भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 212, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 212

अन्तरालापाः १९७


च हसतो हसन्ति हरिणाक्ष्याः । अधरं पल्लवमङ्गी हंसौ चन्दस्य कोरकान्दन्ताः ॥ १६ ॥ का शंभुकान्ता किमु कुन्दकान्तं कान्तामुखं किं कुरुते भुजंग. । कः श्रीपति का विषमा समस्या गौरीमुखं चुम्बति वासुदेवः ॥ १७ ॥ का लोकमाता किमु देहमुख्यं रतेः किमादौ कुरुते मनुष्यः । को दैत्यहन्ता वद वै क्रमेण गौरीमुख चुम्बति वासुदेवः ॥ १८ ॥ का शैलपुत्री किमु नेत्ररम्यं शुकार्भक. किं कुरुते फलानि । मोक्षस्य दाता स्मरणेन को वा गौरीमुखं चुम्बति वासुदेवः ॥ १९ ॥ के भूषयन्ति स्तनमण्डलानि कीदृग्द्युमा चन्द्रमसः कुतः श्रीः । किमाह सीता दशकण्ठनीता हारामहादेवरतातमातः ॥ २० ॥ खेः कवे. कि समरस्य सारं कृषेर्भय किमिषन्ति भृङ्गाः । खलाद्वयं विष्णुपदं च केषा भागीरथीतीरसमाश्रितानाम् ॥ २१ ॥ व्रजन्ति पद्मानि कदा विकास प्रिया गते भर्तरि किं करोति । रात्रौ च नित्यं विरहाकुला का सूर्योदये रोदिति चक्रवाकी ॥ २२ ॥ सन्तश्च लुब्धाश्च महर्षिसंघा विप्राः कृषिस्याखलु माननीयाः । किं किं समिच्छन्ति तथैव सर्वे नेच्छन्ति कि माधवदाघयानम् ॥ २३ ॥ का पाण्डुपत्नी गृहभूषणं किं को रामशत्रुः किमगस्त्यजन्म । क. सूर्यपुत्रो विपरीतपृच्छा कुन्तीसुतो रावणकुम्भकर्णौ. ॥ २४ ॥ करोति शोभामलके स्त्रियाः को दृश्या न कान्ता विधिना च कोक्ता । अङ्गे तु कस्मिन्दहन. पुरारेः सिन्दूरबिन्दुविधवाललाटे ॥ २५ ॥ किं भूषण सुन्दरसुन्दरीणा किं दूषण पान्थजनस्य नित्यम् । कस्मिन्विधात्रा लिखितं जनाना सिन्दूरबिन्दुविधवाललाटे ॥ २६ ॥ कीदृक्षा गिरिशतनुर्जये च धातुर्विष्णौ का विबुधजरातमस्तुतीया । मध्यार्णे सति कथमात्मकोऽस्ति देशः सोमाज्यं सकलकलो जहातसाहा ॥ २७ ॥ विवाहे पुरंध्रीजनैर्लिप्यते का न के मानमायान्ति गर्वाेन्नता का । घने वारिधौ रामतः कम्पते का हरिद्रा दरिद्राः सरिद्रावणश्रीः ॥ २८ ॥ कस्मिन्रसन्ति वद मीनगणा विकल्प किं वापदं वदति किं कुरुते विवस्वान् । विद्युल्लतावलयवान्पथिकाङ्गनानामुद्वेजको भवति कः खलु वारिवाहः ॥ २९ ॥ शब्दः प्रभूत इति प्रचुरार्र्भिधायी कीदृग्भवेद्वदत शब्दविदो विचिन्त्य । कीदृग्बृहस्पतिमते विहिताभियोग. प्रायः पुमान्भवति नास्तिकवर्गमध्यः ॥३०॥ कः प्रार्थ्यते मदनविह्वलया युवत्या भाति क्व पुण्ड्रकमुपैति कथं बतायुः । कानादरो भवति केन च रज्यतेऽब्ज बाह्यास्ति कि फलमुदाहर नालिकेरम् ॥ ३१ ॥ क वसति लघु जन्तुः किं निदानं हि वान्तेर्झटिति वद पशु कं लम्बकण्ठं वदन्ति । प्रसवसमयदुःखं वेत्ति या कामिनीना तिलतुषपुटकोणे मक्षिकोट्रं प्रसूता ॥ ३२ ॥ को निर्दग्धस्त्रिपुरारिपुणा कश्च कर्णस्य हन्ता नयाः कूल विघटयति कः क. परस्त्रीरतश्च । क. सन्नद्धो भवति समरे भूषणं किं कुचाना किं दु.सङ्गाद्भवति महता मानपूजापहारः ॥ ३३ ॥ कः कान्तारमगात्पितुर्वचनतः संश्लिष्य कण्ठस्थली कामी किं कुरुते च गृप्रहठतश्छिद्रं प्ररूढं च किम् । का रक्ष कुलकालरात्रिरभवच्चन्द्रातपं द्वेष्टि को रामश्रुम्बति रावणस्य वदनं सीतावियोगातुरः ॥ ३४ ॥ कीदृग्बात्तमंतगजः कमभिनत्यादेन नन्दात्मजः शब्दं कुत्र हि जायते युवतयः कस्मिन्र्सति व्याकुलाः । विक्रेतुं दधि गोकुलात्मचलिता कृष्णेन मार्गे धृता गोपी काचन त किमाह करण दानी अनोखे भये ॥ ३५ ॥ किं कुर्वन्त्युधसि द्विजा. प्रतिदिनं के माननीयाः प्रभोः का वा साहसिकी निशासु सततं द्यौ. कीदृशी वर्तते । कुत्रास्ते मधु नालिकेरजफले कैः स्यात्पिपासाशम. सध्यावन्दनमाचरन्ति विबुधा नारीभगान्तर्जलेः ॥ ३६ ॥ लङ्काभूपनिशाचरो रघुपति युद्धे कथं दृष्टवान् दीनं पाति पितेव यः पशुपतिः कस्तस्य वाहः प्रिय. । केनापूर्वफलं नरैः सुकृतिभिः कस्मिन्स्थले भुज्यते जारा ये भुवि तान्नशास्ति कतमो ह्येषाामिहैवोत्तरम् ॥ ३७ ॥


(१६) हरिणाक्ष्याः क कं हसति ? अधर- पल्लवम् कौ कौ हसत ? अङ्गी हंसौ. के कान् हसन्ति ? दन्ताः कुन्दस्य कोरकान् (१७,१८,१९) गौरी मुखम् चुम्बति वासुदेव गौरीमुख चुम्बति वासुदेवः भुजंगो जार" (२०) हारा महादेवरता तमात रात्रित हा राम हा देवर, हा तात, हा मात. (२१) भा कान्ति गी वाणी रथी योद्धा इंति. अनावृष्ट्यादि भृङ्गा रस उशन्ति वाञ्छन्ति आश्रितानाम् भागीरथीतीरसमाश्रितानाम् (२२) सूर्योदये. रोदिति चक्रवाकी २३ मानम् धनम् वनम् दानम् धनम्. यानम् माधवदाघयान माधवे वैशाखे दाघ ऊष्मा तस्मिन् यान गमन नेच्छन्ति (२४, २५, २६) चतुर्थपादखपदे प्रश्नस्योतरम् (२७) सोमा जिङ् लक्ष्मी (२८) चतुर्थपादस्थचतुर्भि पदै क्रमेण चत्वारि उत्तराणि

(२९) 'वारिवाह • वारि जले वा विकल्पार्थे अह दिनम् वारिवाहो मेघ ३० नास्ति कवर्गमध्य न विद्यते कवर्गो गकारो मध्ये यस्य स प्रभूतशब्द प्रभूत प्रचुरवाची नास्तिकाना अपुनर्जन्मवादिना वर्ग समूहस्तस्य मध्येऽन्तर्वर्ती (३१) 'नालिकेरम्' ना पुरुष अलिके भाले अर शीघ्रम् पुन प्रतिलोमम् रङ्गे क्षुद्रे अलिना भ्रमरेण. बाह्येऽस्थि यस्य एवविधं नालिकेरम् (३२) चतुर्थपादस्थपदचतुष्टयेन प्रश्नचतुष्टयस्योत्तरम् (३३) मार मदन नर पूर जार पर हार मानपूजापहार मानपूजयोरपहारो नाश (३४) चतुर्थपादस्थपदैरनुक्रमेण उत्तराणि (३५) दानी दानमस्यास्तीति अन शूरटम् खे आकाशे भये सति दानी अनोखे भये यावनीभाषया प्रत्युत्तरम् (३६) चतुर्थपादस्थपदैरनुक्रमेणोत्तराणि (३७) लंका-काल दीन-नदी केन सुखेन-नाके स्वर्गे जारा - राजा