथमपि सभायामैभिनयेत्सत्कार्यं सतुष्टे क्षितिभृति रंहस्खेव कथयेत् ॥ ४१३ ॥ मुहूर्लक्ष्योद्भेदा मुहुरधिगमाभावगहना मुहुः संपूर्णाङ्गी मुहुरतिकृशा कार्यवशगता । मुहुश्चैश्यद्वीजा मुहुरपि बहुप्रापितफलेत्यहो चित्राकारा नियतिरिव नीतिर्नयविदः ॥ ४१४ ॥ इच्छेद्यस्तु सुखं निवस्तुमवनौ गच्छेत्स राज्ञः सभां कल्याणीं गिरमेव सर्वदि वदेत्कार्यं विदध्यात्कृती । अक्लिष्टाद्धनमर्जयेदधिपतेरावर्जयेद्धेल्भान्कुर्वीतोपकृतिं जनस्य जनयेत्कस्यापि नौपक्रियाम् ॥ ४१५ ॥ अज्ञो वा यदि वा विपर्ययगते ज्ञानेऽथ संदेह्बुद्ध्यादृष्टविरोधि कर्म कुरुते यस्तस्य गोसा गुरुः । निसंदेहविपर्यये सति पुनर्जाने विरुद्धक्रियं राजा चेत्पुरुषं न शास्ति नृदयं प्राप्तः प्रजाविप्लवः ॥ ४१६ ॥ मूचीमात्रविमेदसभ्रमगुणं क्षोणीशवामभ्रुवामुत्तुङ्गस्तनमण्डलेषु लभते लीलारतिं कञ्चुकः । नाराचैर्निबिडैर्विभिन्नवपुषां पुंसां महायोधने खर्गीत्रीकुचकुम्भसभ्रमपरीरम्भः कथं दुर्लभः ॥ ४१७ ॥ एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच्छ्रयते मदः स च मदालस्येन निर्भिद्यते । निर्भिन्नस्य पदं करोति हृदये तस्स स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणान्तिकं द्रुह्यति ॥ ४१८ ॥ ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते तं गच्छन्त्यनु-
पादटिप्पण्यः (Footnotes)
| वामभागस्थटिप्पणी | दक्षिणभागस्थटिप्पणी |
|---|---|
| १ तीक्ष्ण | १ उक्तम् |
| २ करः हस्तः, पक्षे,-शुण्डादण्डः | २ तद्गुरोः स्तवनं कुर्यात् |
| ३ जातस्नेहेन | ३ निःस्पृहताम् |
| ४ कर्कशा | ४ अभिनयं पूर्वकं दर्शयेत् |
| ५ घातुका | ५ एकान्ते |
| ६ दानशौण्डा | ६ पृथिव्याम् |
| ७ दोहनं कर्तुमिच्छसि. | ७ मनोज्ञाम् |
| ८ पोषणं कुरु. | ८ सभायाम् |
| ९ भृत्याः | ९ प्रियान् |
| १० राज्ञाम् | १० अपकारम् |
| ११ सूर्यसारथिः. | ११ प्रतिकूलतां गते. |
| १२ सूर्यः | १२ विकल्पात्मकं |
| १३ प्रजानाशः संत्राप्त इति भावः | |
| १४ यावन्मरणं द्रोहमाचरति, तत्परणार्थैव यतति. |
राजनीतिः, सामान्यनीतिः १५३
ये विपत्तिषु पुनस्ते तत्प्रतिष्ठायै । भर्तुर्ये प्रलयेऽपि पूर्व- सुकृतासङ्गेन निःसङ्गया भक्त्या कार्यधुर वहन्ति कृतिनस्ते दुर्लभास्तादृशाः ॥ ४१९ ॥ द्वारे रुद्धमुपेक्षते कथमपि प्राप्तं पुरो नेक्षते विज्ञातौ गजमीलनानि कुरुते गृह्णाति वाक्य- च्छलम् । निर्यात्यस्य करोति दोषकथन तद्विद्विषामग्रत. स स्वामी यदि सेव्यते कुमतिभि. किं नः पिशाचै कृतम् ॥ ४२० ॥ वृत्तिच्छेदविधौ द्विजातिमरणे मित्रार्थसम्प्रेषणे सम्प्राप्ते मरणे कलत्रहरणे स्वामिग्रहे गोग्रहे । प्राणत्राणपरा- यणेकमनसा येषा न शस्त्रग्रहस्तानालोक्य विलोकते च मनसा सूर्योऽपि सूर्यन्तरम् ॥ ४२१ ॥ धर्म प्रागेव चिन्त्य. सचिवगतिमती भावनीये सदैव ज्ञेया लोकानुवृत्तिश्चरचर- नयनैर्मण्डलं वीक्षणीयम् । प्रच्छायौ रागरोषौ मृदुपुरुषयुतौ वर्जनीयौ च काले स्वात्मा यत्नेन रक्ष्यौ रणशिरसि पुनः सोऽपि नापेक्षणीय ॥ ४२२ ॥ कोऽह कौ देशकालौ सम- विषमगुणा केऽरय. के सहायाः का शक्तिः कोऽभ्युपाय. फलमिह च कियत्कीदृशी दैवसपत् । सपत्तौ को निबन्धः प्रविदितवचनस्योत्तर किं नु मे स्यादित्येव कार्यसिद्धाववहित- मनसो हस्तगाः संपद स्यु ॥ ४२३ ॥
सामान्यनीतिः
अनुगन्तुं सता वर्त्म कृत्स्न यदि न शक्यते । स्वल्पम- प्यनुगन्तव्य मार्गस्थो नावसीदति ॥ १ ॥ प्रत्यह प्रत्य- वेक्षेत नरश्चरितमात्मन. । किं नु मे पशुभिस्तुल्य किं नु सत्पुरुषैरिति ॥ २ ॥ सद्भिरेव सहासीत सद्भिः कुर्वीत संगतिम् । सद्भिर्विवादं मैत्रीं च नासद्भिः किंचिदाचरेत् ॥ ३ ॥ न द्विषन्ति न याचन्ते परनिन्दा न कुर्वते । अनाहूता न चायान्ति तेनाश्मानोऽपि देवताः ॥ ४ ॥ पठतो नास्ति मूर्खत्व जपतो नास्ति पातकम् । मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः ॥ ५ ॥ गैतेऽपि वयसि ग्राह्या विद्या सर्वात्मना बुधै. । यद्यपि स्यान्न फलदा सुलभा साऽन्यजन्मनि ॥ ६ ॥ यस्य चाप्रियमन्विच्छेद्वतस्य कुर्यात्सदा प्रियम् । व्याधा मृगवध कर्तुं सम्यग्गायन्ति सुस्वरम् ॥७॥ प्रहरिष्यन्प्रिय ब्रूयात्प्रहृत्यापि प्रियोत्तरम् । अपि चास्य शिरश्छित्त्वा रुद्याच्छोचेत्तथापि च ॥ ८ ॥ सुमन्त्रिते सुवि- क्रान्ते सुकृतौ सुविचारिते । प्रारम्भे कृतबुद्धीना सिद्धिरव्य- भिचारिणी ॥ ९ ॥ नालसाः प्राप्नुवन्त्यर्थान्न शठा न च मायिनः । न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिण. ॥१०॥ नोदन्वानर्थितामेति सदाऽम्भोभिः प्रपूर्यते । आत्मा तु पात्रता नेयः पात्रमायान्ति संपदः ॥ ११ ॥ काकतालीययोगेन यदनात्मवति क्षणम् । करोति प्रणयं लक्ष्मीस्तदस्या. स्त्रीत्व- चापलमू ॥ १२ ॥ यो यमर्थ प्रार्थयते यदर्थ घटतेऽपि च । अवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते ॥ १३ ॥ केचिदज्ञानतो नष्टाः केचिन्नष्टा. प्रमादत. । केचिज्ज्ञाना- वलेपेन केचिन्नष्टैस्तु नाशिता. ॥ १४ ॥ मित्रस्वजनबन्धुना बुद्धेर्धैर्यस्य चात्मनः । आपन्निकषपाषाणे नरो जानाति सारताम् ॥ १५ ॥ दुष्टैरपि निजैरेव व्रावृत सर्वमुत्तमम् । वर जीर्णाम्बरं वापि हट्टे कर्पदमर्हति ॥ १६ ॥ चिन्त- नीया हि विपदामादावेव प्रतिक्रियाः । न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥ १७ ॥ वर दारिद्र्यमन्यायप्रभवाद्वि- भवादिह । कृशताऽभिमता देहे पीनता न तु शोफत. ॥१८॥ स्त्री विनश्यति रूपेण ब्राह्मणो राजसेवया । गावो दूरप्रचा- रेण हिरण्यं लोभलिप्सया ॥ १९ ॥ अतिदानाद्वलिर्बद्धो ह्यतिमानात्सुयोधन । विनष्टो रावणो लौल्यादति सर्वत्र वर्ज- येत् ॥ २० ॥ धनमस्तीति वाणिज्यं किंचिदस्तीति कर्ष- णम् । सेवा न किचिदस्तीति भिक्षा नैव च नैव च ॥ २१ ॥ स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजंगमः । हसन्नपि नृपो हन्ति मानयन्नपि दुर्जन. ॥ २२ ॥ गीतशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणा निद्रया कलहेन वा ॥ २३ ॥ जानन्ति पशवो गन्धाद्वेदाज्जानन्ति पण्डिताः । चाराञ्जानन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥२४॥ युक्तियुक्त प्रगृह्णीयाद्बालादपि विचक्षण । रवेरविषयं वस्तु किं न दीपः प्रकाशयेत् ॥ २५ ॥ वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् । वृथा दानं समर्थस्य वृथा दीपो दिवापि च ॥ २६ ॥ अजायुद्धमृषिश्राद्ध प्रभाते मेघडम्ब- रम् । दम्पत्यो. कलहश्चैव परिणामे न किचन ॥ २७ ॥ अर्थनाश मनस्ताप गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ २८ ॥ अवृत्तिक त्यजेद्देश वृत्ति सोपद्रवा त्यजेत् । त्यजेन्मायाविन मित्रं धनं प्राणहर त्यजेत् ॥ २९ ॥ सौहृदेन परित्यक्तं निःस्नेह खलवत्त्यजेत् । सोदर भ्रातरमपि किमुतान्यं पृथग्जनम् ॥ ३० ॥ यन्नि- मित्तं भवेच्छोको दुःखं वा त्रास एव च । आयासो वा यतः शूलस्तदेकाङ्गमपि त्यजेत् ॥ ३१ ॥ त्यजेदेकं कुल- स्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्राम जनपदस्यार्थे ह्यात्मार्थे पृथिवी त्यजेत् ॥ ३२ ॥ न गणस्याग्रतो गच्छे- त्सिद्धे कार्ये समं फलम् । यदि कार्यविपत्तिः स्यान्मुखर- स्तत्र हन्यते ॥ ३३ ॥ धनिक श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते न तत्र दिवस वसेत्
१ वृद्धत्वेऽपि
२० सु. र. भां.
| १५४ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
॥ ३४ ॥ चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः । नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ ३५ ॥ अनायके न वस्तव्यं न वसेद्बहुनायके । स्त्रीनायके न वस्तव्यं न वसेद्बालनायके ॥ ३६ ॥ सर्वथा संत्यजेद्वादं न कंचिन्मर्मणि स्पृशेत् । सर्वानपरित्यजेदर्थान्स्वाध्यायस्य विरोधिनः ॥ ३७ ॥ अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् । कर्मणा फलमस्तीति मनसा त्रितयं चरेत् ॥ ३८ ॥ प्राणातिपातं स्तेन्यं च परदाराभिमर्शनम् । त्रीणि पापानि विदुषा नित्यशः परिवर्जयेत् ॥ ३९ ॥ न कश्चिदपि जानाति किं कस्य श्वो भविष्यति । अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥ ४० ॥ अनेन मर्त्यदेहेन यल्लोकद्वयशर्मदम् । विचिन्त्य तदनुष्ठेयं कर्म हेयं ततोऽन्यथा ॥ ४१ ॥ उपकारः परो धर्मः परार्थं मर्म नैपुणम् । पात्रे दानं परः कामः परो मोक्षो वितृष्णता ॥ ४२ ॥ अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु संचयम् । अवन्ध्यं दिवस कुर्याद्दानाध्ययनकर्मसु ॥ ४३ ॥ परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् । न हीदृशमनायुष्यं त्रिषु लोकेषु विद्यते ॥४४॥ मात्रा स्वस्रा दुहित्रा वा नैकशय्यासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ ४५ ॥ परदारपरद्रव्यपरद्रोहपराङ्मुख । गङ्गा ब्रूते कदागत्य मामयं पावयिष्यति ॥ ४६ ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुस्तत्संसर्गी च पञ्चमः ॥ ४७ ॥ स्त्रीबालस्वामिमित्रघ्नो गोघ्नो विश्वासघातकः । सुरापो ब्रह्महा चोरो यान्त्येते सर्वसारकान् ॥ ४८ ॥ कूटसाक्षी मृषावादी यश्चासदनुशास्ति वै । ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः ॥ ४९ ॥ घटं भिन्द्यात्पटं छिन्द्यात्कुर्याद्रासभनिःस्वनम् । येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥५०॥ न हीदृशं ^२सवननं त्रिषु लोकेषु विद्यते । दया मैत्री च भूतेषु दानं च ^१मधुरा च वाक् ॥ ५१ ॥ विवादो धनसबन्धो याचनं स्त्रीषु संगतिः । आदानमग्रतः स्थानं मैत्रीभङ्गस्य हेतवः ॥ ५२ ॥ दर्शितानि कलत्राणि गृहे भुक्तमशङ्कितम् । कथितानि रहस्यानि सौहृदं किमतः परम् ॥ ५३ ॥ दुःखेन श्लिष्यते मित्रं श्लिष्टं दुःखेन भिद्यते । भिन्नश्लिष्टा तु या प्रीतिः सा दुःखैकप्रदायिनी ॥ ५४ ॥ ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोर्मैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥ ५५ ॥ उत्तमा आत्मना ख्याताः पितुः ख्याताश्च मध्यमाः । अधमा मातुलात्ख्याताः श्वशुराच्चाधमाधमाः ॥ ५६ ॥ ऋणशेषश्चाग्निशेषः शत्रुशेषस्तथैव च । पुनः पुनः प्रवर्तन्ते तस्माच्छेषं न रक्षयेत् ॥ ५७ ॥ कुभोज्येन दिनं नष्टं कुकलत्रेण शर्वरी । कुपुत्रेण कुल नष्टं तन्नष्टं यन्न दीयते ॥ ५८ ॥ बर्बरश्च तपस्वी स्याच्छूरश्चाप्यकृतव्रणः । मद्यपा स्त्री सती राजन्निति न श्रद्दधामहे ॥ ५९ ॥ नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ ६० ॥ सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः । तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥ ६१ ॥ व्रजत्यधः प्रयात्युच्चैर्नरः स्वैरेव चेष्टितैः । अधः कूपस्य खनक ऊर्ध्वं प्रासादकारकः ॥ ६२ ॥ कुर्यान्न परदारेच्छां विश्वासं स्त्रीषु वर्जयेत् । हतो दशास्यः सीतार्थी हतः पत्न्या विदूरथः ॥ ६३ ॥ न मद्यव्यसनी क्षीबः कुर्याद्वेतालचेष्टितम् । वृष्णयो हि ययुः क्लीबास्तृणैः प्रहरणे क्षयम् ॥ ६४ ॥ दानं मत्वाश्रितं कुर्यान्न पश्चात्तापवान्भवेत् । बलिनात्मार्पितो बन्धे दानशेषस्य शुद्धये ॥ ६५ ॥ न स्त्रीजितः प्रमूढः स्याद्वाढरागवशीकृतः । पुत्रशोकाद्दशरथो जीवं जायाजितोऽत्यजत् ॥ ६६ ॥ क्षिपेद्वाक्यशरान्घोरान्न पारुष्यविषप्लुतान् । वाक्पारुष्यरुषा चक्रे भीमः कुरुकुलक्षयम् ॥ ६७ ॥ परेषु क्लेशदं कुर्यान्न पैशुन्यं प्रभुप्रियम् । पैशुन्येन गतौ राह्रोश्चन्द्राकौ भक्षणीयताम् ॥ ६८ ॥ कुर्यान्नीचजनाभ्यस्तां न याच्ञां मानहारिणीम् । बलिप्रार्थनया प्राप लघुतां पुरुषोत्तमः ॥ ६९ ॥ वक्रैः क्रूरतरैर्लुब्धैर्न कुर्यात्प्रीतिमग्निभिः । वसिष्ठसाहरद्धेनुं विश्वामित्रो निमन्त्रितः ॥ ७० ॥ तीव्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत् । विश्वामित्रोऽपि सोत्कण्ठं कण्ठे जग्राह मेनकाम् ॥ ७१ ॥ भक्तं रक्तं सदासक्तं निर्दोषं न परित्यजेत् । रामस्त्यक्त्वा सतीं सीतां शोकशल्याकुलोऽभवत् ॥ ७२ ॥ वर्जयेदिन्द्रियजयी निर्जने जननीमपि । पुत्रीकृतोऽपि प्रद्युम्नः कामितः शम्बरस्त्रिया ॥ ७३ ॥ प्रभुप्रसादे विश्वासं न कुर्यात्खभसन्निभे । नन्देन मन्त्री निक्षिप्तः शकटारोऽपि बन्धने ॥ ७४ ॥ अप्युन्नतपदारूढः पूज्यान्नैवापमानयेत् । नहुषः शक्रतां प्राप्य च्युतोऽगस्त्यावमाननात् ॥ ७५ ॥ हितोपदेशं शृणुयात्कुर्वीत च यथोदितम् । विदुरोक्तमकृत्वाभूत्कौरवः शोकशल्यभाक् ॥ ७६ ॥ न पुत्रायत्तमैश्वर्यं कुर्यादार्यः कथंचन । पुत्रार्पितप्रभुत्वोऽभूद्धृतराष्ट्रस्तृणोपमः ॥ ७७ ॥ श्रुतिस्मृत्युक्तमाचारं न त्यजेत्साधुसेवितम् । दैत्यानां श्रीवियोगोऽभूत्सत्यधर्मक्रियासुखाम् ॥ ७८ ॥ नदीनां नखिनां चैव शृङ्गिणां शस्त्र-
१ असत्यवादिसाक्षी
२ वशीकरणम्.
१ मत्त
सामान्यनीतिः १५५
पाणिनाम् । विश्वासो नैव कर्तव्य स्त्रीषु राजकुलेषु च
॥ ७९ ॥ न कुर्यादभिचारोद्यमवद्यादिकुहकक्रियाम् ।
लक्ष्मणेनेन्द्रजित्कृत्याभिचारसमये हतः ॥ ८० ॥ व्याकुलोऽपि
विपत्यार्तै. स्मरेद्विष्णु सदा हृदि । शरतल्पगतो भीष्मः
सस्मार गरुडध्वजम् ॥ ८१ ॥ चिन्ता जरा मनुष्याणा-
मनध्वा वाजिनां जरा । असंभोगो जरा स्त्रीणां वस्त्राणा-
मातपो जरा ॥ ८२ ॥ प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति
जन्तवः । तस्मात्तदेव वक्तव्यं वचने का दरिद्रता
॥ ८३ ॥ पञ्चभिः सह गन्तव्यं स्थातव्यं पञ्चभिः सह ।
पञ्चभिः सह वक्तव्यं न दुःखं पञ्चभिः सह ॥ ८४ ॥ यान्ति
न्यायप्रवृत्तस्य ^१तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु
गच्छन्तं सोदरोऽपि विमुञ्चति ॥ ८५ ॥ विद्याभ्यासो
विचारश्च समयोरेव शोभते । विवाहश्च विवादश्च समयो-
रेव शोभते ॥ ८६ ॥ लक्ष्मीर्वसति जिह्वाग्रे जिह्वाग्रे
मित्रबान्धवा । जिह्वाग्रे बन्धनं प्राप्तं जिह्वाग्रे मरणं
ध्रुवम् ॥ ८७ ॥ यस्मिन्देशे न समानो न प्रीतिर्न च
बान्धवाः । न च विद्यागमः कश्चिन्न तत्र दिवस वसेत्
॥ ८८ ॥ वहेदमित्रं स्कन्धेन यावत्कालविपर्यय । अथैव-
मागते काले भिन्द्याद्धटमिवाश्मनि ॥ ८९ ॥ सर्वनाशे
समुत्पन्ने ह्यर्थं त्यजति पण्डितः । अर्धेन कुरुते कार्यं
सर्वनाशो न जायते ॥ ९० ॥ मूर्खशिष्योपदेशेन दुष्टस्त्री-
भरणेन च । द्विषता संप्रयोगेण पण्डितोऽप्यवसीदति
॥ ९१ ॥ • मित्रद्रुह. कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च ।
चतुर्णामपि चैतेषा निष्कृतिर्नैव विश्रुता ॥ ९२ ॥ गतश्री-
र्गणकान्द्वेष्टि गतायुश्च चिकित्सकान् । गतश्रीश्च गतायुश्च
ब्राह्मणान्द्वेष्टि भारत ॥ ९३ ॥ आत्मबुद्धिः सुखायैव
गुरुबुद्धिर्विशेषतः । परबुद्धिर्विनाशाय स्त्रीबुद्धिः प्रलयावहा
॥ ९४ ॥ विद्म्यः सर्वथा हेयैः ^४प्रत्यूहः सर्वकर्मणाम् ।
तस्माद्विद्मयमुत्सृज्य साध्यसिद्धिर्विधीयताम् ॥ ९५ ॥
विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । नीचादप्युत्तमा
विद्या स्त्रीरत्नं दुष्कुलादपि ॥ ९६ ॥ लुब्धमर्थेन गृह्णी-
यात्क्रुद्धमञ्जलिकर्मणा । मूर्ख छन्दानुवृत्त्या च तत्त्वार्थेन च
पण्डितम् ॥ ९७ ॥ जानीयात्सङ्गरे भृत्यान्बान्धवान्व्यस-
नागमे । आपत्कालेषु मित्राणि भार्यां च विभवक्षये
॥ ९८ ॥ खरं श्वानं गजं मत्तं रण्डा च बहुभाषिणीम् ।
राजपुत्रं कुमित्रं च दूरतः परिवर्जयेत् ॥ ९९ ॥ दुरस्थं
जलमध्यस्थं धावन्तं धनगर्वितम् । क्रोधवन्तं मदोन्मत्तं
नमस्कारेऽपि वर्जयेत् ॥ १०० ॥ पिपीलिकार्जितं धान्यं
मक्षिकासंचित मधु । लुब्धेन संचित द्रव्यं समूलं च
विनश्यति ॥ १०१ ॥ न सारणीया धीरेण रसना नीरसे
जने । को नाम कुरुते फेरौ ^१नायक. सायकक्षतिम् ॥ १०२ ॥
धातुवादेषु वित्ताशा मोक्षाशा कौलिके मते । जामातरि च
पुत्राशा त्रयमेतन्निरर्थकम् ॥ १०३ ॥ द्वाविमौ पुरुषौ लोके
सुखिनौ न कदाचन । यश्चाधनः कामयते यश्च कुप्यत्य-
नीश्वरः ॥ १०४ ॥ द्वाविमौ पुरुषौ लोके परप्रत्ययकारको ।
स्त्रिय कामितकामिन्यो लोकः पूजितपूजक ॥ १०५ ॥
द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड् योगयुक्तश्च
रणे चाभिमुखो हत. ॥ १०६ ॥ द्वाविमौ पुरुषौ लोके खर्ग
स्योपरि तिष्ठत. । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान्
॥ १०७ ॥ द्वाविमौ पुरुषौ लोके न भूतो न भविष्यतः ।
प्रार्थितं यश्च कुरुते यश्च नार्थयते परम् ॥ १०८ ॥ द्वाविमौ
पुरुषौ लोके शिरःशूलकरावुभौ । गृहस्थश्च निरारम्भो यतिश्च
सपरिग्रहः ॥ १०९ ॥ शत्रुर्दहति संयोगे वियोगे मित्र-
मप्यहो । उभयोर्दु खदायित्वं को भेद. शत्रुमित्रयो ॥११०॥
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायक । ससर्पे च गृहे
वासो मृत्युरेव न सशयः ॥ १११ ॥ ददतो युध्यमानस्य
पठत. पुलको न चेत् । आत्मनश्च परेषान् च धिक्त्याग
पौरुषं श्रुतम् ॥ ११२ ॥ न तद्भुक्तं न तत्पीतं न तत्सुप्तं
न तद्गतम् । यन्मासमाहिषक्षीरैलैलेनावोजिवर्जितम् ॥११३॥
नि.सारस्य पदार्थस्य प्रायेणाडम्बरो महान् । न सुवर्णे ध्वनि-
स्तादृग्यादृक्कांस्ये प्रजायते ॥११४॥ मासि मासि समा ज्योत्स्ना
पक्षयोरुभयोरपि । तत्रैकः शुक्लपक्षोऽभूद्यशः पुण्यैरवाप्यते
॥ ११५ ॥ मत्स्यादयोऽपि जानन्ति नीरक्षीरविवेचनम् ।
पर प्रसिद्धिर्र्हसस्य यशः पुण्यैरवाप्यते ॥ ११६ ॥ पञ्चभिः
कामिता कुन्ती तद्भूयश्च पञ्चभिः । सती वदति लोकोऽयं
यशः पुण्यैरवाप्यते ॥ ११७ ॥ सौभाग्यं विरलस्य स्यात्स-
मकर्मगुणेष्वपि । षङ्गिशदायुधा-पृथ्वी खङ्गायचैव दृश्यते
॥ ११८ ॥ हस्तादपि न दातव्यं गृहादपि न दीयते ।
परोपकरणार्थाय वचने किं दरिद्रता ॥ ११९ ॥ वनानि
दहतो वह्नेः सखा भवति मारुतः । स एव दीपनाशाय
कृशे कस्यास्ति सौहृदम् ॥ १२० ॥ भोज्यं भोजनशक्तिश्च
रतिशक्तिर्वरस्त्रिय. । विभवो दानशक्तिश्च नाल्पस्य तपस.
फलम् ॥ १२१ ॥ जानन्ति हि गुणान्वक्तुं तद्विधा एव
तादृशाम् । वेत्ति विश्वंभरा भार गिरीणा गरिमाश्रयन्
॥ १२२ ॥ जीवन्तोऽपि मृताः पञ्च व्यासेन परिकीर्तिता. ।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥ १२३ ॥
पादटिप्पणी (Footnotes):
वामभागः:
१ न्यायमार्गानुसारिण २ तिर्यग्जातीया पशव इत्यर्थ ३ तज्ज-
नितपापपरिहार ४ त्याज्य ५ विघ्नरूप.
दक्षिणभागः:
१ जनुके २ स्त्री ३ अश्व• ४ मित्रभाव
| २५६ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
अत्यासन्ना विनाशाय दूरतश्चाफलप्रदाः । मध्यभावेन से-
व्यन्ते राजा वह्निर्गुरुः स्त्रियः ॥ १२४ ॥ अमृतं दुर्लभं
नृणां देवानामुदकं तथा । पितॄणां दुर्लभः पुत्रस्तर्कं शक्रस्य
दुर्लभम् ॥ १२५ ॥ शनैः पन्थाः शनैः कन्था शनैः पर्वत-
मस्तके । शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ॥ १२६ ॥
अन्वयागतविद्यानामन्वयागतसंपदाम् । विदुषा च प्रभूणा
च हृदयं नावलिप्यते ॥ १२७ ॥ मक्षिका मशको वेश्या
मूषको याचकस्तथा । ग्रामणीर्गणकश्चैव सप्तैते परमक्षकाः
॥ १२८ ॥ अकुतोप्रद्रवः कश्चिन्महानपि न पूज्यते ।
अर्चयन्ति नरा नागं न तार्क्ष्यं न गजादिकम् ॥ १२९ ॥
शोभन्ते विद्यया विप्राः क्षत्रिया विजयश्रिया । श्रियोऽनुकूल-
दानेन लज्जया च कुलाङ्गनाः ॥ १३० ॥ ब्राह्मणा
गणका वेश्याः सारमेयाश्च कुक्कुटाः । दृष्टेष्वन्येषु कुप्यन्ति
न जाने तस्य कारणम् ॥ १३१ ॥ पुत्रपौत्रवधूभृत्यैः
सपूर्णमपि सर्वदा । भार्याहीनगृहस्थस्य शून्यमेव गृहं
मतम् ॥ १३२ ॥ अक्षरद्वयमभ्यस्तं नास्ति नास्तीति यत्पुरा ।
तदिदं देहि देहीति विपरीतमुपस्थितम् ॥ १३३ ॥ नवे
वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीय-
माणेषु शान्तिः कस्य न जायते ॥ १३४ ॥ धिग्गृहं गृहि-
णीशून्यं धिक्कलत्रमपुत्रकम् । धिक्पुत्रमविनीतं च धिग्ज्यो-
तिषमजातकम् ॥ १३५ ॥ अश्वं नैव गजं नैव व्याघ्रं नैव
च नैव च । अजापुत्रं बलिं दद्याद्देवो दुर्बलघातकः ॥ १३६ ॥
दुर्मन्त्री राज्यनाशाय आमनाशाय कुञ्जरः । श्यालको गृह-
नाशाय सर्वनाशाय मातुलः ॥ १३७ ॥ जले तैलं खले
गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं
वस्तुशक्तितः ॥ १३८ ॥ उद्योगः कलहः कण्डूर्द्यूतं मद्यं
परस्त्रियः । आहारो मैथुनं निद्रा सेवनात्तु विवर्धते ॥ १३९ ॥
कृतार्थः स्वामिनं द्वेष्टि कृतेदारस्तु मातरम् । जातापत्या
पतिं द्वेष्टि गतरोगश्चिकित्सकम् ॥ १४० ॥ चक्षुःपूतं न्यसे-
त्पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाणीं मनःपूतं
समाचरेत् ॥ १४१ ॥ नास्ति यज्ञः स्त्रियः कश्चिन्न व्रतं
नोपवासकम् । या तु भर्तरि शुश्रूषा तया स्वर्गं जयत्यसौ
॥ १४२ ॥ शुचि भूमिगतं तोयं शुचिर्नारी पतिव्रता ।
शुचिः क्षेमकरो राजा संतोषी ब्राह्मणः शुचिः ॥ १४३ ॥
नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने । वत्सोऽपि
स्तनपाने स्याच्छ्वा मृगग्रहणे शुचिः ॥ १४४ ॥ भर्ता देवो
गुरुर्भर्ता धर्मतीर्थव्रतानि च । तस्मात्सर्वं परित्यज्य पतिमेकं
भजेत्सती ॥ १४५ ॥ असारे खलु संसारे सारमेतच्चतुष्ट-
यम् । काश्यां वासः सतां सङ्गो गङ्गाम्भः शंभुसेवनम्
॥ १४६ ॥ उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् ।
विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥ १४७ ॥
सप्तैतानि न पूर्यन्ते पूर्यमाणान्यनेकंशः । ब्राह्मणोऽग्निर्यमो
राजा पयोधिरुदरं गृहम् ॥ १४८ ॥ कल्पान्तवामसङ्क्षोभ-
लङ्घिताशेषभूभृतः । स्थैर्यप्रसादमर्यादास्ता एव हि महो-
दधेः ॥ १४९ ॥ संपत् सरस्वती सत्यं सतां सद्नुग्रहः ।
सत्ता सुकृतसम्भारः सकाराः सप्त दुर्लभाः ॥ १५० ॥
अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः । किंचित्कालोप-
भोग्यानि यौवनानि धनानि च ॥ १५१ ॥ परोऽपि हितवान्
बन्धुर्बन्धुरप्यहितः परः । अहितो देहजो व्याधिर्हितमा-
रण्यमौषधम् ॥ १५२ ॥ जलबिन्दुनिपातेन क्रमशः पूर्यते
घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ १५३ ॥
सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः । तत्र
सौरभनिर्माणे चतुरश्चतुराननः ॥ १५४ ॥ साक्षरं पुरुषं दृष्ट्वा
यो नरो नाभिमन्दते । बलीवर्दसमो लोके खुरशृङ्गविव-
र्जितः ॥ १५५ ॥ को न याति वशं लोके मुखे पिण्डेन
पूरितः । मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥ १५६ ॥
लुब्धानां याचकः शत्रुश्चोराणां चन्द्रमा रिपुः । जारस्त्रीणां
पतिः शत्रुर्मूर्खाणां बोधको रिपुः ॥ १५७ ॥ अमन्त्रमक्षरं
नास्ति नास्ति मूलमनौषधम् । अयोग्यो पुरुषो नास्ति योजक-
स्तत्र दुर्लभः ॥ १५८ ॥ परोपदेशवेलायां शिष्टा सर्वे
भवन्ति वै । विस्मरन्तीह शिष्टत्वं स्वकार्ये समुपस्थिते
॥ १५९ ॥ गुणिनां निर्गुणानां च दृश्यते महदन्तरम् ।
हारः कण्ठगतः स्त्रीणां नूपुराणि च पादयोः ॥ १६० ॥
अलभ्यं लब्धुकामस्य जनस्य गतिरीदृशी । अलभ्येषु मन्-
स्तापः संचितार्थो विनश्यति ॥ १६१ ॥ शत्रुवाक्यामृतं श्रुत्वा
तेन सौहार्दमार्जवम् । नहि धीरेण कर्तव्यमात्मनः शुभमि-
च्छता ॥ १६२ ॥ शूराश्च कृतविद्याश्च रूपवत्यश्च योषितः ।
यत्र यत्र गमिष्यन्ति तत्र तत्र कृतादराः ॥ १६३ ॥
चत्वारो धनदायादा धर्माग्निभृपतस्कराः । तेषां ज्येष्ठावमा-
नेन त्रयः कुप्यन्ति बान्धवाः ॥ १६४ ॥ शीलभारवती
कान्ता पुष्पभारवती लता । अर्थभारवती वाणी भजते
कामपि श्रियम् ॥ १६५ ॥ पूरोत्पीडे तडागस्य परीवाहः
प्रतिक्रिया । शोकक्षोभे च हृदयं प्रलापैरेव धार्यते
१ पञ्चसु वाक्येषु अतिवाह्यते सिध्यति आरोहति प्राप्यते वर्धते इति पञ्चक्रियाध्याहार
२ भार्याविवाहनादीनि
३ एतानि स्वरया न भवन्तीत्यर्थः.
४ वंशपरम्परागतविद्यानाम्.
५ सगर्वं न भवति.
६ कुलस्त्रिय
७ श्वान
८ गज
९ स्वल्पमपि
१० वस्तुमाहात्म्येन
११ कृता दारा स्त्री येन सः
१२ वैद्यम्
१३ पवित्रम्
१ स क्रमः सर्वविद्याधनार्जनेऽपि चोक्तः
२ मुखाहारः.
३ अचिन्ताम्
४ शोभाम्
५ प्रवहणम्
६ उपायः
सामान्यनीतिः
१५७
॥ १६६ ॥ उपभोक्तुं न जानाति श्रियं प्राप्यापि मानवः।
आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया ॥ १६७ ॥
आर्त्ता देवात्नमस्यन्ति तप कुर्वन्ति रोगिणः ।
निर्धना दानमिच्छन्ति वृद्धा नारी पतिव्रता ॥ १६८ ॥
जामाता जठरं जाया जातवेदा जलाशयः । पूरिता
नैव पूर्यन्ते जकारा पञ्च दुर्भरा ॥ १६९ ॥
जननी जन्मभूमिश्च जाह्नवी च जनार्दन । जनकः
पञ्चमश्चैव जकाराः पञ्च दुर्लभाः ॥ १७० ॥ सा
श्रीर्या न मदं कुर्यात्स सुखी तृष्णयोज्झितः । तन्मित्रं
यत्र विश्वास. पुरुषः स जितेन्द्रियः ॥ १७१ ॥ सुलभं
वस्तु सर्वस्य न यात्यादरणीयताम् । स्वदारपरिहारेण पर-
दारार्थिनो जनाः ॥ १७२ ॥ एकस्य कर्म सवीक्ष्य करो-
त्यन्योऽपि गर्हितम् । गतानुगतिको लोको न लोक.
पारमार्थिक. ॥ १७३ ॥ क्वचिद्रुष्ट क्वचित्तुष्टो रुष्टस्तुष्टः
क्षणे क्षणे । अव्यवस्थितचित्तस्य प्रसादोऽपि भयंकरः
॥ १७४ ॥ गुरुपत्न्या निशाधीशो ब्राह्मण्य पाकशासन. ।
गत पञ्चेषुलक्ष्यत्व का कथाऽन्यस्य देहिनः ॥ १७५ ॥
यस्मिन्रुष्टे भयं नास्ति तुष्टे नैव धनागम. । निग्रहा-
नुग्रहौ न स्तः स रुष्ट. कि करिष्यति ॥ १७६ ॥
आलस्योपहता विद्या परहस्तगता. स्त्रियः । अल्पबीजं
हत क्षेत्र हत सैन्यमनायकम् ॥ १७७ ॥ निर्विषेणापि
सर्पेण कर्तव्या महती फटा । विषमस्तु न चाप्यस्तु
फटाटोपो भयकर. ॥ १७८ ॥ एक एव पदार्थस्तु
त्रिधा भवति वीक्षित. । कुणपः कामिनी मास
योगिभि कामिभि. श्वभिः ॥ १७९ ॥ नारी परमुख-
द्रष्ट्री कविरव्यवहारवित् । अपथ्यसेवी रोगी च किय-
द्दिनोपहस्यते ॥ १८० ॥ अन्यदा भूषण पुंसां क्षमा
लज्जेव योषिताम् । पराक्रमः परिभवे वैशाल्यं सुरतेष्विव
॥ १८१ ॥ सांसारिकसुखासक्तं ब्रह्मज्ञोऽस्मीति
वादिनम् । कर्मब्रह्मोभयभ्रष्ट तं त्यजेदन्त्यजं यथा
॥ १८२ ॥ शैले शैले न माणिक्य मौक्तिकं न गजे गजे ।
साधवो नहि सर्वत्र चन्दन न वने वने ॥ १८३ ॥
प्रीतिर्लक्ष्मीर्यश. क्लेश. सा कि सा किं स किं स किम् ।
या लोभाद्या परद्रोहात्परार्थे यः परार्थकृत् ॥ १८४ ॥
मनो मधुकरो मेघो मानिनी मदनो मरुत् । मा मदो
मर्कटो मत्स्यो मकारा दश चञ्चलाः ॥ १८५ ॥
यावज्जीवं सुख जीवेदृणं कृत्वा घृतं पिबेत् । भस्मी-
भूतस्य जीवस्य पुनरागमनं कुतः ॥ १८६ ॥ असार
एष संसारः सार सारङ्गलोचनाः । तदर्थे धनमिच्छन्ति
तत्यागे तु धनेन किम् ॥ १८७ ॥ सत्यानुसारिणी
लक्ष्मी. कीर्तिस्त्यागानुसारिणी । अभ्याससारिणी विद्या
बुद्धि कर्मानुसारिणी ॥ १८८ ॥ उपाध्यायश्च वैद्यश्च
ऋतुकाले वरस्त्रियः । सूतिका दूतिका नौका कार्यान्ते
ते च शष्पवत् ॥ १८९ ॥ विशाखान्ता गता मेघा.
प्रसूतान्तं च यौवनम् । प्रणामान्त. सता कोपो याच-
नान्त हि गौरवम् ॥ १९० ॥ कृतान्तपाशबद्धाना दैवो-
पहतचेतसाम् । बुद्धय कुब्जगामिन्यो भवन्ति महतामपि
॥ १९१ ॥ सदय हृदयं यस्य भाषित सत्यभूषितम् ।
काय परहिते यस्य कलिस्तस्य करोति किम् ॥ १९२ ॥
अपत्यदर्शनस्यार्थे प्राणानपि च या त्यजेत् । त्यजन्ति
तामपि क्रूग मातर दारहेतवे ॥ १९३ ॥ पुत्रसू.
पाककुशला पवित्रा च पतिव्रता । पद्माक्षी पञ्चभैर्नारी
भुवि सयाति गौरवम् ॥ १९४ ॥ दातुरुन्नतवित्तस्य गुण-
युक्तस्य चार्थिन. । दुर्लभः खलु सयोग सद्वीजक्षेत्रयो-
रिव ॥ १९५ ॥ आज्ञामात्रफलं राज्यं ब्रह्मचर्यफलं तपः ।
परिज्ञानफलं विद्या दत्तमुक्तफलं धनम् ॥ १९६ ॥
आयुर्वित्तं गृहच्छिद्रं मन्त्रमौषधमैथुने । दानं मानाप-
मानौ च नव गोप्यानि कारयेत् ॥ १९७ ॥ अग्नौ
दग्धं जले मग्नं हृतं तस्करपार्थिवैः । तत्सर्व दान-
मित्याहुर्यदि क्लैव्यं न भाषते ॥ १९८ ॥ सभ्रमः
स्नेहमाख्याति वपुसख्याति भोजनम् । विनयो वंशमा-
स्याति देशमाख्याति भाषितम् ॥ १९९ ॥ किं
विद्यया कि तपसा कि योगेन श्रुतेन च । किं
विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् ॥ २०० ॥
यश्च मूढतमो लोके यश्च बुद्धे. पर गत. । तावुभौ
सुखमेधेते क्लिश्यत्यन्तरितो जन. ॥ २०१ ॥ त्यजे-
त्स्वामिनमप्युम्रमल्पश्रावकृपणं त्यजेत् । कृपणादविशेषज्ञं
तस्माच्च कृतशासनम् ॥ २०२ ॥ पात्रापात्रविवेको-
ऽस्ति धेनुपन्नगयोरिव । तृणात्संजायते क्षीरं क्षीरात्स-
जायते विषम् ॥ २०३ ॥ शनैर्विद्या शनैरर्थान्नारोहे-
त्पर्वतं शनैः । शनैरध्वसु वर्तेत योजनान्न पर व्रजेत्
॥ २०४ ॥ द्यूतं पुस्तकवाद्ये च नाटकेषु च सक्तता ।
स्त्रियस्तन्द्री च निद्रा च विद्याविघ्नकराणि षट् ॥ २०५ ॥
अतिथर्बालकः पत्नी जननी जनकस्तथा । पञ्चैते गृहिणः
पोष्या इतरे च स्वशक्तितः ॥ २०६ ॥ गाढं गुणवती
विद्या न मुदे विनयं विना । मूर्खतापि मुदे भूयान्महत्सु
विनयान्विता ॥ २०७ ॥ अहो साहजिकं प्रेम दूरादपि
१ निन्दन्
२ शव
१५८ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
विराजते । चकोरनयनद्वन्द्वमाह्लादयति चन्द्रमाः ॥ २०८॥
साक्षरा विपरीताश्चेद्राक्षसा एव केवलम् । सरसो विपरीत-
श्चेत्सरसत्वं न मुञ्चति ॥ २०९ ॥ यदीच्छसि वशीकर्तुं
जगदेकेन कर्मणा । परापवादसस्येभ्यो गा चरन्तीं निवा-
रय ॥ २१० ॥ एकस्तपो द्विरध्यायी त्रिभिर्गीतं चतुः पथम् ।
सप्त पञ्च कृषीणां च सङ्ग्रामो बहुभिर्जनै ॥ २११ ॥
काकः पक्षिषु चाण्डालः स्मृत पशुषु गर्दभः । नराणां
कोऽपि चाण्डालः स्मृतः सर्वेषु निन्दक ॥ २१२ ॥
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता । अभ्यासेन न
लभ्येयुश्चत्वारः सहजा गुणाः ॥ २१३ ॥ लोभमूलानि
पापानि रसमूलानि व्याधयः । इष्टमूलानि शोकानि
त्रीणि त्यक्त्वा सुखी भव ॥ २१४ ॥ प्रदोषे दीपकश्चन्द्रः
प्रभाते दीपको रवि । त्रैलोक्ये दीपको धर्म सुपुत्रः
कुलदीपकः ॥ २१५ ॥ सुखार्थी त्यजते विद्यां विद्यार्थी
त्यजते सुखम् । सुखार्थिन कुतो विद्या कुतो विद्यार्थिन
सुखम् ॥ २१६ ॥ अन्नदानात्परं दानं विद्यादानमतः परम् ।
अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया ॥ २१७ ॥
दूरस्थाः पर्वता रम्या वेश्या च मुखमण्डने । युद्धस्य
वार्ता रम्या च त्रीणि रम्याणि दूरतः ॥ २१८ ॥ माता
यदि विषं दद्याद्विक्रीणाति पिता सुतम् । राजा हरति
सर्वस्वं तत्र का परिदेवना ॥ २१९ ॥ अहेरिव गणाद्भीतः
परान्नाच्च विषादिव । राक्षसीभ्य इव स्त्रीभ्यः स
विद्यामधिगच्छति ॥ २२० ॥ अवज्ञात्रुटितं प्रेम
नवीकर्तुं क ईश्वर । संधिं न याति स्फुटितं
लाक्षालेपेन मौक्तिकम् ॥ २२१ ॥ सन्निकर्षोऽत्र मर्त्याना-
मनादरणकारणम् । गाङ्गं हित्वा यथाऽन्याम्भस्तत्रत्यो याति
शुद्धये ॥ २२२ ॥ लेखनी पुस्तकं रामा परहस्ते गता गता ।
कदाचित्पुनरायाता भ्रष्टा मुष्टा च चुम्बिता ॥ २२३ ॥
पूर्वदत्तेषु या विद्या पूर्वदत्तेषु च यद्धनम् । पूर्वदत्तेषु या
भार्या अग्रे धावति धावति ॥ २२४ ॥ श्रुत्वा धर्मं
विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवा-
प्नोति श्रुत्वा मोक्षं च विन्दति ॥ २२५ ॥ मनो धावति
सर्वत्र मदोन्मत्तगजेन्द्रवत् । ज्ञानाङ्कुशसमा बुद्धिस्तस्य
निश्चलते मनः ॥ २२६ ॥ इच्छेच्चेद्विपुलां मैत्रीं त्रीणि तत्र न
कारयेत् । वाग्वादमर्थसम्बन्धं तत्पत्नीपरिभाषणम् ॥ २२७॥
अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम् । अमृतं
राहवे मृत्युर्विषं रुद्रस्य भूषणम् ॥ २२८ ॥ पण्डिते चैव
मूर्खे च बलवत्यपि दुर्जने । ईश्वरे च दरिद्रे च मृत्योः सर्वत्र
तुल्यता ॥ २२९ ॥ सङ्ग्रामे सुभटेन्द्राणां कवीना कवि-
मण्डले । दीप्तिर्वा दीप्तिहानिर्वा मुहूर्तादेव जायते ॥२३०॥
विषस्य विषयाणा हि दृश्यते महदन्तरम् । उपभुक्तं विषं
हन्ति विषयाः स्मरणादपि ॥ २३१ ॥ पुराणान्ते श्मशा-
नान्ते मैथुनान्ते च या मतिः । सा मतिः सर्वदा चेत्स्यात्को
न मुच्येत बन्धनात् ॥ २३२ ॥ आकारेणैव चतुरास्तर्क-
यन्ति परेङ्गितम् । गर्भस्य केतकीपुष्पमामोदेनैव षट्पदाः
॥ २३३ ॥ न ज्ञातुं नाप्यनुज्ञातुं नेक्षितुं नाप्युपेक्षितुम् ।
स्वजनः स्वजने जातं विपत्पातं समीहते ॥ २३४ ॥
प्रायो दुरन्तपर्यन्ताः संपदोऽपि दुरात्मनाम् । भवन्ति हि
सुखोदर्का विपदोऽपि महात्मनाम् ॥ २३५ ॥ उदर्क-
भूतिमिच्छद्भि सद्भिः खलु न दृश्यते । चतुर्थीचन्द्रलेखेव
परस्त्रीभालपट्टिका ॥ २३६ ॥ अकाण्डपातजातानामार्द्राणा
मर्मभेदिनाम् । गाढशोकप्रहाराणामचिन्तैव महौषधम्
॥ २३७ ॥ अनिलोलोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।
निमित्तादपरोद्धेषोर्धामुष्केस्येव वल्गितम् ॥ २३८ ॥ शम्भु
श्वेतार्कपुष्पेण चन्द्रमा वस्त्रतन्तुना । अच्युतः स्मृतिमात्रेण
माधवः करसम्पुटैः ॥ २३९ ॥ अकृत्वा पौरुषं या श्रीर्वि-
कासिन्यपि कि तया । जरद्गवोऽपि चाश्नाति दैवादुपगतं
तृणम् ॥ २४० ॥ मन्दाकिनीपयःपानं मन्दाक्षीमुखचुम्ब-
नम् ।' मन्दरोपवनक्रीडा मन्दानुष्ठानत कुतः ॥ २४१ ॥
दीपो भक्षयते ध्वान्तं कज्जल च प्रसूयते । यदन्नं भक्षये-
न्नित्यं जायते तादृशी प्रजा ॥ २४२ ॥ मौनं कालविल-
म्बश्च प्रयाणं भूमिदर्शनम् । भ्रुकुट्यन्यमुखी वार्ता नकारः
षड्विधः स्मृतः ॥ २४३ ॥ अक्षणानि परीक्ष्यन्तामम्बराड-
म्बरेण किम् । शंभुरम्बरहीनोऽपि सर्वज्ञः किं न जायते
॥ २४४ ॥ दोषोऽपि गुणता याति प्रभोर्भवति चेत्कृपा ।
अङ्गहीनोऽपि सूर्येण सारथ्ये योजितोऽरुणः ॥ २४५ ॥
उत्तमं प्रणिपातेन शूर भेदेन योजयेत् । नीचमल्पप्रदानेन
इष्ट धर्मेण योजयेत् ॥ २४६ ॥ अकुले पतितो राजा मूर्ख-
पुत्रो हि पण्डितः । निर्धनस्य धनप्राप्तिस्तृणवन्मन्यते जगत्
॥ २४७ ॥ लोकेषु निर्धनो दुःखी ऋणग्रस्तस्ततोऽधिकम् ।
ताभ्यां रोगयुतो दुःखी तेभ्यो दुःखी कुमार्यकः ॥ २४८ ॥
आज्ञाभङ्गो नरेन्द्राणा विप्राणा मानखण्डनम् । पृथक्शय्या
च नारीणामशस्त्रवध उच्यते ॥ २४९ ॥ प्रस्तावसदृशं
वाक्यं सद्भावसदृशं प्रियम् । आत्मशक्तिसमं कोपं कुर्वाणो
न विनश्यति ॥ २५० ॥ पाठकः पाठकश्चैव ये चान्ये
शास्त्रपाठकाः । सर्वे व्यसनिनो ज्ञेया यः क्रियावान्स पण्डितः
॥ २५१ ॥ पण्डितैः सह साङ्गत्यं पण्डितैः सह संकथा । पण्डितैः
सह मित्रत्वं कुर्वाणो नावसीदति ॥ २५२ ॥ शील शौर्यममा-
सामान्यनीति
१५९
लक्षं पाण्डित्यं मित्रसङ्ग्रहः । अचोरहरणीयानि पञ्चैतान्यक्षयो निधिः ॥ २५३ ॥
मातृवत्परदाराणि परद्रव्याणि लोष्टवत् ।
आत्मवत्सर्वभूतानि यः पश्यति स पश्यति ॥ २५४ ॥
धर्मार्थकाममोक्षाणा यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ २५५ ॥
स जीवति गुणा यस्य धर्मो यस्य स जीवति । गुणधर्मविहीनो यो निष्फलं तस्य जीवितम् ॥ २५६ ॥
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थी नोपलभ्यते ॥२५७॥
षट्पद. पुष्पमध्यस्थो यथा सारं समुद्धरेत् । तथा सर्वेषु शास्त्रेषु सारं गृह्णन्ति पण्डिता ॥ २५८ ॥
गुणान्भूषयते रूपं शीलं भूषयते कुलम् । सिद्धिर्भूषयते विद्या भोगो भूषयते धनम् ॥ २५९ ॥
अगुणस्य हत रूपमशीलस्य हत कुलम् । असिद्धेस्तु हता विद्या अभोगस्य हृत धनम् ॥ २६० ॥
दिवा पश्यति नोलूकः काको नक्तं न पश्यति ।
अपूर्व कोऽपि कामान्धो दिवा नक्तं न पश्यति ॥ २६१ ॥
यौवन धनसपत्ति. प्रभुत्वमविवेकित्ता । एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥२६२॥
मुख्यमेक पुरस्कृत्य शून्यात्मानोऽपि साधकाः । भवन्ति तं विना नैव यथा सख्याङ्कबिन्दव ॥ २६३ ॥
वचस्तत्रैव वक्तव्य यत्रोक्त सफल भवेत् । स्थायीभवति चात्यन्तं रङ्ग. शुक्लपटे यथा ॥२६४॥
पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नव पयः । जातौ जातौ नवाचारा नवा वाणी मुखे मुखे ॥ २६५ ॥
गान्धर्व गन्धसयुक्त ताम्बूलं भारती कथा । इष्टा भार्या प्रियं मित्रमपूर्वाणि दिने दिने ॥ २६६ ॥
विद्यया सह मर्तव्यं कुशिष्याय न दापयेत् । तथापि दीयते विद्या पश्चात्सजायते रिपु. ॥ २६७ ॥
मर्कटस्य सुरापान तस्य वृश्चिकदशनम् । तन्मध्ये भूतसञ्चारे यद्वा तद्वा भविष्यति ॥ २६८ ॥
पुस्तकेषु च या विद्या परहस्तेषु यद्धनम् । सङ्ग्रामे च गृहे सैन्यं तिस्रपुसा विडम्बना. ॥ २६९ ॥
असावधाने पाण्डित्यं क्रयक्रीतं च मैथुनम् । भोजनं च पराधीन तिस्र पुसा विडम्बनाः ॥ २७० ॥
पादेन क्रम्यते पन्था मानहीनं च भोजनम् । अविवेकिप्रभोः सेवा पातकं किमतः परम् ॥२७१॥
तुष्यन्ति भोजनैर्विप्रा मयूरा घनगर्जितैः । साधवः परसंतोषैः खला. परविपत्तिषु ॥ २७२ ॥
प्रत्यक्षे गुरव स्तुत्याः परोक्षे मित्रबान्धवाः । कर्मान्ते दासभृत्याश्च पुत्रा नैव तथा स्त्रियः ॥ २७३ ॥
विनय राजपुत्रेभ्यः पण्डितेभ्य. सुभाषितम् । अनृतं द्यूतकारेभ्य. स्त्रीभ्यः शिक्षेत कैतवम् ॥२७४॥
धनधान्यप्रयोगेषु विद्यासङ्ग्रहणेषु च । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥ २७५ ॥
मुहूर्तपि जीवेत् नरः शुक्रेन कर्मणा । न कल्पमपि कृष्णेन लोकद्वयविरोधिना ॥ २७६ ॥
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥ २७७ ॥
स्वभावेन हि तुष्यन्ति देवाः सत्पुरुषा. पिता । ज्ञातयस्त्वन्नपानेन वाक्प्रदानेन पण्डिता ॥ २७८ ॥
नराणा नापितो धूर्तः पक्षिणा चैव वायस. । चतुष्पदा शृगालस्तु स्वेच्छाचारी तपस्विनाम् ॥ २७९ ॥
चाण्डालः पक्षिणा काक पशूना चैव कुकुर । कोपो मुनीना चाण्डालः-श्चाण्डाल. सर्वनिन्दकः ॥ २८० ॥
अमत्सपूज्यते चक्रं अम्रन्सपूज्यते द्विज. । भ्रमन्सपूज्यते राजा स्त्री भ्रमन्ती विनश्यति ॥ २८१ ॥
न पश्यति च जन्मान्ध. कामान्धो नैव पश्यति । न पश्यति मदोन्मत्तो ह्यर्थी दोषं न पश्यति ॥ २८२ ॥
स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते । स्वयं भ्रमति ससारे स्वयं तस्माद्विमुच्यते ॥ २८३ ॥
खड्गमूल भवेद्राज्यमत्रीमूलं स्थिर भवेत् । प्रजामूलं भवेदर्था वैरमूल विनश्यति ॥ २८४ ॥
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी । अविनीता रिपुर्भार्या पुत्रः शत्रुरपण्डित. ॥ २८५ ॥
नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः । नास्ति क्रोधसमो वह्निर्नास्ति ज्ञानात्परं सुखम् ॥ २८६ ॥
विद्या मित्र प्रवासेषु भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥ २८७ ॥
नास्ति मेघसम तोय नास्ति चात्मसमं बलम् । नास्ति चक्षु.समं तेजो नास्ति धान्यसमं प्रियम् ॥ २८८ ॥
अधना धनमिच्छन्ति वादमिच्छन्ति गर्विताः । मानवा. स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवता. ॥ २८९ ॥
सत्येन धार्यते पृथ्वी सत्येन तपते रविः । सत्येन वायवो वान्ति सर्व सत्ये प्रतिष्ठितम् ॥ २९० ॥
हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् । श्रोत्रस्य भूषणं शास्त्रं भूषणै कि प्रयोजनम् ॥ २९१ ॥
युक्तयुक्तं पुराविद्विश्चिन्ता जूर्ति. सुदारुणा । न भेषजैलङ्घनैर्वा न चान्यैरुपशाम्यति ॥ २९२ ॥
आवासः क्रियता गाङ्गे पापहारिणि वारिणि । स्तनमध्ये तरुणा वा मनोहारिणि हारिणि ॥ २९३ ॥
सुभाषितरसास्वाद प्रौढस्त्रीसगमस्तथा । सेवा विवेकिनो राज्ञो दुःखनिर्मूलनं त्रयम् ॥ २९४ ॥
ईर्ष्या घृणी त्वसतुष्टः क्रोधनो नित्यशङ्कित । परभाग्योपजीवी च षडेते दुःखभागिनः ॥ २९५ ॥
नवं वस्त्र नवं छत्रं नव्या स्त्री नूतनं गृहम् । सर्वत्र नूतनं शस्तं सेवकान्ने पुरातने ॥ २९६ ॥
वृद्धस्य वचनं ग्राह्यमापत्काले ह्युपस्थिते । सर्वत्रैवं विचा-
१ मूर्ख २ ज्वर .
१६० सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
रेण नाहारे न च मैथुने ॥ २९७ ॥ अतिदूरपथश्रान्ता- श्छायां यान्ति च शीतलाम् । शीतलाञ्च पुनर्यान्ति का कस्य परिदेवना ॥ २९८ ॥ अपमानं पुरस्कृत्य मानं कृत्वा च पृष्ठतः । स्वकार्यमुद्धरेत्प्राज्ञः कार्यध्वंसो हि मूर्खता ॥ २९९ ॥ कृतस्य करणं नास्ति मृतस्य मरणं तथा । गतस्य शोचनं नास्ति ह्येतद्वेदविदां मतम् ॥ ३०० ॥ नाकाले म्रियते जन्तुर्विद्ध शरशतैरपि । कुशकण्टक- विद्धोऽपि प्राप्तकालो न जीवति ॥ ३०१ ॥ निमग्नस्य पयो- राशौ पर्वतात्पतितस्य च । तक्षकेणापि दष्टस्य आयुर्मर्माणि रक्षति ॥ ३०२ ॥ नानृषि कुरुते काव्यं नारुद्र क्रम- पाठकः । नादेवांशो ददात्यन्नं नाविष्णु पृथिवीपतिः ॥ ३०३ ॥ कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः । मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥ ३०४ ॥ वह्निज्वालेव गृहिणी रक्षणीया प्रयत्नतः । बुद्धिक्षयविकाराभ्यां स्वाश्रयक्षेममिच्छता ॥ ३०५ ॥ ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ ३०६ ॥ अस्थिरं जीवितं लोके अस्थिरे धनयौवने । अस्थिरा पुत्रदाराश्च धर्मः कीर्तिर्द्वयं स्थिरम् ॥ ३०७ ॥ लालयेत्पञ्च वर्षाणि दश वर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥ ३०८ ॥ गणेशं स्तौति मार्जारः स्वाहास्याभिरक्षणे । महानपि प्रसङ्गेन नीचं सेवितुमिच्छति ॥ ३०९ ॥ श्यामा मन्थरगामिन्यः पीनोन्नतपयोधराः । महिष्यश्च महिष्यश्च सन्ति पुण्यवतां गृहे ॥ ३१० ॥ पदे पदे च रत्नानि योजने रसकूपिका । भाग्यहीना न पश्यन्ति बहुरत्ना वसुं- धरा ॥ ३११ ॥ राजा वेश्या यमो वह्निः प्राघूर्णो बालया- चकौ । परदुःखं न जानाति ह्यष्टमो ग्रामकण्टकः ॥ ३१२ ॥ क्रोधो मूलमनर्थानां क्रोधः संसारबन्धनम् । धर्मक्षयकरः क्रोधस्तस्मात्क्रोधं विवर्जयेत् ॥ ३१३ ॥ प्रेम सत्यं तयोरेव ययोर्योगवियोगयोः । वत्सरा वासरीयन्ति वासरीयन्ति वत्सराः ॥३१४॥ किं धनेन कुबेरस्य सुभाषितगुणेन किम् । वाचस्पतेश्च दीपेन रवेः सिन्धोश्च बिन्दुना ॥ ३१५ ॥ मधुना सिञ्चयेन्निम्बं निम्बः किं मधुरयते । जातिस्वभाव- दोषोऽयं कटुकत्वं न मुञ्चति ॥ ३१६ ॥ कर्तव्यमेव कर्त- व्यं प्राणैः कण्ठगतैरपि । अकर्तव्यं न कर्तव्यं प्राणैः कण्ठ- गतैरपि ॥ ३१७ ॥ अग्निहोत्रं गृहं क्षेत्रं मित्रं भार्या सुतं शिशुम् । रिक्तपाणिर्न पश्येत राजानं देवतां गुरुम् ॥३१८॥ उत्तमं स्वार्जितं भुक्तं मध्यमं पितुरर्जितम् । कनिष्ठं भ्रातृवित्तं च स्त्रीवित्तमधमाधमम् ॥ ३१९ ॥ अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रममि- त्रस्य कुतः सुखम् ॥ ३२० ॥ अनर्घ्यमपि माणिक्यं हेमा- श्रयमपेक्षते । अनाश्रया न शोभन्ते पण्डिता वनिता लताः ॥ ३२१ ॥ विप्रार्थेषु धनक्षीर्णं खदोग्धतयौवनम् । स्वामि- कार्ये हतप्राणमन्ते तिष्ठति माधवः ॥ ३२२ ॥ न विश्वसे- दमित्रस्य मित्रस्यापि न विश्वसेत् । कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ ३२३ ॥ अभ्रच्छाया तृणाग्निश्च खले प्रीतिः स्थले जलम् । वेश्यासक्तिः कुमित्रं च षडेते बुद्बुदोपमाः ॥ ३२४ ॥ प्रमदा मदिरा लक्ष्मीर्विज्ञेया त्रिवि- धा सुरा । दृष्ट्वैवोन्मादयत्येका पीता चान्यातिसञ्चयात् ॥ ३२५ ॥ राजपत्नी गुरोः पत्नी भ्रातृपत्नी तथैव च । पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः ॥ ३२६ ॥ इक्षुदण्डास्तिलाः शूद्राः कामिनी हेम मेदिनी । दधि चन्दन- ताम्बूले मर्दनं गुणवर्धनम् ॥ ३२७ ॥ पराधीनं वृथा जन्म परस्त्रीषु वृथा सुखम् । पङ्गोहे वृथा लक्ष्मीर्विद्या वा पुस्त- के वृथा ॥ ३२८ ॥ असमाने तपोवृद्धिः समानाञ्च तप- क्षयः पूजया । पुण्यहानि सान्निन्द्या सङ्गतिर्भवेत् ॥ ३२९ ॥ १ध्यानशस्त्रं बकानां च वेश्यानां मोहशस्त्रकम् । साधुत्वशस्त्रं मैन्दानां परप्राणार्थहारकम् ॥ ३३० ॥ ललितान्तानि गीतानि प्रसूतान्तं च यौवनम् । विशाखान्ता मेघमाला तक्रान्तं खलु भोजनम् ॥ ३३१ ॥ धातुः परीक्षा दुर्भिक्षे स्त्रीपरीक्षा च निर्धने । युद्धे शूर- परीक्षा च मृत्योरत्यन्तमापदि ॥ ३३२ ॥ अन्यमाश्रयते लक्ष्मीस्त्वन्यमन्यं च मेदिनी । अनन्यगामिनी पुंसां कीर्ति- रेका पतिव्रता ॥ ३३३ ॥ न कालः खङ्गमुद्यम्य शिरः कृन्तति कस्यचित् । कालस्य बलमेतावद्विपरीतार्थदर्शनम् ॥ ३३४ ॥ जानन्नपि जनो दैवात्प्रकरोति विगर्हितम् । न कर्म गर्हितं लोके कस्यचिद्रोचते कृतम् ॥ ३३५ ॥ सद्भावेन जयेन्मित्रं सद्भावेन च बान्धवान् । स्त्रीभृत्यान्दानमानाभ्यां दाक्षिण्येनेतरं जनम् ॥ ३३६ ॥ सन्तोषस्त्रिषु कर्तव्यः स्व- दारे भोजने धने । त्रिषु चैव न कर्तव्यो दाने तपसि पाठने ॥ ३३७ ॥ न पुत्रात्परमो लाभो न भार्यायाः परं सुखम् । न धर्मात्परमं मित्रं नानृतात्पातकं परम् ॥ ३३८ ॥ त्रैया- यासमपि शीलेन विहीनं नैव पूजयेत् । अपि शूद्रं च धर्मज्ञं सद्वृत्तमभिपूजयेत् ॥ ३३९ ॥ शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि । सर्वदा सर्वयत्नेन पुत्रे शिष्यवदा- चरेत् ॥ ३४० ॥ सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत् । व्यसने योजयेच्छत्रुमिष्टं धर्मेण योजयेत् ॥३४१॥
१ वरिष्ठम्
सामान्यनीतिः १६१
नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः । पृथिवीभूषणं राजा विद्या सर्वस्य भूषणम् ॥ ३४२ ॥
लालने बहवो दोषास्ताडने बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत् ॥ ३४३ ॥
दूरतः शोभते मूर्खो लम्बशाटपटावृतः । तावच्च शोभते मूर्खो यावत्किञ्चिन्न भाषते ॥ ३४४ ॥
सकृद्दुष्टं च मित्रं यः पुनः संधातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥ ३४५ ॥
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः । कारणेन हि जायन्ते मित्राणि रिपवस्तथा ॥ ३४६ ॥
हस्ती हस्तसहस्रेण शतहस्तेन वाजिनः । शृङ्गिणो दशहस्तेन स्थानत्यागेन दुर्जनः ॥ ३४७ ॥
आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ३४८ ॥
परदारान्परद्रव्यं परीवादं परस्य च । परीहास गुरौ स्थाने चापल्यं च विवर्जयेत् ॥ ३४९ ॥
अग्रगल्भस्य या विद्या कृपणस्य च यद्धनम् । यच्च बाहुबलं भीरोर्व्यर्थमेतत्त्रयं भुवि ॥ ३५० ॥
शरीरनिरपेक्षस्य दक्षस्य व्यवसायिनः । बुद्धिप्रारब्धकार्यस्य नास्ति किंचन दुष्करम् ॥ ३५१ ॥
असूयया हतेनैव पूर्वोपायोद्यमैरपि । कर्तॄणां गृह्यते सप्तसुहृद्धिर्मंत्रिभिस्तथा ॥ ३५२ ॥
अतिदाक्षिण्ययुक्तानां शङ्कितानां पदे पदे । परापवादभीरूणां दूरतो यान्ति संपदः ॥ ३५३ ॥
आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः । क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ ३५४ ॥
न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेव हि पाण्डित्यं न स्वल्पाद्भूरिनाशनम् ॥ ३५५ ॥
अफलानि दुरन्तानि समयव्ययफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षणः ॥ ३५६ ॥
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः । इति संचिन्त्य मनसा प्राज्ञः कुर्वीत वा न वा ॥ ३५७ ॥
देहे पातिनि का रक्षा यशो रक्ष्यमपातवत् । नरः पतितकायोऽपि यशःकायेन जीवति ॥ ३५८ ॥
निमेषमात्रमपि ते वयो गच्छन्न तिष्ठति । तस्माद्देहेष्वनित्येषु कीर्तिमेकामुपार्जय ॥ ३५९ ॥
बुधाग्रे न गुणान्ब्रूयात्साधु वेत्ति यतः स्वयम् । मूर्खाग्रेऽपि च न ब्रूयाद्बुधप्रोक्तं न वेत्ति सः ॥ ३६० ॥
यावत्स्वस्थमिदं देहं यावन्मृत्युश्च दूरतः । तावदात्महितं कुर्यात्प्राणान्ते किं करिष्यसि ॥ ३६१ ॥
यः करोति वचोदर्का निःश्रेयसकरीः क्रियाः । ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥ ३६२ ॥
मूलं दोषस्य हिंसादेरर्थकामो स्म मा मुषः । तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥ ३६३ ॥
अभिद्रोहेण भूतानामर्जयन्प्रत्यरी श्रियः । उदन्त्वानिव सिन्धूनामापदामेति पात्रताम् ॥ ३६४ ॥
या गम्याः सत्सहायाना यासु खेदो भयं यतः । तासां किं यन्न दुःखाय विपदामिव संपदाम् ॥ ३६५ ॥
दुरामदानरीनुग्रान्धृतेर्विश्वासजन्मनः । भोगान्भोगानिवाहेयानध्यास्यापन्न दुर्लभा ॥ ३६६ ॥
नान्तरज्ञाः श्रियो जातु प्रियैरामा न भूयते । आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ॥ ३६७ ॥
कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चला । साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव संपदः ॥ ३६८ ॥
कृतवानन्यदेहेषु कर्ता च विधुरं मनः । अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ॥ ३६९ ॥
शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः । विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ॥ ३७० ॥
तदा रम्याण्य रम्याणि प्रिया शल्यं तदासवः । तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ॥ ३७१ ॥
युक्तं प्रमाद्यसि हितादपेतं परितप्यसे । यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥ ३७२ ॥
जन्मिनोऽस्य स्थितिं विद्धींलक्ष्मीमिव चलाचलाम् । भवान्मा स्म वधीन्याय्यं न्यायधारा हि साधवः ॥ ३७३ ॥
अविज्ञातप्रबन्धस्य वचो वाचस्पतेरिव । व्रजत्यफलतामेव नयद्रुह इवेहितम् ॥ ३७४ ॥
कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥ ३७५ ॥
मनसा चिन्तितं कर्म वचसा न प्रकाशयेत् । अन्यलक्षितकार्यस्य यतः सिद्धिर्न जायते ॥ ३७६ ॥
कुदेशं च कुवृत्तिं च कुभार्यां कुनदीं तथा । कुद्रव्यं च कुभोज्यं च वर्जयेत्तु विचक्षणः ॥ ३७७ ॥
अस्ति पुत्रो वशे यस्य भृत्यो भार्या तथैव च । अभावे सति संतोषः स्वर्गस्थोऽसौ महीतले ॥ ३७८ ॥
माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ ३७९ ॥
कोकिलानां स्वरो रूपं नारीरूपं पतिव्रतम् । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ ३८० ॥
अविद्यं जीवनं शून्यं दिक्शून्या चेदबान्धवाः । पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता ॥ ३८१ ॥
अदाता वंशदोषेण कर्मदोषाद्दरिद्रता । उन्मादो मातृदोषेण पितृदोषेण मूर्खता ॥ ३८२ ॥
अतिदर्पे हता लङ्का ह्यतिमाने च कौरवाः । अतिदाने बलिर्बद्धः सर्वमत्यन्तगर्हितम् ॥ ३८३ ॥
वस्त्रहीनस्त्वलङ्कारो घृतहीनं च भोजनम् । स्तनहीना च या नारी विद्याहीनं च जीवनम् ॥ ३८४ ॥
पुत्रप्रयोजना दाराः पुत्रः पिण्डप्रयोजनः । हितप्रयोजनं मित्रं धनं सर्वप्रयोजनम् ॥ ३८५ ॥
दुर्लभं संस्कृतं वाक्यं दुर्लभः क्षेमकृत्सुतः । दुर्लभा सदृशी भार्या दुर्लभः स्वजनः प्रियः ॥ ३८६ ॥
अशोच्यो निर्धनः प्राज्ञोऽशोच्यः पण्डितबान्धवः । अशोच्या विधवा नारी पुत्रपौत्रप्रतिष्ठिता ॥ ३८७ ॥
अविद्यः पुरुषः शोच्यः
२१ सु. र भा.
| १६२ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
शोच्यं मैथुनमप्रजम् । निराहाराः प्रजा. शोच्या. शोच्य राज्यमराजकम् ॥ ३८८ ॥ कुलीनै. सह संपर्क पण्डितैः सह मित्रताम् । ज्ञातिभिश्च समं मेलं कुर्वाणो न विनश्यति ॥ ३८९ ॥ कष्टा वृत्तिः पराधीना कष्टो वासो निराश्रय. । निर्धनो व्यवसायश्च सर्वकष्टा दरिद्रता ॥ ३९० ॥ तस्करस्य कुतो धर्मो दुर्जनस्य कुत. क्षमा । वेश्याना च कुतः स्नेह. कुत' सत्यं च कामिनाम् ॥ ३९१ ॥ प्रेषितस्य कुतो मानः कोपनस्य कुतः सुखम् । स्त्रीणा कुत सतीत्वं च कुतो मैत्री खलस्य च ॥ ३९२ ॥ दुर्बलस्य बलं राजा बालाना रोदन बलम् । बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम् ॥ ३९३ ॥ यो ध्रुवाणि परित्यज्य अध्रुवं परिवेषते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ ३९४ ॥ शुष्कं मास स्त्रियो वृद्धा बालार्कस्तरुण दधि । प्रभाते मैथुनं निद्रा सद्य.प्राणहराणि षट् ॥ ३९५ ॥ सद्योमास नवान्नं च बाला स्त्री क्षीरभोजनम् । घृतमुष्णोदकं चैव सद्यःप्राणकराणि षट् ॥ ३९६ ॥ सिहादेक बकादेकं षट् शुनस्त्रीणि गर्दभात् । वायसात्पञ्च शिक्षेच्च चत्वारि कुक्कुटादपि ॥ ३९७ ॥ प्रभूतमल्पकार्य वा यो नरः कर्तुमिच्छति । सर्वारम्भेण तत्कुर्यात्सिंहादेक प्रकीर्तितम् ॥ ३९८ ॥ सर्वेन्द्रियाणि सयम्य बकवत्पतितो जन. । कालदेशोपपन्नानि सर्वकार्याणि साधयेत् ॥ ३९९ ॥ बह्वाशी स्वल्पसतुष्ट. सुनिद्रः शीघ्रचेतन. । प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः ॥ ४०० ॥ अविश्रामं वहेद्भार शीतोष्णं च न विन्दति । ससन्तोषस्तथा नित्य त्रीणि शिक्षेत गर्दभात् ॥ ४०१ ॥ गूढमैथुनधार्ष्ट्यं च काले चालयसग्रहम् । अप्रमादमनालस्य पञ्च शिक्षेत वायसात् ॥ ४०२ ॥ युद्धं च प्रातरुत्थानं भोजनं सह बन्धुभि । स्त्रियमापदता रक्षेच्चतुः शिक्षेत कुक्कुटात् ॥ ४०३ ॥ कोऽतिभारः समर्थाना कि दूर व्यवसायिनाम् । को विदेशः सविद्याना क. पर. प्रियवादिनाम् ॥ ४०४ ॥ आपदा कथित. पन्था इन्द्रियाणामसयम । तज्जय. संपदा मार्गो येनेष्ट तेन गम्यताम् ॥ ४०५ ॥ न च विद्यासमो बन्धुर्न च व्याधिसमो रिपुः । न चापत्यसम स्नेहो न च दैवात्पर बलम् ॥ ४०६ ॥ समुद्रावरणा भूमि. प्राकारावरण गृहम् । नरेन्द्रावरणा देशाश्चरित्रावरणाः स्त्रिय. ॥ ४०७ ॥ घृतकुम्भसमा नारी तप्ताङ्गारसम. पुमान् । तस्माद्घृतं च वह्नि च नैकत्र स्थापयेद्बुध ॥ ४०८ ॥ आहारो द्विगुण. स्त्रीणा बुद्ध्रिस्तासा चतुर्गुणा । षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥ ४०९ ॥ जीर्णमन्नं प्रशंसियाद्भार्यां च गतयौवनाम् । रणात्प्रत्यागतं शूर सस्यं च गृहमागतम् ॥ ४१० ॥
असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभुजः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलस्त्रिय ॥ ४११ ॥ अवश्यपतितो राजा मूर्खपुत्रश्च पण्डितः । अधनेन धनं प्राप्तं तृणवन्मन्यते जगत्॥ ४१२ ॥ पुस्तकस्था तु या विद्या परहस्तगतं धनम् । कार्यकाल समुत्पन्ने न सा विद्या न तद्धनम् ॥ ४१३ ॥ पादपाना भयं वातात्पद्माना त्रिशिराद्द्वयम् । पर्वताना भयं वज्रात्साधूना दुर्जनाद्द्वयम् ॥ ४१४ ॥ यस्य क्षेत्रं नदीतीरे भार्या वापि परप्रिया । पुत्रश्च विनयो नास्ति मृत्युरेव न सशयः ॥ ४१५ ॥ असम्भाव्यं न वक्तव्यं प्रत्यक्षमपि दृश्यते । शिला तरति पानीयं गीत गायति वानरः ॥ ४१६ ॥ सुभिक्षं कृषके नित्यं नित्यं सुखमरोगिणि । भार्या भर्तु प्रिया यस्य तस्य नित्योत्सवं गृहम् ॥ ४१७ ॥ हेला स्यात्कार्यनाशाय बुद्धिनाशाय निर्धनम् । याचना माननाशाय कुलनाशाय भोजनम् ॥ ४१८ ॥ प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये नार्जित पुण्यं चतुर्थे कि करिष्यति ॥४१९॥ नदीकूले च ये वृक्षाः परहस्तगतं धनम् । कार्य स्त्रीगोचर यत्स्यात्सर्वं तद्विफलं भवेत् ॥ ४२० ॥ कूपोदकं वटच्छाया श्यामा स्त्री चेष्टकालयम् । शीतकाले भवेदुष्णं ग्रीष्मकाले च शीतलम् ॥ ४२१ ॥ विषं चङ्क्रमणं रात्रौ विषं राज्ञोऽनुकूलता । विष स्त्रियोऽप्यन्यहृदो विषं व्याधिरवीक्षित ॥४२२॥ दुरधीता विष विद्या अजीर्णे भोजनं विषम् । विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥ ४२३ ॥ प्रदोषे निहत. पन्था पतिता निहता. स्त्रिय । अल्पबीज हतं क्षेत्र भृत्यदोषाद्धतः प्रभु ॥ ४२४ ॥ हतमश्रोत्रियं श्राद्ध हतो यज्ञस्त्वदक्षिणः । हता रूपवती वन्ध्या हतं सैन्यमनायकम् ॥ ४२५ ॥ कि करिष्यन्ति वक्तार श्रोता यत्र न विद्यते । नग्नैक्षपणके देशे रजक. कि करिष्यति ॥ ४२६ ॥ अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ४२७ ॥ आयु कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतान्यपि सृज्यन्ते गर्भस्थस्यैव देहिन. ॥ ४२८ ॥ यदभावि न तद्भावि भावि चेन्न तदन्यथा । इति चिन्ताविषघ्नोऽयमगदः कि न पीयते ॥४२९॥ नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत् । न व्यापारशतेनापि शुकवत्पाठ्यते वक ॥ ४३० ॥ शोकस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ ४३१ ॥ उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम् । मरणव्याधिशोकाना किमद्य निपतिष्यति ॥ ४३२ ॥ अनिष्ठादिष्टलाभेऽपि न गतिर्जायते शुभा । यत्रास्ते विषसंसर्गो-
१ दिगम्बरसाधुव्यापृते प्रदेशे २ वस्त्रनिर्णेजक , रजको वा
सामान्यनीतिः १६३
मृतं तदपि मृत्यवे ॥ ४३३ ॥ न संशयमणारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यति ॥ ४३४ ॥ गतानुगतिको लोक. कुट्टनीमुपदेशिनीम् । प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम् ॥ ४३५ ॥ प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतेषु दया कुर्वन्ति साधवः ॥ ४३६ ॥ प्रत्याख्याने च दाने च सुखदुखे प्रियाप्रिये । आत्मौपम्येन पुरुष प्रमाणमविगच्छति ॥ ४३७ ॥ अवश्येन्द्रियचित्ताना हस्तिस्नानमिव क्रिया । दुर्भगाभरणप्रायो ज्ञान भार. क्रिया विना ॥ ४३८ ॥ शङ्काभि सर्वमाक्रान्तमन्न पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ॥ ४३९ ॥ सुमहन्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः । छेत्तारः संशयाना च क्लिश्यन्ते लोभमोहिता. ॥ ४४० ॥ षड्दोषा. पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भय क्रोध आलस दीर्घसूत्रता ॥४४१॥ माता मित्र पिताचेति स्वभावान्त्रितय हितम् । कार्यकारणतश्चान्ये भवन्ति हितबुद्धय ॥ ४४२ ॥ जातिमात्रेण कि कश्चिद्धन्यते पूज्यते क्वचित् । व्यवहार परिज्ञाय वध्य पूज्योऽथवा भवेत् ॥ ४४३ ॥ तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्यपि सता गेहे नोच्छिद्यन्ते कदाचन ॥ ४४४ ॥ आपत्सु मित्रं जानीयाद्युद्धे शूरमृणे शुचिम् । भार्या क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥ ४४५ ॥ सुहृदा हितकामाना यः शृणोति न भाषितम् । विपत्संनिहिता तस्य स नरः शत्रुनन्दनः ॥ ४४६ ॥ अपराधो न मेऽस्तीति नैतद्विश्वासकारणम् । विद्यते हि नृशंसेभ्यो भय गुणवतामपि ॥ ४४७ ॥ दीपनिर्वाणगन्धं च सुहृद्वाक्यमरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गतायुष. ॥ ४४८ ॥ मार्जारो महिषो मेषः काक. कापुरुषस्तथा । विश्वासात्प्रभवन्त्येते विश्वासस्तत्र नो हित. ॥ ४४९ ॥ यदशक्यं न तच्छक्य यच्छक्यं शक्यमेव तत् । नोदके शकटं याति न च नौर्र्गच्छति स्थले ॥ ४५० ॥ द्रवत्वात्सर्वलोहाना निमित्तान्मृगपक्षिणाम् । भयाल्लोभाच्च मूर्खाणा सगत दर्शनात्सताम् ॥ ४५१ ॥ पटुत्वं सत्यवादित्व कथा cover/योगेन बुध्यते । अस्तब्धत्वमचापल्यं प्रत्यक्षेणावगम्यते ॥ ४५२ ॥ लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता । पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र सस्थितिम् ॥ ४५३ ॥ अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च । मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥ ४५४ ॥ परिच्छेदो हि पाण्डित्य यदापन्ना विपत्तय. । अपरिच्छेदकर्तॄणा विपदः स्यु. पदे पदे ॥ ४५५ ॥ पानीय वा निरा-
यासं खाद्रन्न वा मयोत्तरम् । विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ ४५६ ॥ जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरे. । निमित्तं किचिदासाद्य देही प्राणान्विमुञ्चति ॥ ४५७ ॥ नाप्राप्यमभिवाञ्छन्ति नष्ट नेच्छन्ति शोचितुम् । आपत्स्वपि न मुह्यन्ति नरा. पण्डितबुद्धय ॥ ४५८ ॥ सुखमापतित सेव्य दु खमापतितं तथा । चक्रवत्परिवर्तन्ते दुखानि च सुखानि च ॥ ४५९ ॥ वृत्त्यर्थ नातिचेष्टेत सा हि धात्रैव निर्मिता । गर्भादुत्पतिते जन्तौ मातुः प्रभवत स्तनौ ॥ ४६० ॥ येन शुक्लीकृता हसाः शुकाश्र हरितीकृता. । मयूराश्चित्रिता येन स ते वृत्ति विधास्यति ॥ ४६१ ॥ धर्मार्थ यस्य वित्तेहा वर तस्य निरीहता । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शन वरम् ॥ ४६२ ॥ जन्मनि क्लेशबहुले कि नु दु.खमत. परम् । इच्छासपद्यतो नास्ति यच्चेच्छा न निवर्तते ॥ ४६३ ॥ यद्यदेव हि वाञ्छेत ततो वाञ्छा प्रवर्तते । प्राप्त एवार्थतं सोऽर्थो यतो वाञ्छा निवर्तते ॥ ४६४ ॥ अम्भासि जलजन्तूना दुर्ग दुर्गनिवासिनाम् । स्वभूमिः श्वापदादीना राजा मन्त्री पर बलम् ॥ ४६५ ॥ काय सनिहितापाया सपद् पदमापदाम् । समागमा मापगमाः सर्वमुत्पादि भङ्गुरम् ॥ ४६६ ॥ अधोध पश्यत कस्य महिमा नोपचीयते । उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ ४६७ ॥ अलब्धं चैव लिप्सेत लब्ध रक्षेदवेक्षया । रक्षितं वर्धयेत्सम्यग्वृद्धं तीर्थेषु निक्षिपेत् ॥ ४६८ ॥ शीतवातातपक्लेशान्महन्ते यान्पराश्रिता. । तदंशेनापि मेधावी तपस्त्यक्त्वा सुखी भवेत् ॥ ४६९ ॥ एतावज्जन्मसाफल्य यदनायत्तवृत्तिता । ये पराधीनता यातास्ते वै जीवन्ति के मृता. ॥ ४७० ॥ आश्रिताना भृतौ स्वामिसेवायां धर्मसेवने । पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तका. ॥ ४७१ ॥ पृष्ठत' सेव्येदेक जठरेण हुताशनम् । स्वामिन सर्वभावेन परलोकममायया ॥ ४७२ ॥ पञ्चभिर्याति दासत्वं पुंगुणै कोऽपि मानव । कोऽपि लक्षै कृती कोऽपि लक्षैरपि न लभ्यते ॥ ४७३ ॥ वाजिवारणलोहाना काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तर महदन्तरम् ॥ ४७४ ॥ आरोप्यते शिला शैले यत्नेन महता यथा । निपात्यते क्षणेनाधस्तथात्मा गुणदोषयो. ॥ ४७५ ॥ अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते । आत्मानं मन्यते प्रीत भूपालस्य स दुर्मतिः ॥ ४७६ ॥ किमप्यस्ति स्वभावेन सुन्दर वाप्यसुन्दरम् । यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥ ४७७ ॥ यस्य यस्य हि
१ नाणकविशेषै, रूप्यकैरिति यावत्
२ पुन पुनर्दर्शनेन
१६४ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
यो भावस्तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ ४७८ ॥ दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम् । कैरजीर्णभयाद्भ्रातर्भोजनं परिहीयते ॥ ४७९ ॥ स्थान एव नियोज्यन्ते भृत्याश्चाभरणानि च । नहि चूडामणिः पादे नूपुरं मूर्ध्नि धार्यते ॥ ४८० ॥ मुकुटे रोपितः काचश्चरणामरणे मणिः । नहि दोषो मणेरस्ति किंतु साधोरविज्ञता ॥ ४८१ ॥ बालादपि ग्रहीतव्यं युक्तमुक्तं मनीषिभिः । रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥ ४८२ ॥ बन्धुस्त्रीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः । आपन्निकषपाषाणे नगे जानाति सारताम् ॥ ४८३ ॥ अप्युन्मार्गगमने कार्यकार्यात्ययेषु च । कल्याणवचनं ब्रूयादपृष्टोऽपि हितो नरः ॥ ४८४ ॥ कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः । अनेकदोषदुष्टोऽपि कायः कस्य न वल्लभः ॥ ४८५ ॥ अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव स । दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः ॥ ४८६ ॥ अप्रियस्यापि पथ्यस्य परिणामः सुखावहः । वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः ॥ ४८७ ॥ न परस्यापराधेन परेषां दण्डमाचरेत् । आत्मनावगतं कृत्वा बध्नीयात्पूजयेच्च वा ॥ ४८८ ॥ गुणदोषान्निश्चित्य विधिर्न ग्रहनिग्रहे । स्वनाशाय यथा न्यस्तो दर्पात्सर्पमुखे करः ॥ ४८९ ॥ पराभवं परिच्छेत्तुं योग्यायोग्यं न वेत्ति यः । अस्तीह यस्य विज्ञानं स कृच्छ्रेऽपि न सीदति ॥ ४९० ॥ ययोरेव समं वित्तं ययोरेव समं बलम् । तयोर्विवादो मैत्री वा नोत्तमाधमयोः क्वचित् ॥ ४९१ ॥ बलवानपि निस्तेजाः कस्य नाभिभवास्पदम् । निःशङ्कं दीयते लोकैः पश्य भस्मचये पदम् ॥ ४९२ ॥ बन्धुः को नाम दुष्टानां कुप्येत्को नातियाचितः । को न तृप्यति वित्तेन कुकृत्ये को न पण्डितः ॥ ४९३ ॥ धर्मार्थकामतत्त्वज्ञो नैकान्तकरुणो भवेत् । नहि हस्तस्थमप्यन्नं क्षमावान्भक्षितुं क्षमः ॥ ४९४ ॥ क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् । अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ ४९५ ॥ सेवितव्यो महावृक्षः फलच्छायासमन्वितः । यदि दैवात्फलं नास्ति छाया केन निवार्यते ॥ ४९६ ॥ हीनसेवा न कर्तव्या कर्तव्यो महदाश्रयः । पयोऽपि शौण्डिकीहस्ते वारुणीत्यभिधीयते ॥ ४९७ ॥ महानप्यल्पतां याति निर्गुणे गुणविस्तरः । आधाराधेयभावेन गजेन्द्र इव दर्पणे ॥ ४९८ ॥ वैद्यानामातुरः श्रेयान्यसनी मौनियोगिनाम् । विदुषां जीवनं मूर्खः सद्धर्णी जीवनं सताम् ॥ ४९९ ॥ तावद्भयाद्धि भेतव्यं यावद्भयमनागतम् । आगतं तु भयं वीक्ष्य प्रहर्तव्यमभीतवत् ॥ ५०० ॥ सुपूरा स्यात्कुनदिका सुपूरो मूषकाञ्जलिः । सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ ५०१ ॥ अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः । पैशुन्याद्भिद्यते स्नेहो वाचा भिद्येत कातरः ॥ ५०२ ॥ अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति । जातुषाभरणस्येव रूपेणापि हि तस्य किम् ॥ ५०३ ॥ भये वा यदि वा हर्षे संप्राप्ते यो विमर्शेयेत् । कृत्यं न कुरुते वेगात्त्स संतापमाप्नुयात् ॥ ५०४ ॥ न वध्यन्ते ह्यविश्वास्ता बलिभिर्दुर्बला अपि । विश्वस्तास्त्वेव वध्यन्ते बलिनो दुर्बलैरपि ॥ ५०५ ॥ महामतिरपि प्राज्ञो न विश्वासं व्रजेद्द्रिगौ । विश्वासात्रिदशेन्द्रेण दितेर्गर्भो विदारितः ॥ ५०६ ॥ मन्त्रिणा भिन्नसंधाने भिषजा सान्निपातिके । कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥ ५०७ ॥ अमृतं शिशिरे वह्निरमृतं प्रियदर्शनम् । अमृतं राजसन्मानममृतं क्षीरभोजनम् ॥ ५०८ ॥ सर्पाणां च खलानां च परद्रव्यापहारिणाम् । अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥ ५०९ ॥ नाविदग्धः प्रियं ब्रूयात्स्फुटवक्ता न वञ्चकः । निःस्पृहो नाधिकारी स्यान्नाकामी मण्डनप्रियः ॥ ५१० ॥ औषधार्थसुमन्त्राणां बुद्धेश्चैव महात्मनाम् । असाध्यं नास्ति लोकेऽस्मिन् यद्ब्रह्माण्डस्य मध्यगम् ॥ ५११ ॥ न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् । न तस्य विश्वसेत्प्राज्ञो यदीच्छेच्छ्रेय आत्मनः ॥ ५१२ ॥ नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः । पण्डितानां च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥ ५१३ ॥ अशोच्यानीह भूतानि यो मूढस्तानि शोचति । स दुःखै लभते दुःखं द्वावनर्थौ निषेवते ॥ ५१४ ॥ म सुहृद्व्यसने यः स्यात्स पुत्रो यस्तु भक्तिमान् । म भृत्यो यो विधेयज्ञः सा भार्या यत्र निर्वृतिः ॥ ५१५ ॥ यत्र देशेऽथवा स्थाने भोगान भुक्त्वा खवीर्यतः । तस्मिन्विभवहीनो यो वसेत्स पुरुषाधमः ॥ ५१६ ॥ येनाहंकारयुक्तेन चिरं विलसितं पुरा । दीन वदति तत्रैव यः परेष स निन्दितः ॥ ५१७ ॥ मूर्खाणां पण्डिता द्वेष्या निर्धनानां महाधनाः । व्रतिनः पापशीलानामसतीना कुलस्त्रियः ॥ ५१८ ॥ मित्रद्रोही कृतघ्नश्च तथा विश्वासघातकः । ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ ॥ ५१९ ॥ जिह्वालौल्यप्रसक्तानां जलमध्यनिवासिनाम् । अचिन्तितो वधोऽज्ञानां मीनानामिव जायते ॥ ५२० ॥ व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते । स तेषां पारमभ्येति तत्प्रभावादसंशयम् ॥ ५२१ ॥ मित्रवान्साधयत्यर्थान्दुःसाध्यानपि वै यतः । तस्मा-
१ अप्रियाणि २ सुराविक्रयं कुर्वत्या हस्ते
१ लक्षानिमित्तस्य २ कर्तव्यकर्तव्यज्ञानवान् ३ व्यभिचारिणीनाम् ४ भक्षणलोलुपानाम्
सामान्यनीतिः १६५
[स्तम्भ १]
निमन्त्राणि कुर्वीत समानान्येव चात्मनः ॥ ५२२ ॥ अपि
सम्पूर्णतायुक्तैः कर्तव्या सुहृदो बुधैः । नदीश परिपूर्णो-
ऽपि चन्द्रोदयमपेक्षते ॥ ५२३ ॥ यो मित्रं कुरुते मूढ
आत्मनोऽसदृशं कुधी । हीन वाऽप्यधिकं वापि हास्यता
यात्यसौ जनः ॥ ५२४ ॥ कारणान्मित्रता याति कारणा-
द्याति शत्रुताम् । तस्मान्मित्रत्वमेवात्र योज्यं वैर न
धीमता ॥ ५२५ ॥ उपकाराच्च लोकाना निमित्तान्मृग-
पक्षिणाम् । भयाल्लोभाच्च मूर्खाणा मैत्री स्याद्दर्शनात्सताम्
॥ ५२६ ॥ यस्य न ज्ञायते वीर्य न कुल न विचेष्टितम् ।
न तेन सगतिं कुर्यादित्युवाच बृहस्पतिः ॥ ५२७ ॥ शनैः-
शनैश्च भोक्तव्यं स्वय वित्तमुपार्जितम् । रसायनमिव
प्राज्ञैर्हेलया न कदाचन ॥ ५२८ ॥ मृतो दरिद्रः पुरुषो
मृतं मैथुनमप्रजम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वद-
क्षिणः ॥ ५२९ ॥ गुरोः सुता मित्रभार्या स्वामिसेवकगे-
हिनीम् । यो गच्छति पुमाँल्लोके तमाहुर्ब्रह्मघातिनम्
॥ ५३० ॥ अयशः प्राप्यते येन येन चापगतिर्भवेत् ।
स्वर्गाच्च भ्रश्यते येन तत्कर्म न समाचरेत् ॥ ५३१ ॥ यः
स्तोकेनापि सन्तोषं कुरुते मन्दधीर्जनः । तस्य भाग्यविहीनस्य
दत्ता श्रीरपि मार्ज्यते ॥ ५३२ ॥ कृतनिश्चयिनो वन्ध्यास्तु-
ङ्गिमा नोपभुज्यते । चातक को वराकोऽयं यस्येन्द्रो
वारिवाहकः ॥ ५३३ ॥ तावत्स्यात्सर्वकृत्येषु पुरुषोऽत्र स्वय
प्रभुः । स्त्रीवाक्याङ्कुशविक्षुण्णो यावन्नो ध्रियते बलात्
॥ ५३४ ॥ अकृत्य मन्यते कृत्यमगम्यं मन्यते सुगम् ।
अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः ॥ ५३५ ॥
अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् । रतिपुत्रफला
दारा दत्तमभुक्तफल धनम् ॥ ५३६ ॥ आपन्नाशाय
विबुधैः कर्तव्याः सुहृदोऽमलाः । न तरत्यापदं कश्चिद्योऽत्र
मित्रविवर्जितः ॥ ५३७ ॥ व्यसनं प्राप्य यो मोहात्केवलं
परिदेवयेत् । क्रन्दनं वर्धयत्येव तस्यान्त नाधिगच्छति
॥ ५३८ ॥ केवलं व्यसनस्योक्तं भेषज नयपण्डितैः ।
तस्योच्छेदसमारम्भो विषादपरिवर्जनम् ॥ ५३९ ॥ नदीना
च कुलाना च मुनीना च महात्मनाम् । परीक्षा न प्रक-
र्तव्या स्त्रीणा दुश्चरितस्य च ॥ ५४० ॥ सद्भिः संबोध्य-
मानोऽपि दुरात्मा पापपूरुषः । घृष्यमाण इवाङ्गारो निर्म-
लत्वं न गच्छति ॥ ५४१ ॥ १जनिता २चोपनेता च यश्च
विद्या प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः
स्मृताः ॥ ५४२ ॥ कन्या वरयते रूपं माता वित्तं पिता
श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥५४३॥
१ उत्पादकः २ उपनयनकर्ता
[स्तम्भ २]
यः पृष्ट्वा कुरुते कार्य प्रष्टव्यानस्वान्हितान्गुरून् । न तस्य
जायते विघ्नः कश्चिच्चिदपि कर्मणि ॥ ५४४ ॥ कलहा-
न्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् । कुराजान्तानि
राष्ट्राणि कुकर्मान्त यशो नृणाम् ॥ ५४५ ॥ कृते प्रति-
कृति कुर्याद्धिंसिते प्रतिहिंसितम् । न तत्र दोषं पश्यामि
दुष्टे दुष्ट समाचरेत् ॥ ५४६ ॥ सर्वहिंसानिवृत्ता ये नरा
सर्वसहाश्च ये । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिन
॥ ५४७ ॥ योज्ति यस्य यदा मासमुभयोः पश्यतान्त-
रम् । एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥ ५४८ ॥
मर्तव्यमिति यद्यु ख पुरुषस्योपजायते । शक्यते नानुमानेन
परेण निवारयितुम् ॥ ५४९ ॥ स्वच्छन्दवनजातेन शाके-
नापि प्रपूर्यते । अस्य दग्धोदरस्यार्थे कः कुर्यात्पातकं
महत् ॥ ५५० ॥ विद्यया विनयावाप्तिः सा चेदविनयावहा ।
कि कुर्मः कं प्रति ब्रूमो १गरदाया स्वमातरि ॥ ५५१ ॥ वेधा
द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च । तासु तेष्वप्यनासक्तः
साक्षाद्दे२र्गो नराकृति ॥ ५५२ ॥ द्विः शर नाभिसन्धत्ते द्विः
स्थापयति नाश्रितान् । द्विददाति न चार्थिभ्यो रामो द्वर्नाभि-
भाषते ॥ ५५३ ॥ सुनेरपि वनस्थस्य स्वानि कर्माणि
कुर्वतः । तत्रापि समवन्त्येते मित्रोदासीनशत्रवः ॥ ५५४ ॥
पञ्चैतानि विलिख्यन्ते गर्भस्थस्यैव देहिनः । आयुः कर्म च
विद्या च वित्तं निधनमेव च ॥ ५५५ ॥ नास्ति सत्यं
द्यूतकारे न शौचं वृषलीपत्तौ । मद्यपे सौहृदं नास्ति
धूर्तेषु त्रितय न हि ॥ ५५६ ॥ सर्वसहा ये ऋजवः प्रतिज्ञा-
तार्यपालकाः । परोपकारिण सेव्या निर्धना अपि ते
जनाः ॥ ५५७ ॥ शरणागतरक्षार्थं स्त्रीगोद्विजहिताय च ।
स्वाम्यर्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः ॥ ५५८ ॥
कृतघ्नस्य शिशुघ्नस्य स्त्रीघ्नस्य पिशुनस्य च । चतुर्णामपि
चैतेषा निष्कृति३र्नैव शुश्रुमः ॥ ५५९ ॥ पर पलितकायेन
कर्तव्यः श्रुतसग्रहं । न तत्र धनिनो यान्ति यत्र यान्ति
बहुश्रुताः ॥ ५६० ॥ विश्वासप्रतिपन्नाना वञ्चने का
विदग्धता । अङ्कमारुह्य सुप्तानां हन्तुः किं नाम पौरुषम्
॥ ५६१ ॥ नाजारज. पितृद्वेषी नाजरा भर्तृवैरिणी ।
नालम्पटोऽधिकारी स्यान्नाकामी मण्डनप्रियः ॥ ५६२ ॥
अचला कमला कस्य कस्य मित्रं महीपतिः । शरीरं च
स्थिरं कस्य कस्य वश्या वराङ्गना ॥ ५६३ ॥ गर्दभः
४पैटहो दासी ग्रामण्य. पशवः स्त्रियः । दण्डेनाक्रम्य भुञ्जी-
यान्न ते समानभाजनम् ॥ ५६४ ॥ बहुभिर्न विरोद्धव्यं
दुर्जनैः स्वजनैरपि । स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपी-
१ विषदायिन्याम् २ शंकरः ३ प्रायश्चित्तम् ४ वाद्यविशेषः.
| १६६ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
लिकाः ॥ ५६५ ॥ क्षन्तव्यो मन्दबुद्धीनामपराधो मनीषिणा । नहि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित् ॥ ५६६ ॥ राजा पश्यति कर्णाभ्यां युक्त्या पश्यन्ति पण्डिताः । पशुः पश्यति गन्धेन भूतैः पश्यन्ति बर्बराः ॥ ५६७ ॥ प्रत्यूहः सर्वसिद्धीनामुत्तापः प्रथमः किल । अतिशीतलमप्यग्निः किं भिनत्ति न भूभृतः ॥ ५६८ ॥ अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति । स तत्र निधनं याति कीलोत्पाटीव वानरः ॥ ५६९ ॥ हतं ज्ञानं क्रियाहीनं हताश्चाज्ञानिनो नराः । हतं चानायकं सैन्यमभर्तारो हताः स्त्रियः ॥ ५७० ॥ कन्या निष्कासिता श्रेष्ठा वधूः श्रेष्ठा प्रवेशिता । अन्नं संकलितं श्रेष्ठं धर्मः श्रेष्ठो दिने दिने ॥ ५७१ ॥ सत्यं सत्यं सुनेर्वाक्यं नादत्तमुपतिष्ठते । अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली ॥ ५७२ ॥ न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् । नेन्धनेन जयेद्वह्निं न पानेन सुरां जयेत् ॥ ५७३ ॥ तद्गृहं यत्र वसतिस्तद्भोग्यं येन जीवति । तन्मुक्तये यदेवोक्तं ज्ञानमज्ञानमन्यथा ॥ ५७४ ॥ पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ ५७५ ॥ पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् । स्वमन्यगृहे वासो नारीणां दूषणानि षट् ॥ ५७६ ॥ हन्तुं मेषोऽपसरति मृगेन्द्रः सकुचत्यपि । बुद्धिमन्त सहन्ते च निधाय हृदि किंचन ॥ ५७७ ॥ यदपथ्यमतामायुर्यदनीतिमती श्रियः । तदेतत्काकतालीयं तदेतच्च घुणाक्षरम् ॥ ५७८ ॥ वस्त्रं गां च बहुक्षीरां जलपात्रमुपानहौ । औषधं बीजमाहारं संक्रीणीत यथामुयात् ॥ ५७९ ॥ रागे द्वेषे च माने च द्रोहे पापे च कर्मणि । अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते ॥ ५८० ॥ बन्धूना सुहृदां चैव भृत्यानां स्त्रीजनस्य च । अव्यक्तेष्वपराधेष् चिरकारी प्रशस्यते ॥ ५८१ ॥ चिरेण मित्रं सधीयाच्चिरेण न कृतं त्यजेत् । चिरेण विहितं मित्र ञ्चिर वारणमर्हति ॥ ५८२ ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषां हृदिस्थो भगवान्मङ्गलायतनो हरिः ॥ ५८३ ॥ धनाशा जीविताशा च गुर्वी प्राणभृतां सदा । वृद्धस्य तरुणी भार्या प्राणेभ्योऽपि गरीयसी ॥ ५८४ ॥ चित्रास्वाती गतावर्षी प्रसूता गतयौवना । प्रवासी गतसौख्यश्च याचना गतगौरवा ॥ ५८५ ॥ शाखामृगस्य शाखायाः शाखा गन्तुं पराक्रमः । उल्लङ्घितो यदम्भोधिः प्रभावः प्रभवो हि सः ॥ ५८६ ॥ राः पुण्यं च कलत्राणि पुत्रोत्पत्तिर्निधिस्तथा । सुकृतादेव लभ्यन्ते नैव पार्थ पराक्रमात् ॥ ५८७ ॥ धर्महान्यार्जिते वित्तेऽनुभवन्ति सुखं परे । स्वयं पादस्य पात्रं स्यात्सिंहो गजवधादिव ॥ ५८८ ॥ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । तथा वेदं विना विप्रस्त्रयस्ते नामधारकाः ॥ ५८९ ॥ वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान् । प्रकृत्या ह्यगुणः श्रेयानलंकारश्च्युतोपलः ॥ ५९० ॥ दूरस्थोऽपि समीपस्थो यो यस्य हृदि वर्तते । यो यस्य हृदये नास्ति समीपस्थोऽपि दूरगः ॥ ५९१ ॥ मद्यपाः किं न जल्पन्ति किं न भक्षन्ति वायसाः । कवयः किं न पश्यन्ति किं न कुर्वन्ति योषितः ॥ ५९२ ॥ अशक्तः सततं साधुः कुरूपा च पतिव्रता । व्याधितो देवभक्तश्च निर्धना ब्रह्मचारिणः ॥ ५९३ ॥ तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता । यावज्ज्वलति नाङ्गेषु स्वतः पञ्चेषुपावकः ॥ ५९४ ॥ वाहितं चाश्ववाणिज्यं राजसेवा तपोवनम् । धीराश्चत्वारि कुर्वन्ति कृषिं कुर्वन्ति कातराः ॥ ५९५ ॥ न देवो विद्यते काष्ठे न पाषाणे न मृन्मये । भावेषु विद्यते देवस्तस्माद्भावो हि कारणम् ॥ ५९६ ॥ अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति । प्राप्ते चैकादशे वर्षे समूलं च विनश्यति ॥ ५९७ ॥ तृप्त्यर्थं भोजनं येषां संतानार्थं च मैथुनम् । वाक्सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते ॥ ५९८ ॥ नित्यं क्रोधाच्छ्रुतं रक्षेत्तपो रक्षेच्च मत्सरात् । विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥ ५९९ ॥ क्षमातुल्यं तपो नास्ति न संतोषात्परं सुखम् । न तृष्णाया परो व्याधिर्न च धर्मो दयापरः ॥ ६०० ॥ दानेन भोगी भवति मेधावी वृद्धसेवया । अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ॥ ६०१ ॥ यच्छक्यं ग्रसितुं ग्रासं ग्रस्तं परिणमेच्च यत् । हितं च परिणामे स्यात्तत्कार्यं भूतिमिच्छता ॥ ६०२ ॥ बुद्धौ कलुषितायां च विकारे प्रत्युपस्थिते । अनयो नयसकाशो हृदयान्नापसर्पति ॥ ६०३ ॥ यदैव भर्ता जानीयान्मन्त्रमूलपरा स्त्रियम् । उद्विजेत तदैवास्याः सर्पाद्गेहमगतादिव ॥ ६०४ ॥ न क्रोधयातुधानस्य वीमानाञ्छेद्धियेतशम् । निपीडतभ्रातृरुधिरः प्राप निन्दां वृकोदरः ॥ ६०५ ॥ न लोकायतवादेन नास्तिकः स्याद्दैवतः । हरिर्हिरण्यकशिपुं जघान स्तम्भनिर्गतः ॥ ६०६ ॥ संदेहो वैष्णवे मार्गे न कार्योऽन्यै- कुदर्शनैः । रामप्रभावमद्यापि पयोधौ पश्य सेतुना ॥ ६०७ ॥ गौर्गौः कामदुघा सम्यक्प्रयुक्ता स्मर्यते बुधैः । दुःप्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति ॥ ६०८ ॥ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मव भूय एवाभिवर्धते ॥ ६०९ ॥ नापृष्टः कस्यचिद्ब्रू-
१ एते घृणोत्पादका
१ वाणी २ पशुत्वम्.
सामान्यनीतिः १६७
| याञ्च चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोक<br>आचरेत् ॥ ६१० ॥ धर्मार्थौ यत्र न स्याता शुश्रूषा वापि<br>तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे<br>॥ ६११ ॥ विद्ययैव समं काम मर्तव्यं ब्रह्मवादिना । आप-<br>द्यपि हि घोराया न त्वेनामिरिणे वपेत् ॥ ६१२ ॥ सावित्री-<br>मात्रसारोऽपि वर विप्र सुयंत्रित । नायन्त्रितश्चतुर्वेदी<br>सर्वाशी सर्वविक्रयी ॥ ६१३ ॥ न हायनैर्न पलितैर्न<br>वित्तेन न बन्धुभि । ऋषयश्चक्रिरे धर्मं योऽनूचान. स नो<br>महान् ॥ ६१४ ॥ नारुतुद. स्यादात्तोऽपि न परद्रोहकर्मभि. ।<br>ययाऽस्योद्विजते वाचा नालोक्या तामूदीरयेत् ॥ ६१५ ॥<br>यथा खनन्खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगता<br>विद्या शुश्रूषुरधिगच्छति ॥ ६१६ ॥ य मातापितरौ क्लेशं<br>सहेते संभवे नृणाम् । न तस्य निष्कृति. शक्या कर्तुं वर्ष-<br>शतैरपि ॥ ६१७ ॥ पित्रोर्नित्यं प्रिय कुर्यादाचार्यस्य च<br>सर्वदा । तेषु हि त्रिषु तुष्टेषु तपः सर्व समाप्यते ॥ ६१८ ॥<br>श्रद्दधान शुभा विद्यामाददीतावरादपि । अन्त्यादपि परं धर्म<br>स्त्रीरत्नं दुष्कुलादपि ॥ ६१९ ॥ यद्यत्परवशं कर्म तत्सद्य-<br>त्नेन वर्जयेत् । यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः<br>॥ ६२० ॥ यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मन ।<br>तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ ६२१ ॥ न<br>द्रव्याणामविज्ञाय विधि धर्म्य प्रतिग्रहेत् । प्रात प्रतिग्रह<br>कुर्यादवसीदन्नपि क्षुधा ॥ ६२२ ॥ सर्वेषामेव शौचाना-<br>मर्थशौचं पर स्मृतम् । योऽर्थे शुचि स हि शुचिर्न मृद्वा-<br>रिशुचि शुचि ॥ ६२३ ॥ नास्ति विद्यासमं चक्षुर्नास्ति<br>सत्यसम तप । नास्ति रागसम दु.खं नास्ति त्यागसमं<br>सुखम् ॥ ६२४ ॥ नात्यर्थमर्थार्थितया लुब्धमुद्वेजयेज्जनम् ।<br>अब्धिर्दत्त्वाऽक्षरत्नं श्रीमथ्यमानोऽसृजद्विषम् ॥ ६२५ ॥<br>न स्थातव्यं न गन्तव्यं क्षणमप्यधमै सह । पयोऽपि<br>शौण्डिकीहस्ते मदिरा मन्यते जन. ॥ ६२६ ॥ अकिंचि-<br>दपि कुर्वाणः सौख्यैर्दुःखान्यपोहति । तत्तस्य किमपि द्रव्यं<br>यो हि यस्य प्रियो जन ॥ ६२७ ॥ अत्युष्णात्सघृताद-<br>न्नादच्छिद्राच्चैव वाससः । अपरप्रेष्यभावाच्च भूय इच्छन्पत-<br>त्यधः ॥ ६२८ ॥ आपदामापतन्तीना हितोऽप्यायाति<br>हेतुताम् । मातृजङ्घैव वत्सस्य स्तम्भो भवति बन्धने<br>॥ ६२९ ॥ भवत्येकस्थले जन्म गन्धस्तेषा पृथक्पृथक् ।<br>उत्पलस्य मृणालस्य मत्स्यस्य कुमुदस्य च ॥ ६३० ॥<br>तत्र मित्र न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋणदाता<br>च वैद्यश्च श्रोत्रियः सजला नदी ॥ ६३१ ॥ सच्छिद्रनिकटे | वासो न कर्तव्य कदाचन । घटी पिबति पानीयं ताड्यते<br>झल्लरी यथा ॥ ६३२ ॥ तृणं ब्रह्मविद स्वर्गस्तृण शूरस्य<br>जीवितम् । जिताक्षस्य तृण नारी निःस्पृहस्य तृणं जगत्<br>॥ ६३३ ॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्प-<br>थप्रतिपन्नस्य न्याय्यं भवति शासनम् ॥ ६३४ ॥ मनसैव<br>कृत पापं न शरीरकृतं कृतम् । येनैवालिङ्गिता कान्ता तेनै-<br>वालिङ्गिता सुता ॥ ६३५ ॥ भिन्ने चित्ते कुतः प्रीति<br>स्याद्वा प्रीति कुत सुखम् । त्वं च स्मरसि तं पुत्रं पुच्छ-<br>च्छेद स्मराम्यहम् ॥ ६३६ ॥ मक्षिका व्रणमिच्छन्ति धन-<br>मिच्छन्ति पार्थिवा । नीचा कलहमिच्छन्ति शान्ति-<br>मिच्छन्ति साधव. ॥ ६३७ ॥ हस्ती चाङ्कुशहस्तेन कशा-<br>हस्तेन वाजिन । शृङ्गी लगुडहस्तेन खङ्गहस्तेन दुर्जन<br>॥ ६३८ ॥ देशानुत्सृज्य गच्छन्ति सिंहा. सत्पुरुषा गजाः ।<br>तत्रैव निधनं यान्ति काका कापुरुषा मृगा. ॥ ६३९ ॥<br>वाग्वादमर्थसंबन्ध परोक्षे दारदर्शनम् । यदीच्छेद्विपुला<br>प्रीति त्रीणि तत्र न कारयेत् ॥ ६४० ॥ अर्थानामर्जन<br>कार्य वर्धनं रक्षण तथा । भक्ष्यमाणो निरादाय सुमेरुरपि<br>हीयते ॥ ६४१ ॥ आपदर्थे धनं रक्षेन्महता कुत आपदः ।<br>कदाचित्कुपितो देव सचितं चापि नश्यति ॥ ६४२ ॥<br>युध्यन्ति पशव. सर्वे पठन्ति शुकसारिका. । दातुं जानाति<br>यो वित्त स शूर. स च पण्डित. ॥ ६४३ ॥ नदीतीरेषु<br>ये वृक्षा यस्य नारी निरङ्कुशा । मत्रिहीनो भवेद्राजा तस्य<br>राज्यं विनश्यति ॥ ६४४ ॥ गुणं पृच्छस्व मा रूप शीलं<br>पृच्छस्व मा कुलम् । सिद्धि पृच्छस्व मा विद्या भोगं<br>पृच्छस्व मा धनम् ॥ ६४५ ॥ गुणो भूषयते रूपं शीलं<br>भूषयते कुलम् । सिद्धिर्भूषयते विद्या भोगो भूषयते धनम्<br>॥ ६४६ ॥ यस्य न ज्ञायते शीलं कुलं विद्या नरस्य च । कस्वेन<br>सह विश्वास पुमान्कुर्याद्विचक्षण ॥ ६४७ ॥ का प्रीति. सह<br>मार्जारैः का प्रीतिरवनिपति । गणिकामिश्च • का प्रीति. का<br>प्रीतिर्भिक्षुकै. सह ॥ ६४८ ॥ धीराणा भूषणं विद्या मत्रिणा<br>भूषण नृप । भूषर्ण च पतिः स्त्रीणा शील सर्वस्य भूषणम्<br>॥ ६४९ ॥ महानदीप्रतरणं महापुरुषविग्रहम् । महाजन-<br>विरोधे च दूरत. परिवर्जयेत् ॥ ६५० ॥ नारूहेद्विषमं वृक्ष<br>जीर्णा नावं न चारुहेत् । कूपे नालोकयेत्तोयं न चात्मानं<br>विनाशयेत् ॥ ६५१ ॥ संकटे न च गन्तव्यं विषमे न<br>कदाचन । महापथे न गन्तव्यं गन्तव्यं चात्मन. पथम्<br>॥ ६५२ ॥ अनादायी व्ययं कुर्यादसहायी रणप्रियः ।<br>आतुर. सर्वभक्षी च नरः शीघ्रं विनश्यति ॥ ६५३ ॥ |
पादटिप्पण्यः (Footnotes):
वामभागः (Left Column): १ मरुभूमौ • २ अपात्रे ३ मद्यविक्रयकर्त्रा ४ मद्यम्
दक्षिणभागः (Right Column): १ स्वर्गवत्स्य. २ उन्मार्गवर्तिन ३ 'परस्त्री संकटं प्रोक्तं रण्टा च विषम पथम् । वेश्या महापंथ प्रोक्तं स्वपर्याय पिता श्रुत ॥'
| १६८ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
सुसंदिग्धस्य भक्तस्य दन्तस्य चालितस्य च । अमात्यस्य च दुष्टस्य मूलादुद्धरणं वरम् ॥ ६५४ ॥
दीर्घशृङ्गमनड्वाहं चण्डां च बहुभाषिणीम् । शूद्रमक्षरसंयुक्तं दूरत परिवर्जयेत् ॥ ६५५ ॥
सिद्ध मन्त्रौषधं धर्म गृहच्छिद्रं च मैथुनम् । कुभुक्तिं कुश्रुतं चैव वचनं न प्रकाशयेत् ॥ ६५६ ॥
धनेषु जीवितव्येषु स्त्रीषु भोजनवृत्तिषु । अतृप्ता मानवा सर्वे याता यास्यन्ति यान्ति च ॥ ६५७ ॥
सौहार्दस्वर्णरेषाणामुच्चावचभिदाजुषाम् । परोक्षेमिति कोऽप्यास्ति परीक्षानिकषोपल ॥ ६५८ ॥
परापकारनिरतैर्दुर्जनैः सह संगति । वदामि भवतस्तत्त्वं न विधेया कदाचन ॥ ६५९ ॥
नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा । कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा ॥ ६६० ॥
वारिजेनेव सरसी शशिनेव निशीथिनी । यौवनेनेव वनिता नयेन श्रीर्मनोहरा ॥ ६६१ ॥
दान वित्ताद्दतं वाच कीर्तिर्धर्मो तथायुष । परोपकरण कायादसारात्सारमाहरेत् ॥ ६६२ ॥
श्रुत कृतधिया सङ्गाज्जायते विनय श्रुतात् । लोकानुरागो विनयान्न कि लोकानुगगत ॥ ६६३ ॥
किमाराध्यं सदा पुण्यं कश्च सेव्य सदागम । को ध्येयो भगवान्विष्णु कि काम्यं परम पदम् ॥ ६६४ ॥
एकामिषाभिलाषो हि बीजं वैरमहातरो । तिलोत्तमाभिलाषो हि यथा सुन्दोपसुन्दयो ॥ ६६५ ॥
आचान्तकान्तिरुन्निद्रैर्मयूरैर्बहिरुन्मिषः । धूसरापि कला चान्द्री कि न बध्नाति लोचनम् ॥ ६६६ ॥
हेतुर्नैसर्गिककोऽपि प्रीतेर्यद्वि न वर्तते । मालती मधुराऽस्तीति मधुप केन शिक्ष्यते ॥ ६६७ ॥
देवे तीर्थे द्विजे मन्त्रे दैवज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥ ६६८ ॥
न माता शपते पुत्र न दोष लभते मही । न हिंसा कुरुते साधुर्न देव सृष्टिनारकः ॥ ६६९ ॥
प्रायः सन्त्युपदेशार्हा धीमन्तो न जडाशयाः । तिलाः कुसुम सौगन्ध्यवाहिनो न यवा क्वचित् ॥ ६७० ॥
सञ्चितस्य गुणोत्कर्षः प्रायः प्रस्फुरति स्फुटम् । दग्धस्यागुरुखण्डस्य स्फारीभवति सौरभम् ॥ ६७१ ॥
$^१$उपकर्तु यथा स्वल्पसमर्थो न तथा महान् । प्राय कूपस्तृषा हन्ति सतत न तु वारिधिः ॥ ६७२ ॥
जडे प्रभवति प्रायो दुःख बिभ्रति साधव । शीतांशावुदिते पद्माः सकोच यान्ति वारिणि ॥ ६७३ ॥
कश्चित्कस्यचिदेव स्यात्सुहृद्विश्रम्भभाजनम् । पद्मं विकासयत्यर्कः सकोचयति कैरवम् ॥ ६७४ ॥
ईश्वराः पिशुनान्शश्वद्विभ्रतीति किमद्भुतम् । प्रायो निघाय एवाहीन्द्विजिव्हान्दधतेतराम् ॥ ६७५ ॥
सपद्यास्ते परै साक विपदि स्वजनैर्जड । जृम्भत्यम्भोरुहे भृङ्ग शुष्यत्युदकशैवलैः ॥ ६७६ ॥
नीचावमानमलिना यो मुद्धे सपद् पुमान् । लशुनाक्ता स कर्पूरचर्चा वितनुते तनौ ॥ ६७७ ॥
व्यसनानन्तर सौख्य स्वल्पमप्यधिक भवेत् । काषायरसमास्वाद्य स्वादूनीवाम्बु विन्दते ॥ ६७८ ॥
गुणानामन्तर प्रायस्सज्ज्ञो जानाति नेतर । मालतीमल्लिकामोद घ्राणं वेत्ति न लोचनम् ॥ ६७९ ॥
प्रभूतवयस पुसो धियः पाकः प्रवर्तते । जीर्णस्य चन्दनतरोरामोद उपजायते ॥ ६८० ॥
धनागमेऽधिक पुंसा लोभमभ्येति मानसम् । निदाघकाले प्रालेय प्राय शैल्य वहत्यलम् ॥ ६८१ ॥
सहजोऽपि गुण पुसा साधुवादेन वर्धते । कामं सुरसलेपेन कान्ति वहति काञ्चनम् ॥ ६८२ ॥
निन्दा य कुरुते साधोस्तथा स्व दूषयत्यसौ । खे भूति यस्त्यजेदुच्चैर्मूर्ध्नि तस्यैव सा पतेत् ॥ ६८३ ॥
शुभ वाप्यशुभं कर्म फलकालमपेक्षते । शरद्येव फलत्याशु शालिनं सुरभौ क्वचित् ॥ ६८४ ॥
भोगेच्छा नोपभोगेन भोगिना जातु शाम्यति । लवणोनान्तरत्वेन तृष्णा प्रत्युत जायते ॥ ६८५ ॥
दुर्लभोऽप्युत्तम प्राय स्वजातीयेन लभ्यते । कर्णकोटरगं वह्नि वारिणैवावकॄष्यते ॥ ६८६ ॥
जन्तोर्निरुपभोगस्य दृश्यते भुवि रूक्षता । घाताशिनो द्विजिव्हत्व विहित पश्य वेधसा ॥ ६८७ ॥
आकारः कारणं जन्तोर्दौर्जन्यस्य न जायते । कालकूट सुधासिन्धो प्राणिना प्राणहारकः ॥ ६८८ ॥
न व्याशिरेषा गुणिनो गुणवाजायते ध्रुवम् । चन्दनोऽनलसन्दग्धो न भस्म सुरभि क्वचित् ॥ ६८९ ॥
कार्यापेक्षी जन प्रायः प्रीतिमाविष्करोत्यलम् । लोभार्थी $^१$शौण्डिकः शष्पैर्मेष पुष्णाति पेशलैः ॥ ६९० ॥
दुर्जनो जीयते युक्त्या विग्रहेण न धीमता । निपात्यते महावृक्षस्तत्समीपक्षतिक्षयात् ॥ ६९१ ॥
स्वभावसुन्दर वस्तु न सस्कारमपेक्षते । मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते ॥ ६९२ ॥
येनात्मा पण्यता नीतः स एवान्विष्यते जनैः । हस्ती हेमसहस्रेण क्रीयते न मृगाधिप । ॥ ६९३ ॥
विक्रीतं निजमात्मानं वस्त्रैः सस्कुरुते जडः । परेम्य स्वशरीरस्य के वा भूषा वितन्वते ॥ ६९४ ॥
असमवगुणस्तुत्या जायते स्वात्मनस्त्रपा । $^२$कर्णिकोर सुगन्धीति वदन्को नोपहास्यते ॥ ६९५ ॥
तटस्थैः ख्यापिताश्रेतो विशन्ति गुणिना गुणाः । उत्कोचिताना पद्माना गन्धो वायुभिराहृतः ॥ ६९६ ॥
पादटिप्पणी:
१ पराभिप्राय.
१ सुराविक्रयकर्ता. २ 'घागारा' इत्याख्यवृक्षविशेषस्य पुष्पम्