भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 209, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 209

१९४ सुभाषितरत्नभाण्डागारम् [ ४ प्रकरणम्


भ्रमन्त्यत्र प्रत्यक्षेऽपि क्रियापदे ॥ ११ ॥ नारसिंहा-
कृतिं वीक्ष्य वने मत्तमंतंगज. । अत्र क्रियापदं गुप्तं
यो जानाति स पण्डितः ॥ १२ ॥ सध्यावन्दनवेलाया
तडागान्ते द्विजोत्तमैः । अत्र क्रियापदं गुप्तं यो जानाति
स पण्डितः ॥ १३ ॥ पुस्कोकिलकुलैस्ते नितान्तमधुरारवैः ।
सहकारद्रुमा रम्या वसन्ते कामपि श्रियम् ॥ १४ ॥
बिम्बाकार सुधाधारं कान्तावदनपङ्कजम् । अत्र क्रियापदं
गुप्तं मर्यादा दशवार्षिकी ॥ १५ ॥ राघवस्य शरैर्घोरैर्घोर-
रावणमाहवे । अत्र क्रियापदं गुप्तं मर्यादा दशवार्षिकी
॥ १६ ॥ पामरागामिभूतस्य श्लेष्मव्याधिनिपीडित । यदि
ते जीवितसेच्छा तदा भोः शीतलं जलम् ॥ १७ ॥

कर्तृगुप्तम्

गौरी नखरसादृश्यक्रीडया शशिनं दधौ । इहैव गोप्यते
कर्ता वर्णेनापि न लभ्यते ॥ १८ ॥ अन्नवस्त्रसुवर्णानि
रत्नानि विविधानि च । ब्राह्मणेभ्यो नदीतीरे ददाति
व्रज सत्वरम् ॥ १९ ॥ राक्षसेभ्य सुता हत्वा जनकस्य
पुरीं ययौ । अत्र कर्तृपदं गुप्तं मर्यादा दशवार्षिकी ॥ २० ॥
श्यामौ तव स्तनावेतौ पिबन्ति सततं मुदा । अत्र
कर्तृपदं गुप्तं मर्यादा दशवार्षिकी ॥ २१ ॥ व्यत्यवासाः
पञ्चशिरा यरिर्वीनारिभूषणः । असिरोमा क्रियादुर्ध शङ्क-
लायनवीक्षणः ॥ २२ ॥ व्यामोहं तव भिन्दन्तु छिन्दन्तु
दुरितानि च । कर्तृगुप्तमिमं श्लोकं ये जानन्ति विचक्षणाः
॥ २३ ॥ न करोति नाम रोषं न वदति परुषं न हन्त्ययं
शत्रून् । रञ्जयति महीमखिलां तथापि धीरस्य वीरस्य
॥ २४ ॥ शरदिन्दुकुन्दधवल नगपतिनिलयं मनोहर
देवम् । यै. सुकृतं कृतमनिशं तेषामेव प्रसादयति ॥ २५ ॥


(११) 'प्रत्यक्षेपि' क्षिप्ता (१२) गज सिहस्याकृति वीक्ष्य 'नार' न जगाम ऋ गतौ कर्तरि लिङ् (१३) हे द्विजोत्तम 'ऐ' आगच्छ (१४) 'अधु' दधति स्म (१५) पूर्वोक्त कान्तावदन 'दश' चुम्बस्वेति (१६) हे राघव' त्व रावण आहवे शरै कृत्वा 'स्य' मारय इति (१७) भो श्लेष्मव्याधिनिपीडित ' यदि जीवितव्येच्छा तर्हि शीतल जल 'मा पा' मा पिवेति (१८) इ कामस्त हन्तीति 'इहा' ईश्वर इति (१९) हे ब्राह्मण' 'इभ्य' समृद्ध (२०) राक्षसानां इभ्य स्वामी रावण जनकस्य सुता सीता हृत्वा पुरी लङ्का ययौ (२१) श्यामौतव कृष्णमार्जारौ (२२) 'उ' महादेव (२३) उ, शिव इ ब्रह्मा अ विष्णु इत्यनेन व्य इति जातम् तस्य बहुवचने 'व्या' हर-विधि-हरय तव मोह भिन्दन्तु दुरितानि छिन्दन्तु. ये कर्तृशास्ते विचक्षणा (२४) अय पुरुषो रोष न करोति परुषं कठोर न वदति शत्रून्न हन्ति नामेति प्रसिद्धम् तथापि अस्य वीरस्य 'धी.' अखिला मही रञ्जयति. (२५) यैरनिश सुकृतं कृत तेषामेव 'मन.' शरदिन्दुकुन्दधवल नगपतिनिलय देव हर प्रसादयति.


कर्मगुप्तम्

शीकगुसारसवाहिसरोजवनमारुतः । प्रक्षोभयति पान्थ-
स्त्रीनि.श्वासैरिव मासलः ॥ २६ ॥ सुभग तवाननपङ्कजदर्शन-
सजातनिर्भरप्रीतेः । शमयति कुर्वन्दिवसः पुण्यवतः कस्य
रमणीय. ॥ २७ ॥ एहि हे रमणि पश्य कौतुक धूलि-
धूसरतनुं दिगम्बरम् । सापि तद्वदनपङ्कजं पपौ आत-
रुक्तमपि कि न बुध्यते ॥ २८ ॥

करणगुप्तम्

पूतिपङ्कमयेत्यर्थं कासारे दुःखिता अमी । दुर्धारा मानस
हंसा गमिष्यन्ति घनागमे ॥ २९ ॥ अह महानसायातः
कल्पितो नरकस्तव । मया सासादिकं भुक्त भीमं जानीहि
मा बक ॥ ३० ॥

संप्रदानगुप्तम्

अम्भोरुहमये स्नात्वा वापीपयसि कामिनी । ददाति
भक्तिसपन्ना पुत्रसौभाग्यकाम्यया ॥ ३१ ॥ प्रशस्त्यायुक्त-
मार्गस्य तव समानिता श्रिताः । स्पृहयन्ति न के नाम
गुणरत्नालय प्रभो ॥ ३२ ॥

अपादानगुप्तम्

शिलीमुखैस्त्वया वीर दुर्वारैर्निर्जितो रिपु. । बिभेत्य-
त्यन्तमलिनो वनेऽपि कुसुमाकुले ॥ ३३ ॥ सरसीतो-
यमुद्धृत्य जनः कंदर्पकारकम् ॥ पिबत्यम्भोजसुरभि स्वच्छ-
मेकान्तशीतलम् ॥ ३४ ॥

संबन्धगुप्तम्

तूणेव मधुमासेऽस्मिन्सहकारद्रुमञ्जरी । इयमुन्निद्रमुकुलै-
र्भाति न्यस्तशिलीमुखा ॥ ३५ ॥ भानुर्वै जायते लक्ष्म्या
सरस्वत्याथवा मता । अत्र षष्ठीपदं गुप्तं मर्यादा दशवार्षिकी
॥ ३६ ॥ प्राप्तमदो मधुमासः प्रबला रवियमतमोऽपि दूरस्थः ।
असती संनिहितेयं सहतशीला सखी नियतम् ॥ ३७ ॥

अधिकरणगुप्तम्

या कटाक्षच्छटापातैः पवित्रयति मानवम् । एकान्ते
रोपितप्रीतिरस्ति सा कमलालया ॥ ३८ ॥ विपद्यमानता
सिद्धा सर्वस्यैव निरूष्मणः । यथात्र भस्म पद्मा च निर्वाणं
हन्त्ययं जन. ॥ ३९ ॥


(२६) पान्थस्त्रीनि श्वासैर्मासल पुष्ट इवेत्युत्प्रेक्षा शीकरासारसंवाहिजवन मारुतो वेगवान्वायु 'स' प्रक्षोभयति (२७) दिवस 'श' सुख कुर्वन् अयति गच्छति (२८) हे रमणि' एहि कौ पृथिव्या तुर्क बालक धूलिधूसरतनु दिगम्बरं पश्य (२९) दुष्ट वा जल दुर्वा, तेन 'दुर्धारा' कलुषितजलेन (३०) महच्च तत् अन्न शकट च महान तेन 'महानमा' महता शकटेन आयात आगत नरको मृत्यु (३१) अम्भोरुहमये इत्यंत्र 'अये' इ काम तस्मै (३२) प्रशस्त्यायुक्तमार्गस्य इत्यत्र 'प्रशस्त्यै' कल्याणाय उक्तमार्गस्य (३३) 'अलिन' भ्रमरात् (३४) 'सरसीत' सरोवरात्, क जलम् (३५) उन्निद्रमुकुला 'ए' इति भिन्ने पदे क्रियेते इ कामस्तस्य ए (३६) भो कान्ति 'नु' नरस्य (३७) 'मास ' चन्द्रस्य अदो मधु मध प्राप्तम् (३८) 'ए' कृष्णे 'कान्ते' भर्तरि (३९) विपद्यमानता इत्यत्र 'विपदि' कष्टे निर्गत ऊष्मा द्रव्यरूपो यस्मात्तस्य निरूष्मण अमानता आदराभाव, शान्तमूर्ध्नरहितमित्यर्थ.