सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 211, कुल 516 में से
संदर्भ में पढ़ें१९६ | सुभाषितरत्नभाण्डागारम् | [ ४ प्रकरणम्
अक्षरच्युतकम्
महानपि सुधीरोऽपि बहुरत्नयुतोऽपि सन् । विरसः कुपरी-
वारो नदीनः केन सेव्यते ॥७॥ सुशीलः स्वर्णगौरङ्गः पूर्णचन्द्र-
निभाननः । सुगतः कस्य न प्रीतिं तनोति हृदि संस्थितः ॥८॥
स्थानच्युतकम्
तनोतु ते यस्य फणी गरुत्मान् पाणौ मुरारिर्दयिता च
शय्या । नाभौ स्फुरन्भद्रमशुश्रुदेशः पद्मा गतिश्चक्रमसौ
विधाता ॥ ९ ॥ हरः क्षयी तापकरः सुदेशः शान्तो
हरिर्गोत्ररिपुर्विवस्वान् । चन्द्रो द्विजिह्वाश्रित इत्युपेक्ष्य
लक्ष्म्या वृतः पातु विधिर्जगन्ति ॥ १० ॥
व्यञ्जनच्युतकम्
भिक्षवो रुचिराः सर्वे रसाः सर्वजनप्रियाः । क्षमायामभि
सपन्ना दृश्यन्ते मगधे परम् ॥११॥ सत्याशीलदयोपेतो दाता
सुचिरमत्सरः । जिनः सर्वात्मना सेव्यः पदमुच्चैरभीप्सता ॥१२॥
च्युतदत्ताक्षरम्
सदागतिह्वयोच्छ्लायस्तमसो वश्यता गतः । अस्तमेष्यति
दीपोऽयं विधुरेकः शिवे स्थितः ॥ १३ ॥ पूर्णचन्द्रमुखी
रम्या कामिनी निर्मलाम्बरा । तनोति कस्य न स्वान्तमेकान्त-
मदनातुरम् ॥ १४ ॥ कूजन्ति कोकिलाः साले यौवने
फुल्लमम्बुजम् । किं करोतु कुरङ्गाक्षी वदनेन
निपीडिता ॥ १५ ॥
अन्तरालापाः
कस्तूरी जायते कस्मात्को हन्ति करिणां कुलम् । किं
कुर्यात्कातरो युद्धे मृगात्सिंहः पलायनम् ॥ १ ॥ कः खे
चरति का रम्या का जप्या किं विभूषणम् । को वन्द्यः कीदृशी
लङ्का वीरमर्कटकम्पिता ॥ २ ॥ सीमन्तिनीषु का शान्ता
राजा कोऽभूद्गुणोत्तमः । विद्वद्भिः का सदा वन्द्या अत्रै-
वोक्तं न बुध्यते ॥ ३ ॥ युधिष्ठिरः कस्य पुत्रो गङ्गा वहति
कीदृशी । हंसस्य शोभा का वास्ति धर्मस्य त्वरिता गतिः
॥ ४ ॥ भोजनान्ते च किं पेयं जयन्त कस्य वै सुतः ।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम् ॥ ५ ॥ पृथवी-
सबोधनं कीदृक्कविना परिकीर्तितम् । केनेदं मोहितं विश्वं
प्रायः केनाप्यते यशः ॥ ६ ॥ कः कुर्याद्ध्रुवन सर्वे कः समु-
न्मूलयेद्द्रुमान् । किं प्रतीके भवेन्मुख्यं कः परत्रैति पुण्यताम्
॥ ७ ॥ भवत इवातिस्वच्छ कस्याभ्यन्तरमगाधमतिशिशि-
रम् । काव्यामृतरसमग्नस्त्वमिव सदा कः कथय सरसः ॥८॥
वीरे सरुषि रिपूणा नियतं का हृदयशायिनी भवति । नभसि
प्रस्थितजलदे का राजति हन्त वद तारा ॥ ९ ॥ भ्रमरहितः
कीदृक्षो भवतितरा विकसितः पद्मः । ज्योतिषिकः कीदृक्षः
प्रायो भुवि पूज्यते लोकैः ॥ १० ॥ प्रभवः को गङ्गाया नग-
पतिरतिसुभगस्त्वङ्गधरः । के सेव्यन्ते सेवकसार्थैरत्यर्थमर्थरतैः
॥ ११ ॥ अयमुदितो हिमरश्मिर्वर्णितावदनस्य कीदृशः
सदृशः । नीलादिकोपलम्भ्रः स्फुरति प्रत्यक्षतः कस्य ॥ १२ ॥
गैरिकमनःशिलादिः प्रायेणोत्पद्यते कुतो नगतः । यः खलु
न चलति पुरुषः स्थानादुक्तः स कीदृक्षः ॥ १३ ॥ कस्य मेरौ
दुरधिगमः कमले कः कथय विरचितावासः । कैस्तुष्यति
चामुण्डा रिपवस्ते वद कुतो अद्यः ॥ १४ ॥ कं संजघान
कृष्णः का शीतलवाहिनी गङ्गा । के दारपोषणरताः कं बल-
वन्तं न बाधते शीतम् ॥१५॥ कः कौ के कं कौ कान् हसति
[टिप्पणी]
(७) एकस्मिन्नर्थे नदीना इन स्वामी 'नदीन' समुद्र द्वितीयेऽर्थे नदीन इत्यस्मात् नकार सस्वरो लुप्यते तदा 'दीन' इति तिष्ठति दीनशब्देन कृपणधनी पुमान्
(८) एकस्मिन्नर्थे 'सुगतो' बुद्ध जिन द्वितीयेऽर्थे सुगत इत्यस्मात् गकार सस्वरो लुप्यते तदा 'सुत' इति स्यात् सुत पुत्र
(९,१०) एषा श्लोकाना मध्ये अर्थयोजनिकाया कृताया सत्या योजनिका स्थानान्तरे धृताऽस्ति यो यस्य शब्दस्य अन्वयतवेन लगति सं शब्दस्तत्पार्थे धृतो नास्ति
(११) एकस्मिन्नर्थे 'भिक्षव' श्वेताम्बरा द्वितीयेऽर्थे भिक्षव इति पदात् भ्रकारलोप क्रियते तदा 'इक्षव ' गुडवृक्षा
(१२) एकस्मिन्नर्थे 'जिनो' वीतराग द्वितीयेऽर्थे जिन इत्यस्माज्जकारो लुप्यते तदा 'इन' इति स्थितम् इन स्वामी राजा वा
(१३) एकस्मिन्नर्थे 'दीप' द्वितीयेऽर्थे दीप इत्यत्र पकार लुप्त्वा तत्स्थाने नकारो दीयते तदा 'दीन' इति अय दीनो विधुश्चन्द्र एक एव शिवे स्थित
(१४) एकस्मिन्नर्थे 'कामिनी' स्त्री द्वितीयेऽर्थे 'यामिनी' रात्रि
(१५) अत्र 'रसाले' इति वक्तव्ये 'साले' इति रक्ष्यत 'वने' इत्यत्र 'यौवने' इति यौर्दत्त 'वदनेन' इत्यत्र 'मदनेन' इति मश्च्युतो वो दत्त
(१) कस्तूरी कस्माद् जायते? मृगात् करिणा कुल को हन्ति? सिंह कातरो युद्धे किं कुर्यात् ? पलायनम्-इति योजना
१ कर्तृकर्मक्रियापदाना स्थानान्तरे धृतत्वाद् अन्वयो दुर्लभो यस्य वृत्तस्य तत् स्थानच्युतकम्
२ 'स्फोटयित्वाक्षर किंचित्पुनरन्यस्य दानत । यत्रापरो भवेदर्थश्च्युतदत्ताक्षर हि तत् ॥' इति
(२) खे क चरति ? वि पक्षी रम्या-रमा जप्या ? ॐ विभूषणम्-कटकम् वन्द्य - पिता लङ्का-वीरमर्कटैर्हनूमदादिभि कम्पिता नास्ति तेत्यर्थ
(३) चरणायन्ताक्षरोर्मेलनेनोत्तरम् यथा सीता राम विद्या
(४,५) चतुर्थपादस्थपदत्रयेण प्रश्नत्रयस्योत्तरम्
(६) 'कविना' हे को हे पृथ्वि ' इना कामेन कविना काव्यकर्त्रा
(७,८) 'सरस' तडागस्य रसेन शृङ्गारादिना सह वर्तमान
(९) 'तारा' आरा चर्मप्रभेदिनी शत्रूणा मनसि दुःखरूपा तारा नक्षत्रम्
(१०) 'भ्रमरहित ' भ्रमराणा भृङ्गाणा हितो हितकृद् भ्रमेण मिथ्याप्रत्या रहित शुद्धज्ञानवान्
(११) 'प्रभव' उत्पत्तिस्थानम् महान्त ईश्वरा
(१२) 'सदृश' समान इव दृश्यतेऽसौ तुल्य इत्यर्थ इक्षा नेत्रेण सह वर्तमान सदृक् तस्य सेनेत्रस्य मनुष्यस्य
(१३) 'नगत 'नगात्पर्वतात् न गत स न जगामेत्यर्थ
(१४) 'कस्य' क जल तस्य 'क' ब्रह्मा 'कै' मस्तक 'कुत 'पृथ्व्या सकाशात् पृथ्व्याधिकारतापतिता इत्यर्थ .
(१५) कृष्ण क सजघान ? कासम शीतलवाहिनी गङ्गा का? काशी दारपोषणरता के? केदारपोषणरता शीत बलवन्त कं न बाधते? कम्बलवन्तम्-इति योजना
१ मरुदेशे