सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 213, कुल 516 में से
संदर्भ में पढ़ें| १९८ | सुभाषितरत्नभाण्डागारम् | [ ४ प्रकरणम् |
|---|
कुत्रोदेत्युदयाचलस्य तरणी रम्या यति कस्य खे कान्त्या
भान्ति च किं करोति गणको यष्टि विधुलैति कः । कस्मि-
ञ्जाग्रति जन्तवो न च कदा सूते च का क प्रिय. शृङ्गाग्रे तुर-
गस्य भानि गणयन्व्यत्योऽहिवन्ध्यासुत ॥ ३८ ॥ अन्यस्त्रीस्पृ-
हयालवो जगति के पश्चाद्गमग्या च का को धातुर्दर्शने सम-
स्तमनुजै. का प्रार्थ्यतेऽहर्निशम् । दृष्ट्वा यवनेश्वरो निजपुरे
पद्मानना कामिनी मित्रं प्राह किमादरेण सहसा यागानदी
दशमा ॥ ३९ ॥ कस्मिञ्शेते मुरारिः क न खलु वसति-
र्वायसी को निषेध स्त्रीणा रागस्तु कस्मिन्क नु खलु मितिमौ
शौरिसंबोधनं किम् । सबुद्धि का हिमाशोर्विधिहरगयसा
चापि सबुद्धय का ऋते लुब्ध, कथं वा कुरु कुलहननं केग
तत्केशवेन ॥ ४० ॥ गच्छन्ति काजिवहौ द्वैतनिजतनव.
का भिनत्ति स्वकूल कि स्याद्भोज्यं विकल्पे कँकचनिभनखै
कि नृसिंहेन भिन्नम् । कीटग्विद्या. प्रसूति किमनलशमन का
नृपै. पालनीया को वन्द्य कः प्रमाष्टिं त्रिभुवनकलुषं स्वर्धुनी-
वारिपूर ॥ ४१ ॥ पुस. सबोधनं कि विदधति करिणा
के रुंचोऽथोर्र्ध्वर्षत्कि का शून्या ते रिपूणा नरवरनरकं कोऽन-
धीद्रोचकं किम् । के वा वर्षासु न स्युर्बिसमिव हरिणा कि
नखायैर्विभिन्नं को वा मार्गे विसर्पन्विघटयति तरून्नर्मदा-
वारिपूरः ॥ ४२ ॥ कि तृष्णाकारि कीदृग्मथचरणमहो रोति
कः कान्धिकाब्धिः कोऽपस्मारी भुजगे किमु कलिशमन त्यार्य-
सबोधनं किम् । का सुन्दर्यामपीन्दुः कथमचलभृतः का च
सबुद्धिरग्नेर्बीजं कि कोंवनीजारमणमतिहरा हेममारङ्ग्यलीला
॥ ४३ ॥ ताराविष्णूरणाविट्खगहृदयरमास्कन्दसबुद्धय. क
क स्याद्धातुत्रयं लुग्विकरणपठित कुत्र तरूनावबोध. । चत्वार-
(३८) चतुर्थपादस्थपदैरनुक्रमेणोत्तराणि (३९) यारा जारा नदी
दश मालक्ष्मी यारानदीद शमा हे मित्र, एतादृशी दीपकलिका मया
कदापि न दृष्टा इत्यर्थक यावनीभाषया उत्तरम् (४०) के उदके शवे
प्रेते न नवे शके यत्रनविशेषे केशव इन क ईश वे न केशवेन
(४१) स्व स्वर्गे धुनी नदी वा रिपूर रिपोर्र्द्धरण्यकशिपोरुर
स्तुलम् स्वर्धुनी स्व स्वर्गे धूनयति कम्पयतीति तादृशी वारि उद्-
कम् पू पुरी अ विष्णु स्वर्धुनीवारिपूर (४२) न मदा वारि
पू नगरी अ विष्णु नर्म क्रीडानर्म दावा दावानला रिपूर
हिरण्यकशिपोरुर स्थलम् नर्मदावारिपूर (४३) हेम सार अराभि.
सहितम् गली प्रशस्तकण्ठ इला पृथ्वी लाली लालावान् गर
विषम् साम सान्त्वम् हे हेला लीला मली बलवान् कलङ्कीति
यावत साग अग्रेर्वृद्धै सहित रम् हेमसारङ्ग्यलीला हेम्न सुवर्णस्य
सारङ्गो मृग तस्य लीला
१ कस्मिन्प्रदेशे २ सूर्ये ३ श्वेतवस्त्रम् ४ संग्रामाश्रौ ५ त्यक्तनि
जदेहा ६ करपत्रसदृशनखै ७ शोभा. ८ रमणीयम् ९ गायति
१० अवनिजा सीता तद्रमणो राम
स्तद्धिताः स्युः क नु खलु विगलैकेकवर्णस्वरूपाः किं सूत्रं
पाणिनीयं विकसति न सहसोक्तिर्बिम्बोष्ठरेऽपि ॥ ४४ ॥
बहिरालापाः
पूजाया किं पदं प्रोक्तमस्तनं को बिभर्त्युरः । क आयु-
धतया ख्यात. प्रलम्बास्रुरविद्विष. ॥ १ ॥ को दुराख्यस्य
मोहाय का प्रिया मुरविद्विष. । पदं प्रश्नवितर्के कि को
दन्तच्छदभूषणम् ॥ २ ॥ पक्षिश्रेष्ठसखीबभ्रूसुरा वाच्या.
कथं वद । ज्येष्ठे मासि गता. शोष कीदृश्योऽल्पजला
भुव ॥ ३ ॥ विश्वंभराप्रलम्बघ्नीहिमानुषसयुगा. । कथ
वाच्या भवन्त्येता दिनान्ते विकसन्ति का. ॥ ४ ॥ आन-
न्दयति कोऽत्यर्थ सजनानेव भूतले । प्रबोधयति पद्मानि
तमांसि च निहन्ति क ॥ ५ ॥ अटवी कीदृशी प्रायो
दुर्गमा भवति प्रिये । प्रियस्य कीदशी कान्ता तनोति सुर-
तोत्सवम् ॥ ६ ॥ कीदृक्कि स्यान्न मत्स्याना हितं स्वेच्छा-
विहारिणाम् । गुणैः परेषामत्यर्थ मोदते कीदृश पुमान्
॥ ७ ॥ अगस्त्येन पयोराशेः कियत्कि पीतमुज्झितम् ।
त्वया वैरिकुल वीर समरे कीदृशं कृतम् ॥ ८ ॥ के
स्थिराः के प्रियाः स्त्रीणा कोऽप्रियो नक्तमाह्वय । नृत्यभूः
कीदृशी रम्या नदी कीदृग्घनागमे ॥ ९ ॥ का कृता
विष्णुना कीदृग्योषिता कः प्रशस्यते । असेव्यः कीदृशः
(४४) हे भ हे अ अवे भा वे भाव इ भावे भा दीप्तौ वा
गतिगन्धनयो इण् गतौ भावे भवस्यापत्य भावि अवस्यापि वस्य
वि अस्य इ . सश्च रश्च अश्व श्वा तेषामुक्य स्रोज्ञ्य ताभि सह
'भास्वरे' इत्यस्मिन्पदे 'भावे' इत्युत्तर स्फुरति 'भास्वरे' इत्यत्र सकार-
अकाररेफैर्विना 'भावे' इति पाणिनिसूत्र मुङ्गवतीत्यर्थे
(१) 'सुनासीर' सु पूजायाम् ना पुरुष सीरो हलम्
(२) 'रामानुराग' रा धनम् मा लक्ष्मी नु इति वितर्के राग
आरक्तत्वम् (३) 'विवरालीनकुलीरा ' वि पक्षी वर श्रेष्ठम् आली
सखी नकुली नकुलस्त्री इरा मदिरा विवरेषु छिद्रेषु आलीना प्रविष्टा ०
कुलीरा जलचरजीवविशेषा यासु ता (४) 'कुवलयवनराजाय ' कु
पृथ्वी (बवयोरैक्यात्) बलो बलभद्र यवो धान्यभेद नरो
मनुष्य आजि सग्राम कुवलयाना कमलाना वनाना राजय
पङ्कय (५) 'मित्रोदय' मित्राणा सखीनामुदयो वृद्धि' मित्रस्य
सूर्यस्य उदय उद्गमनम् (६) 'मदनवती' मदना मदनवृक्षा विद्यन्ते
यस्या सा अतिगहनत्वादुर्गमा मदन कामो विद्यते यस्या सा सयो-
वना इत्यर्थ (७) 'विमत्सर' वय पक्षिणो विचरन्ते यस्मिंस्तत् विमत्
ईदृश सरस्तद्भागम् विगतो मत्सरोऽहंकारो यस्य स (८) 'सकल
कम् ' सकल समस्त क पानीय मूत्र च कलङ्केन लाञ्छनेन सह वर्त
मानं कृतम् (९) 'अगाधवारिपूरजनिततरङ्गा' अगा पर्वता धवा
भर्तार रिपु शत्रु हे रजनि ! ततरङ्गा ततो विस्तीर्णो रङ्गो नर्तन-
मण्डपो यस्या सा अगाधेन अतलस्पर्शेन वारिपूरेण जनसमूहेन
जनिता उत्पादितास्तरङ्गा लहर्यो यस्या सा