भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 166, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 166

राजनीतिः १५१


नाङ्कुरितं शौर्य जयाय न तु केवलम् । अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा मृतिः ॥ ३५९ ॥ मृदुभिर्बहुभिः शूर पुंभिरेको न बाध्यते । कपोतपोतकैरैकः श्येनो जातु न बाध्यते ॥ ३६० ॥ विपक्षमनिखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कता धूलिमुदकं नावतिष्ठते ॥ ३६१ ॥ म्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम् । पुरः क्लिश्नाति सोमं हि सैहिकेयोऽसुरद्रुहाम् ॥ ३६२ ॥ रिक्ताः कर्मणि पटवस्तृप्तास्त्वलसा भवन्ति भृत्या ये । तेषां जलौकसामिव पूर्णीनां रिक्तता कार्या ॥ ३६३ ॥ गन्तव्या राजसभा द्रष्टव्या राजपूजिता लोकाः । यद्यपि न भवन्त्यर्थास्तथाप्यनर्था विनश्यन्ति ॥ ३६४ ॥ अतितेजस्यपि राजा पानासक्तो न साधयत्यर्थान् । तृणमपि दग्धुमशक्तो वडवाग्निः सपिबत्यब्धिम् ॥ ३६५ ॥ अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् । नवसरोपणशिथिलस्तरुख सुखकरः समुद्धर्तुम् ॥ ३६६ ॥ सप्रतिबन्धं कार्यं प्रभुरधिगन्तुं सहायवानेव । दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥ ३६७ ॥ अभिमुखनिहतस्य सतस्तिष्ठतु तावज्जयोऽथवा स्वर्गः । उभयबलसाधुवादश्रवणसुखस्यैव नास्त्यन्तः ॥ ३६८ ॥ अविवेकमतिर्नृपतिर्मन्त्री गुणवत्सु वक्रितग्रीवः । यत्र खलाश्रय प्रबलास्तत्र कथं सज्जनावसरः ॥ ३६९ ॥ अतिगम्भीरे भूपे कूप इव जनस्य दुरवतारस्य । दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः ॥ ३७० ॥ १सद्वनम॑२सद॒नुशासनमाश्रितभरणं च राजचिह्नानि । अभिषेकः पटबन्धो बालव्यजनं व्रणस्यापि ॥ ३७१ ॥ यदि तव हृदयं विद्वन्सुनयं स्वमेऽपि मा स्म सेविष्ठाः । सचिवजितं षण्डजितं युवतिजितं चैव राजानम् ॥ ३७२ ॥ आश्रयितव्यो नरपतिरर्जयितव्यानि भूरि वित्तानि । आरब्धव्यं वितरणमानेतव्यं यशोऽपि दशदिग्भ्यः ॥ ३७३ ॥ असमैः समीहमानः समैश्च परिहीयमाणसत्कारः । धुरि यो न युज्यमानस्त्रिमिरर्थपतिं त्यजति भृत्यः ॥ ३७४ ॥ अनुयातानेकजनः परपुरुषैरुह्यतेऽस्य निजदेहः । अधिकारस्थः पुरुषः शव इव न शृणोति वीक्षते कुमतिः ॥ ३७५ ॥ स क्षत्रियस्त्राणसहः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः । वहन्दवीं यद्यफलेऽर्थजाते करोत्यसत्कारहतामिवोक्तिम् ॥ ३७६ ॥ क्षतात्किल त्रायत इत्युदग्रं क्षत्रस्य शब्दो भुवनेषु रूढः । राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥ ३७७ ॥ अत्युच्छ्रिते मन्त्रिणि पार्थिवे च ३विष्टभ्य पादावुपतिष्ठते श्रीः । सा स्त्रीस्वभावादसहा भरस्यतयोर्द्वयोरेकतरं जहाति ॥ ३७८ ॥ यः काकिनीमप्यपथप्रपन्नां समुद्धरेन्निष्कसहस्रतुल्याम् । कालेषु कोटिष्वपि मुक्तहस्तस्तं राजसिंहं न जहाति लक्ष्मीः ॥ ३७९ ॥ उपेक्षितः क्षीणबलोऽपि शत्रुः प्रमाददोषात्पुरुषैर्मदान्धैः । साध्योऽपि भूत्वा प्रथमं ततोऽसावसाध्यतां व्याधिरिव प्रयाति ॥ ३८० ॥ मित्राणि शत्रुत्वमिवानयन्ती मित्रत्वमप्यवशाच्च शत्रून् । नीतिर्नयत्यस्मृतपूर्ववृत्तं जन्मान्तरं जीवत एव पुंसः ॥ ३८१ ॥ सन्मन्त्रिणा वर्धयते नृपाणां लक्ष्मीमहीधर्मयशःसमूहम् । दुर्मन्त्रिणा नाशयते तथैव लक्ष्मीमहीधर्मयशःसमूहः ॥ ३८२ ॥ नियुक्तहस्तार्पितराज्यभारास्तिष्ठन्ति ये सौधविहारसाराः । बिडालवृन्दार्पितदुग्धपूराः स्वपन्ति ते मूढधियः क्षितीन्द्राः ॥ ३८३ ॥ सुहृदामुपकारकारणाद्विषतामप्यपकारकारणात् । नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥ ३८४ ॥ १विषमोऽपि २विगाह्यते नयैः ३कृततीर्थः पयसामिवाशयः । स तु तत्र ६विशेषदुर्लभः ५संदुपन्यसति ४कृत्यवर्त्म यैः ॥ ३८५ ॥ द्विषतामुदयः सुमेधसा गुरुर७त्यन्ततरः सुमर्षणः । न महानपि भूतिमिच्छता ८फलसंपत्प्रवणः परिक्ष्यः ॥ ३८६ ॥ अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः । क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥ ३८७ ॥ अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषताम् ९अनीहया । अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ॥ ३८८ ॥ क्षययुक्तमपि स्वभावजं दधतं १०धाम शिवं समृद्धये । प्रणयन्त्यनपायसुस्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ॥ ३८९ ॥ प्रभवः खलु ११कोश१२दण्डयोः १३कृतपञ्चाङ्गविनिर्णयो नयः । स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥ ३९० ॥ अभिमानवतो मनस्विनः प्रियसूक्तेः पदमारुरुक्षतः । विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ॥ ३९१ ॥ विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपैतमायतिः । नियता लघुता निरायतेरगरीयान् पदं नृपश्रियः ॥ ३९२ ॥ चञ्चलं वसु नितान्तमुन्नतां मेदिनीमपि हरन्त्यरातयः । भूधरस्थिरमुपे-

१ सतामवनं रक्षणम्
२ दुष्टशासनम्
३ अभ्युन्नते.
.१ दुर्बोधोऽपि; पक्षे,-दुःप्रवेशोऽपि.
२ विगृह्यते, पक्षे,-प्रविश्यते
३ कृताभ्यासथोपायः सन्; पक्षे,-कृतजलावतारः सन्
४ देशकालाद्यविरुद्धम्, यथार्थमित्यर्थः, पक्षे,-गर्तेग्राहपाषाणादिरहितम्
५ संधिविग्रहादिकार्यम्; पक्षे,-स्नानादिकम्.
६ यथा केचित्कृततीर्थे पयसि गम्भीरेऽपि प्रवेष्टारः सन्ति, तीर्थकरस्तु विरलः, तद्वन्नीतावपि निगूढमपि तत्त्वं सति वक्तारि बोद्धारः सन्ति, वक्ता तु न सुलभ इत्यर्थः.
७ अत्यन्तदुरन्तः क्षयोन्मुख इत्यर्थः
८ फलसिद्धयुन्मुखः.
९ अनुत्साहेन.
१० क्षात्रं तेजः; पक्षे,-प्रकाशम्
११ अर्थराशिः.
१२ तुरगसैन्यम्.
१३ 'सहायाः साधनोपाया विभागो देशकालयोः । विनिपातः प्रतीकारः सिद्धिः पञ्चाङ्ग इष्यते ॥' इति.