भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 210, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 210

क्रियांगुप्तादयः, मात्राच्युतकादयः १९५

आमन्त्रितगुप्तम्लिङ्गगुप्तम्
कमले कमले नित्य मधूनि पिबतस्तव । भविष्यन्ति न सर्वदेह कष्ट दोषाकरोदये ॥ ४० ॥ सर्वज्ञेन त्वया किंचिन्नास्त्यविज्ञातमीदृशम् । मिथ्यावचस्तथा च त्वमसत्य वेत्सि न क्वचित् ॥ ४१ ॥ पिबतस्ते शगवेण वारि कहारशीतलम् । केनेमौ दुर्विदग्धेन हृदये सन्निरोपितौ ॥ ४२ ॥ वटवृक्षो महानेष मार्गमावृत्य तिष्ठति । तावत्त्वया न गन्तव्यं यावन्नान्यत्र गच्छति ॥ ४३ ॥नितान्तस्वच्छहृदयं सखि प्रेयान्र्क्षमागतः । त्वा चिराद्दर्शनप्रीत्या य समालिङ्गय रक्षते ॥ ५० ॥ कलिकालमियं यावदगस्त्यस्य मुनेरपि । मानसं खण्डयत्यत्र शशिखण्डानुकारिणी ॥ ५१ ॥
कर्तृक्रियागुप्तम्सुब्वचनगुप्तम्
घनघनाघनकान्तिघनोऽघनुद्दनुजपुञ्जमिनात्रिजगुर्विग । सकमलोऽपिनदर्थसमा क्रियामिह विलोकयितु त्व सकर्तृकाम् ॥ ४४ ॥प्रमोदं जनयत्येव सदाग गृहमेधिनः । यदि धर्मश्च कामश्च भवेता सगताविमौ ॥ ५२ ॥
कर्तृकर्मक्रियागुप्तम्तिङ्वचनगुप्तम्
भवानिशंकरोमेश प्रति पूजापरायणः । कर्तृकर्मक्रियागुप्तं यो जानाति स पण्डितः ॥ ४५ ॥ वीरमलद्भुत लोके किमहं वच्म्यतः परम् । कर्तृकर्मक्रियागुप्त मर्यादा ब्रह्मणो वयः ॥ ४६ ॥कस्माच्च दुर्बलासीति सख्यस्ता परिपृच्छति । त्वयि सन्निहिते तासु दद्यात्कथय सोत्तरम् ॥ ५३ ॥
संधिगुप्तम्मात्राच्युतकादयः<br>मात्राच्युतकम्
न मया गोरसाभिज्ञ चेत कस्मात्प्रकुप्यसि । अश्यानरुदितैरेतैरमलोहितेक्षणे ॥ ४७ ॥महाशयमतिस्वच्छ नीर संतापशान्तये । खलवासादतिश्रान्ताः समाश्रयत हे जना ॥१॥ तुषारधवल स्फूर्जन्महामणिधरोऽनघः । नागराजो जयत्येकः पृथिवीधरणक्षमः ॥२॥
समासगुप्तम्बिन्दुच्युतकम्
विषादी भैक्ष्यमश्नाति सदारोग न मुञ्चति । रुष्टेनापि त्वया वीर शंभुनारिः समः कृतः ॥ ४८ ॥ नित्यमाराधिता देवैः कस्य द्विषतस्तनुः । मण्डलाग्रं गदा शङ्ख चक्रं जयति बिभ्रती ॥ ४९ ॥सुश्यामा चन्दनवती कान्ता तिलकभूषिता । कस्यैषानङ्गभूः प्रीति भुजंगस्य करोति न ॥ ३ ॥ यथा सत्यसवः स्निग्धः सन्मार्गविहितस्थितिः । तथा सर्वाश्रयः सत्यमयं मे वकुलद्रुमः ॥ ४ ॥
विसर्गच्युतकम्
महीरुहो विहगानामेते हृद्यैकलापिनाम् । विरुतै स्वागतानीव नीरवाहाय कुर्वते ॥५॥ अगस्त्यस्य मुनेः शापाद्ब्रह्मसन्दनमास्थितः । महासु खात्परिभ्रष्ठो नहुषः सर्पता गत ॥६॥

(४०) कमले इत्यत्र 'क अले' इति पदच्छेद हे 'अले' भ्रमर ' क सुख यथा स्यात्तथा पिबतस्तव (४१) सर्वजानातीति सर्वज्ञस्तस्य इन स्वामी तत्संबोधन हे मर्वज्ञेन पण्डितश्रेष्ठ ! (४२) हे 'एण' मृग ' कहार शीतल वारि उदक पिबत ते हृदये केन दुर्विदग्धेन इमौ शरौ वाणौ सन्निरोपितौ इत्यन्वय (४३) बवयोरैक्यात्, हे 'बटो' ब्राह्मण' ऋक्ष भल्लूक आवृत्त्य रुद्धा (४४) घन सान्द्र स चासौ घनाघन पर्जन्यश्च तस्य कान्तिस्तद्वत् घन सुन्दर घनवत्सुन्दर इत्यर्थ तथा अघनुत् अघहन्ता इन सूर्य अत्रिजश्चन्द्र तावेव गावौ नेत्रयुग्मे यस्य स तथा विना गरुडेन गच्छतीति 'विग' कमलया लक्ष्म्या सह वर्तते इति अत विष्णु रामावतारे कृष्णावतारे च दनुजपुञ्ज दैत्यनिचय 'अपिनद' चूर्णितवान् अत्र श्लोके सकर्तृका कर्त्रा सह वर्तमाना क्रिया क्रियापद विलोकयितु अर्धसमा अर्धवर्ष ददामीति श्लोककर्ता प्रतिज्ञा करोति (४५) हे 'कर' हस्त ! 'उमेश' प्रति अनिशं पूजापरायणो 'भव्' (४६) वीर, अहमलद्भुत वीर लोके पश्यामि अत पर कि वच्मि (४७) न निषेध मेमम आगोरसाभिक्षमिति पदच्छेद मे चेत आगोरसाभिज्ञ अपराधरमाभिक्ष नेत्यर्थ (४८) विषादी खिन्न, पक्षे,-विष कालकूटमत्तीति स विषादी तत्पुरुषसमास सदा सर्वदा रोग व्याधि न मुञ्चति पक्षे,-दारै सह वर्तमान सदार सस्त्रीक अग शैल न मुञ्चति तत्पुरुषसमास (४९) नित्य देवै आराधिता, पक्षे,-नित्य मा लक्ष्मीर्र्यस्या सा नित्यामा देवै राधिना बहुव्रीहिसमास' (५०) अय नितान्तमतिशयेन स्वच्छं निर्मल हृद् हृदय यस्य स नितान्तस्वच्छहृद् प्रेयान् समागत पुल्लिङ्गनिर्देश

(५१) इय अगस्त्यस्य वृक्षस्य कलिका अमल्यन्त मुनेर्मन खण्डयति स्त्रीलिङ्गनिर्देश (५२) सदारा इत्यत्र 'रा' इति प्रथमैकवचन सुबन्तम् गृहमेधिन इति षष्ठी (५३) अतिशयेन पृच्छतीति परिपृच्छति 'इति' यड्‌लुगन्ते अन्ति परतो रूपमस्ति इदमेव रूपमेकवचन ज्ञायते नतु बहुवचनेन इति तिङ्बचनगुप्तम्

(१) एकस्मिन्नर्थे 'नीर' जलम् द्वितीयेऽर्थे नीरशब्दस्य ईकारस्थाने अकार क्रियते तदा 'नर' पुरुष इत्यवशिष्यते (२) एकस्मिन्नर्थे 'नागराज' शेष द्वितीयेऽर्थे नागराज इत्यस्य आकारस्थाने अकार क्रियते तदा 'नगराज' हिमाचल इति स्यात् (३) एकस्मिन्नर्थे 'अनङ्गभू' कामस्य स्थान ईदृशी स्त्री द्वितीयेऽर्थे अनुस्वारो लुप्यते तदा 'नगभू' पर्वतस्य भूमि इत्यवशिष्यते (४) एकस्मिन्नर्थे 'अयं मे' मम 'वकुलद्रुम' बवयोरैक्यात् द्वितीयेऽर्थे अनुस्वारत्यागेन 'अयमेव कुलद्रुम' इति स्थितम् अय पुमान् कुले द्रुम इव द्रुमो वृक्ष (५) एकस्मिन्नर्थे 'हृद्यै' मनोहरै विरुतै शब्दै द्वितीयेऽर्थे विसर्गलोपे कृते 'हृद्यैकलापिनाम्' इति जातम् हृद्यं सुन्दर एक अद्वितीयं लपन्ति वदन्ति ते हृद्यैकलापिनस्तेषा विहगानाम् (६) एकस्मिन्नर्थे 'महासु ' महान्तोऽमव प्राणा यस्य स 'खात्' आकाशात् द्वितीयेऽर्थे विसर्गलोपे 'महासुखात्' महच्च तत्सुखं च तस्मात् राज्यात्

१ यत्र प्रश्ने मात्राविन्दुविसर्गाणा च्युतकेषु कृतेषु सत्सु द्वितीयोऽर्थे प्रकटो जायते तन्मात्राच्युतकादिकम् च्युतकशब्देन कुत्रचित्स्याने नाश, कुत्रचिद्विनिमयः